प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.10.2 TS 6.4.10.2
ऽस्य॒ भ्रातृ॑व्यो भवति॒ तौ दे॒वा अ॑प॒नुद्या॒ऽऽ*त्मन॒ इन्द्रा॑याजुहवु॒-रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यं द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒ स प्र॑थ॒मः संकृ॑ति-र्वि॒श्वक॒र्मेत्ये॒वैना॑-वा॒त्मन॒ इन्द्रा॑या-जुहवु॒रिन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रद॒सौ वा आ॑दि॒त्यः शु॒क्रश्च॒न्द्रमा॑ म॒न्थ्य॑पि॒-गृह्य॒ प्राञ्चौ॒ नि- [ ]
पदपाठः (Word-by-word)
अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । तौ । दे॒वाः । अ॒प॒नुद्येत्य॑प - नुद्य॑ । आ॒त्मने᳚ । इन्द्रा॑य । अ॒जु॒ह॒वुः॒ । अप॑नुत्ता॒वित्यप॑ - नु॒त्तौ॒ । शण्डा॒मर्का॒विति॒ शण्डा᳚ - मर्कौ᳚ । स॒ह । अ॒मुना᳚ । इति॑ । ब्रू॒या॒त् । यम् । द्वि॒ष्यात् । यम् । ए॒व । द्वेष्टि॑ । तेन॑ । ए॒ना॒ । स॒ह । अपेति॑ । नु॒द॒ते॒ । सः । प्र॒थ॒मः । संकृ॑ति॒रिति॒ सं - कृ॒तिः॒ । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । इति॑ । ए॒व । ए॒नौ॒ । आ॒त्मने᳚ । इन्द्रा॑य । अ॒जु॒ह॒वुः॒ । इन्द्रः॑ । हि । ए॒तानि॑ । रू॒पाणि॑ । करि॑क्रत् । अच॑रत् । अ॒सौ । वै । आ॒दि॒त्यः । शु॒क्रः । च॒न्द्रमाः᳚ । म॒न्थी । अ॒पि॒गृह्येत्य॑पि - गृह्य॑ । प्राञ्चौ᳚ । निरिति॑ ।
पदसंख्या: 50