प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.10.1 TS 6.4.10.1
बृह॒स्पति॑र्दे॒वानां᳚ पु॒रोहि॑त॒ आसी॒-च्छण्डा॒मर्का॒-वसु॑राणां॒ ब्रह्म॑ण् वन्तो दे॒वा आस॒न् ब्रह्म॑ण् व॒न्तोऽसु॑रा॒स्ते᳚(1॒) ऽन्यो᳚ऽन्यं नाश॑क्नुव-न्न॒भिभ॑वितुं॒ ते दे॒वाः शण्डा॒मर्का॒-वुपा॑मन्त्रयन्त॒ ता व॑ब्रूतां॒ ॅवरं॑ ॅवृणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑-वगृह्ण॒न् ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यस्यै॒वं ॅवि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भ॑वत्या॒त्मना॒ परा᳚- [ ]
पदपाठः (Word-by-word)
बृह॒स्पतिः॑ । दे॒वाना᳚म् । पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ । आसी᳚त् । शण्डा॒मर्का॒विति॒ शण्डा᳚ - मर्कौ᳚ । असु॑राणाम् । ब्रह्म॑ण्वन्त॒ इति॒ ब्रह्मण्ण्॑ - व॒न्तः॒ । दे॒वाः । आसन्न्॑ । ब्रह्म॑ण्वन्त॒ इति॒ ब्रह्मण्ण्॑ - व॒न्तः॒ । असु॑राः । ते । अ॒न्यः । अ॒न्यम् । न । अ॒श॒क्नु॒व॒न्न् । अ॒भिभ॑वितु॒मित्य॒भि - भ॒वि॒तु॒म् । ते । दे॒वाः । शण्डा॒मर्का॒विति॒ शण्डा᳚ - मर्कौ᳚ । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ । तौ । अ॒ब्रू॒ता॒म् । वर᳚म् । वृ॒णा॒व॒है॒ । ग्रहौ᳚ । ए॒व । नौ॒ । अत्र॑ । अपीति॑ । गृ॒ह्ये॒ता॒म् । इति॑ । ताभ्या᳚म् । ए॒तौ । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । अ॒गृ॒ह्ण॒न्न् । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यस्य॑ । ए॒वम् । वि॒दुषः॑ । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । गृ॒ह्येते॒ इति॑ । भव॑ति । आ॒त्मना᳚ । परेति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रानुपेक्ष्य ग्रहौ विधत्ते –

‘बृहस्पतिर्देवानां पुरोहित आसीच्छण्डामर्कावसुराणां ब्रह्मण्वन्तो देवा आसन्ब्रह्मण्वन्तोऽसुरास्तेऽन्योन्यं नाशक्नुवन्नभिभवितुं ते देवाः शण्डामर्कावुपामन्त्रयन्त तावब्रूतां वरं वृणावहै ग्रहावेव नावत्रपि गृह्येतामिति ताभ्यमेतौ शुक्रामन्थिनावगृह्णन्तो देवा अभवन्पराऽसुरा यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ४ अ. १०) इति। ब्रह्मण्वन्तः पुरोहितानुष्ठितमन्त्रसामर्थ्योपेताः। उपामन्त्रयन्त रहस्युपच्छन्दितवन्तः। यद्यप्यन्यत्र शण्डामर्कयोरवयोर्यज्ञभागो नास्ति तथाऽप्यत्राप्यग्निष्टोमे सोऽस्तु। तत्रापि ग्रहावेव व तु लेपादिः अत्र गृह्येतामित्येतावदेव शण्डामर्काभ्यां वृतं न तु हूयेतामिति। ततो देवा ग्रहणमात्रेण स्वकार्यं साधितवन्तः।

यथार्थवादेन ग्रहयोरधस्ताल्लग्नानां पांसूनामपध्वंसनं विधातुं विधिमुन्नयति —

‘तौ देवा अपनुद्याऽऽत्मान इन्द्रायाजुहवुरपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद्यं द्विष्याद्यमेव द्वेष्टि तेनैनौ सहाप नुदते’ (सं. का. ६ प्र. ४ अ. १०) इति।

देवा: स्वकार्यसिद्धेरूर्ध्वं तौ शण्डामर्कावपसार्य स्वकीयायेन्द्राय तौ शुक्रामन्थिग्रहावजुहवुः। तस्मद्ग्रहयोरधोलग्नां धूलिमपध्वंसयन्नन्यत्र समाम्नातमपनुत्ताविति मन्त्रं ब्रूयात्। अमुनेत्यत्र द्वेष्यस्य द्वेष्टुश्च नाम ध्यायेत्।

अन्यत्राऽऽम्नातेन मन्त्रेण ग्रहहोमस्य विधिमर्थवादेनोन्नयति —

‘स प्रथमः संकृतिर्विश्वकर्मेत्येवैनावात्मन इन्द्रायाजुहवुरिन्द्रो ह्येतानि रूपाणि करिक्रदचरत्’ (सं. का. ६ प्र. ४ अ. १०) इति।

मन्त्रपाठस्तुः –

‘स प्रथमः संकृतिर्विश्वकर्मा। स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वान्। तस्मा इन्द्राय सुतमा जुहोमि’ इति।

स इन्द्र प्रथमो देवानां मुख्यः सर्वाधिपतित्वात्। समीचीना कृतिर्निर्माणं यस्यासौ संकृतिः। तादृशो विश्वकर्मनामको देवोऽपि स इन्द्र एव। मित्रो वरुणोऽग्निः स एव। चिकित्वानभिज्ञो बृहस्पतिरपि स एव। तादृशायेन्द्रायाभिषुतं सोमं सर्वतो जुहोमि। यस्मादिन्द्र एतानि विश्वकर्मत्वादीनि रूपाणि करिक्रदत्यर्थं कुर्वञ्जगदचरत्तस्मात्तत्प्रतिपादकेनानेनैव मन्त्रेण होमो युज्यते।

होमात्पुरा ग्रहावादायाऽऽच्छाद्याध्वर्युप्रतिप्रस्थातारौ प्राङ्मुखौ निर्गच्छेतामिति विधत्ते —

‘असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थ्यपिगृह्य प्राञ्चौ निष्क्रामतस्तस्मात्प्राञ्चौ यन्तौ न पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।

पश्चिमदिश्यस्तं गत्वा पुनरुदयाय प्रङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ द्रष्टुं केऽपि न शक्नुवन्ति। तस्माद्ग्रहयोराच्छादनं युक्तम्।

होमाय प्रत्यङ्मुखत्वं विधत्ते–

‘प्रत्यञ्चावावृत्य जुहुतस्तस्मात्प्रत्यञ्चौ यन्तौ पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।

उदयादूर्ध्वं प्रत्यङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ सर्वे पश्यन्ति। अतो ग्रह-योराच्छादनमपनीय प्रत्यङ्मुखत्वेनाऽऽवृत्तिर्होमार्था युक्ता।

उत्तरवेदेरभितः परिक्रमणं विधत्ते —

‘चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ नासिकोत्तरवेदिरभितः परिक्रम्य जुहुतस्तस्मादभितो नासिकां चक्षुषी तस्मान्नासिकया चक्षुषी विधृते सर्वतः परि क्रामतो रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।

अत्र चसहोमे प्राङ्मुखत्वं ग्रहहोमे प्रत्यङमुखत्वं च विधत्ते —

‘देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तस्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्तास्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ पश्चाच्चैव पुरस्ताच्च यजमानो भ्रतृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते’ (सं. का. ६ प्र. ४ अ. १०) इति।

सूत्रकारेणोदाहृतौ परिक्रमणमन्त्रौ प्रदेशान्तर आम्नाताविह व्याचष्टे —

‘शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्तेऽत्रीश्चाऽऽद्याश्च सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषा सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशौचिषेत्याहैता वै सुवीरा या अत्रीरेताः सुप्रजा या आद्याः’ (सं. का. ६ प्र. ४ अ. १०) इति।

अत्रीर्भोक्त्र्य उत्तमजातयो ब्राह्मणादय आद्या भोग्या नीचजातयो भृत्यकर्मकरादयः। मन्त्रार्थस्तु — शोभना वीरा उत्तमा यासां ताः सुवीराः। शोभनाः सेवाकुशलाः प्रजाः पुत्रादयो यासां ताः सुप्रजाः। हे शुक्रग्रह त्वं यजमानस्य शोभनभोक्तृयुक्ताः प्रजा उत्पादयन्नुत्तरवेदेर्दक्षिणतः परीहि। शुक्रग्रहस्त्वं शुक्रदेवतासंबन्धिना तेजसा रक्षसामपघातं कुर्विति शेषः। हे मन्थिग्रह त्वं यजमानस्य शोभनसेवकरूपाः प्रजा उत्पादयन्नुत्तरवेदेरुत्तरतः परीहि। मन्थिग्रहस्त्वं मन्थिदेवतासंबन्धिना तेजसा रक्षांस्यपजहि। एता वै सुवीरा इत्यादिकं मन्त्रव्याख्यानम्।

वेदनं प्रशंसति —

“य एवं वेदात्र्यस्य प्रजा जायते नाऽऽद्या” (सं. का. ६ प्र. ४ अ. १०) इति।

मन्थिपात्रस्य विकङ्कतवृक्षत्वं सक्तुमेलनं च विधत्ते —

“प्रजापतेरक्ष्यश्वयत्तत्पराऽपतत्तद्विकङ्कतं प्राविशत्तद्विङ्कते नारमत तद्यवं प्राविशत्तद्यवेऽरमत तद्यवस्य यवत्वं यद्वैकङ्कतं मन्थिपात्रं भवति सक्तुभिः श्रीणाति प्रजापतेरेव तच्चक्षुः सं भरति” (सं. का. ६ प्र. ४ अ. १०) इति। सक्तवो यवपिष्टानि।

आहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीति वचनादितरपात्रवन्मन्थिपात्रस्यापि सदःप्रवेशः प्राप्नोति तन्निषेधं

प्रश्नोत्तराभ्यामुन्नयति —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्यान्मन्थिपात्र सदो नाश्नुत इत्यार्तपात्र हीति ब्रूयाद्यदश्नुवीतान्धोऽध्वर्युः स्यादार्तिमार्च्छेत्तस्मान्नश्नुते” (सं. का. ६ प्र. ४ अ. १०) इति। आर्तपात्रं रोगयुक्तचक्षुःस्वरूपमिदं पात्रम्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 बृहस्पतिरित्यादि ॥ पुरोहितमहिम्ना उभयेऽपि देवा असुराश्च ब्रह्मण्वन्तः ब्रह्मवर्चसवन्तः मन्त्रवन्तो वा अभवत् । ततोन्योन्यमभिभवितुं नाशक्नुवन् । उपामन्त्रणं रहस्युपच्छन्दनं उपजापः चित्तभेदनम् । तावित्यादि । गतम् । ताभ्यां शुक्रामन्थिनौ ग्रहौ अगृह्णन् । गतमन्यत् ॥
2 तौ देवा इत्यादि ॥ ग्रहग्रहणमात्रेण तौ तोषयित्वा असुरांश्च ताभ्यां जित्वा होमकाले तावपनुद्य त्यक्त्वा आत्मने सर्वात्मभूतायेन्द्राय तौ ग्रहौ देवा अजुहवुः । यं द्विष्यादित्यादि । यं द्विष्यात् तं द्वेष्यं 'अपनुत्तौ शण्डामर्कौ सहामुना' इत्यत्रामुनेतिपदस्थाने गृहीतनामानं निर्दिशेदित्यर्थः । एवं कृते किं कृतं भवतीत्याह - यमेवेत्यादि । तेन द्वेष्येण सहैव एनौ शण्डामर्कौ अपनुदते ॥
3 स प्रथम इत्यादि ॥ अनेन मन्त्रेण हूयमानत्वादेवैतौ ग्रहौ इन्द्रायात्मने भवितुमर्हतः । तत एव देवा अपीन्द्रायैवैतावजुहवुः । कोस्य मन्त्रस्य विशेष इति चेत् एतन्मन्त्रप्रतिपाद्यानि विश्वकर्मत्वादीनि रूपाणि करिक्रत् अत्यर्थं कुर्वन् इन्द्रो ह्यचरत् अवातिष्ठत् । 'दाधर्ति' इत्यादौ निपात्यते ॥
4 असौ वा इत्यादि ॥ अपिगृह्यापिधाय ग्रहौ प्राञ्चौ अध्वर्यु निष्क्रामतः । तस्मात्प्राश्चौ यन्तौ प्राङ्मुखौ गच्छन्तौ अस्तं गत्वा उत्तरगोळवर्तिनौ यावदुदयं प्राचीनगमनौ सूर्याचन्द्रमसौ केचिदपि न पश्यन्ति । अथ प्रत्यञ्चौ प्रत्यङ्मुखावावृत्य व्यावृत्तौ भूत्वा जुहुतः होमेन ग्रहौ दर्शयतः । तस्मात्प्रत्यञ्चौ प्रतीचीं यन्तौ उदेत्य दक्षिणगोळवर्तिनौ यावदस्तमयं प्रतीचीनगमनौ तौ पश्यन्ति ॥
5 चक्षुषी वा इत्यादि ॥ अभितः उभयतः परिक्रम्य परितो गत्वा जुहुतः । तस्मात् नासिकामभितश्चक्षुषी उभयतः स्थिते । 'अभितः परितः' इति द्वितीया । तस्मादेव हेतोर्नासिकया उत्तरवेदिस्थानीयया चक्षुषी शुक्रामन्थिस्थानीये विधृते । अथ सर्वतः परिक्रमणं रक्षसामपहत्यै भवति ॥
6 देवा वा इत्यादि ॥ प्राच्यः प्राङ्मुखेन होतव्याः । अग्रतो नोदः प्रणोदः । प्रत्यङ्मुखेन होतव्याः प्रतीच्यः । पृष्ठतो नोदोपनोदः । अन्यौ शुक्रामन्थिनौ प्रत्यञ्चौ हूयेते । तस्मादुभयदिगन्वयात् उभयत्र स्थितः भ्रातृव्यापनोदः । तस्मादित्यादि । सेक्तुः प्राङ्मुखो रेतस्सेकः ततः प्रतीचीनं निर्गच्छति ॥
7 शुक्रामन्थिनौ वा इत्यादि ॥ वृष्ट्युत्पादनादिक्रमेण सर्वाः प्रजाः शुक्रामन्थिप्रचरणहेतुका जायन्ते । 'अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वम् । अत्त्रीः अत्त्र्यः भक्षयित्र्यः प्राणिनः । 'वा छन्दसि' इति पूर्णसवर्णदीर्घत्वम् । आद्याः भक्ष्याः । दक्षिणेनोत्तरवेदिमध्वर्युः प्रतिपद्यते - सुवीरा इति । तत्र सुवीरा इत्यत्रोच्यन्ते । शोभनाः पुत्राः विक्रान्ता येषामिति कृत्वा । 'वीरवीर्यौ च' इत्युत्तरपदान्तोदात्तत्वम् । अथोत्तरेणोत्तरवेदिं प्रतिप्रस्थाता प्रतिपद्यते, न तु निकृष्टां तामसीं योनिं व्रीह्मादिकाम् ॥
8 प्रजापतेरित्यादि ॥ अश्वयत् उच्छूनमभवत् । परापतत् भ्रष्टमभवत् । तत् विकङ्कतं प्रविश्य तत्र रतिमलब्ध्वा यवं प्रविश्य रतिं लभेत । तस्मादेतन्मिश्रितत्वात् यवत्वम् । यदित्यादि । विकङ्कतशब्दात् 'पलाशादिभ्यो वा' इत्यञ् । यवप्रभवा लाजास्सक्तवः । श्रयणं मिश्रणम् । गतमन्यत् ॥
9 ब्रह्मवादिन इत्यादि ॥ कस्मात्कारणाद्भक्षणार्थं सदो नाश्नुते न प्राप्नोति सदसि न नीयते मन्थिपात्रमिति ब्रह्मवादिन आहुः पृच्छन्ति अथार्तपात्रं हि मन्थिपात्रं आर्तचक्षुस्संबन्धात् तस्मात्सदो नाश्नुत इति तेभ्य उत्तरं ब्रूयात् - यदित्यादि । गतम् । सतिशिष्टो विकरणस्वरः लसार्वधातुकस्वरं न बाधते इति लिङ एवोदात्तत्वम् ॥
इति षष्ठे चतुर्थे दशमोनुवाकः ॥