-ष्क्रा॑मत॒-स्तस्मा॒त् प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुत॒स्तस्मा᳚त् प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञ्स्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितः॑ परि॒क्रम्य॑ जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते स॒र्वतः॒ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न् ताꣳस्ताभिः॒ प्रा- [ ]
पदपाठः (Word-by-word)
क्रा॒म॒तः॒ । तस्मा᳚त् । प्राञ्चौ᳚ । यन्तौ᳚ । न । प॒श्य॒न्ति॒ । प्र॒त्यञ्चौ᳚ । आ॒वृत्येत्या᳚ - वृत्य॑ । जु॒हु॒तः॒ । तस्मा᳚त् । प्र॒त्यञ्चौ᳚ । यन्तौ᳚ । प॒श्य॒न्ति॒ । चक्षु॑षी॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञ्स्य॑ । यत् । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । नासि॑का । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर- वे॒दिः । अ॒भितः॑ । प॒रि॒क्रम्येति॑ परि - क्रम्य॑ । जु॒हु॒तः॒ । तस्मा᳚त् । अ॒भितः॑ । नासि॑काम् । चक्षु॑षी॒ इति॑ । तस्मा᳚त् । नासि॑कया । चक्षु॑षी॒ इति॑ । विधृ॑ते॒ इति॒ वि-धृ॒ते॒ । स॒र्वतः॑ । परीति॑ । क्रा॒म॒तः॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । दे॒वाः । वै । याः । प्राचीः᳚ । आहु॑ती॒रित्या - हु॒तीः॒ । अजु॑हवुः । ये । पु॒रस्ता᳚त् । असु॑राः । आसन्न्॑ । तान् । ताभिः॑ । प्रेति॑ ।