सुप्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै सु॒वीरा॒ या अ॒त्त्रीरे॒ताः सु॑प्र॒जा या आ॒द्या॑ य ए॒वं ॅवेदा॒त्र्य॑स्य प्र॒जा जा॑यते॒ नाऽऽद्या᳚ प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तत् परा॑ऽऽ*पत॒त् तद् विक॑ङ्कतं॒ प्रावि॑श॒त् तद् विक॑ङ्कते॒ नार॑मत॒ तद् यवं॒ प्रावि॑श॒त् तद् यवे॑ऽरमत॒ तद् यव॑स्य- [ ]
पदपाठः (Word-by-word)
सु॒प्र॒जा इति॑ सु - प्र॒जाः । प्र॒जा इति॑ प्र - जाः । प्र॒ज॒नय॒न्निति॑ प्र - ज॒नयन्न्॑ । परीति॑ । इ॒हि॒ । म॒न्थी । म॒न्थिशो॑चि॒षेति॑ म॒न्थि - शो॒चि॒षा॒ । इति॑ । आ॒ह॒ । ए॒ताः । वै । सु॒वीरा॒ इति॑ सु - वीराः᳚ । या । अ॒त्त्रीः । ए॒ताः । सु॒प्र॒जा इति॑ सु - प्र॒जाः । याः । आ॒द्याः᳚ । यः । ए॒वम् । वेद॑ । अ॒त्त्री । अ॒स्य॒ । प्र॒जेति॑ प्र - जा । जा॒य॒ते॒ । न । आ॒द्या᳚ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । अक्षि॑ । अ॒श्व॒य॒त् । तत् । परेति॑ । अ॒प॒त॒त् । तत् । विक॑ङ्कत॒मिति॒ वि-क॒ङ्क॒त॒म् । प्रेति॑ । अ॒वि॒श॒त् । तत् । विक॑ङ्कत॒ इति॑ वि - क॒ङ्क॒ते॒ । न । अ॒र॒म॒त॒ । तत् । यव᳚म् । प्रेति॑ । अ॒वि॒श॒त् । तत् । यवे᳚ । अ॒र॒म॒त॒ । तत् । यव॑स्य ।