प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.11.1 TS 6.4.11.1
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा आ᳚ग्रय॒णाग्रा॒न् ग्रहा॑नपश्य॒न् तान॑गृह्णत॒ ततो॒ वै तेऽग्रं॒ पर्या॑य॒न॒. यस्यै॒वं ॅवि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑मे॒व स॑मा॒नानां॒ पर्ये॑ति रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒द्-भ्रातृ॑व्यस्यै॒व रु॒क्त्वाग्रꣳ॑ समा॒नानां॒ पर्ये॑ति॒ ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑है॒- [ ]
पदपाठः (Word-by-word)
दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत । तत् । असु॑राः । अ॒कु॒र्व॒त॒ । ते । दे॒वाः । आ॒ग्र॒य॒णाग्रा॒नित्या᳚ग्रय॒ण - अ॒ग्रा॒न् । ग्रहान्॑ । अ॒प॒श्य॒न्न् । तान् । अ॒गृ॒ह्ण॒त॒ । ततः॑ । वै । ते । अग्र᳚म् । परीति॑ । आ॒य॒न्न् । यस्य॑ । ए॒वम् । वि॒दुषः॑ । आ॒ग्र॒य॒णाग्रा॒ इत्या᳚ग्रय॒ण-अ॒ग्राः॒ । ग्रहाः᳚ । गृ॒ह्यन्त᳚ । अग्र᳚म् । ए॒व । स॒मा॒नाना᳚म् । परीति॑ । ए॒ति॒ । रु॒ग्णव॒त्येति॑ रु॒ग्ण - व॒त्या॒ । ऋ॒चा । भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य-व॒तः॒ । गृ॒ह्णी॒या॒त् । भ्रातृ॑व्यस्य । ए॒व । रु॒क्त्वा । अग्र᳚म् । स॒मा॒नाना᳚म् । परीति॑ । ए॒ति॒ । ये । दे॒वाः॒ । दि॒वि । एका॑दश । स्थ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रान्व्याचिख्यासुराग्रयणस्य ग्रहणं विधत्ते —

“देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा आग्रयणाग्रान्ग्रहानपश्यन्तानगृह्णत ततो वै तेऽग्रं पर्यायन्यस्यैवं विदुष आग्रयणाग्रा ग्रहा गृह्यन्तेऽग्रमेव समानानां पर्येति” (सं. का. ६ प्र. ४ अ. ११) इति।

आग्रयणमग्रं (णोऽग्रः) प्रथमं (मो) येषां त आग्रयणाग्राः।

त्रिंशत्त्रयश्चेति मन्त्रस्य विषयं दर्शयति —

“रुग्णावत्यर्चा भ्रातृव्यवतो गृह्णीयाद्भ्रातृव्यस्यैव रुक्त्वाऽग्र समानानां पर्येति” (सं. का. ६ प्र. ४ अ. ११) इति।

रुग्णे रुजिधातुः, सोऽस्यामस्तीति रुग्णवती। गणिनो रुजन्त इति रुजिधातुर्मन्त्रे दृश्यते। रुक्त्वा रोगमुत्पाद्य।

तयोर्मन्त्रयोर्देवसंख्योक्तिस्तान्सर्वानुद्दिश्य ग्रहीतुमित्याह —

“ये देवा दिव्येकादश स्थेत्याहैतावतीर्वै देवतास्ताभ्य एवैन सर्वाभ्यो गृह्णाति” (सं. का. ६ प्र. ४ अ. ११) इति।

सादनमन्त्रे विश्वेभ्य इत्यभिधानं युक्तमित्याह —

“एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येष देवतया” (सं. का. ६ प्र. ४ अ. ११) इति।

वाग्विसर्गं विधत्ते —

“वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना ते देवा वाच्यपक्रान्तायां तूष्णीं ग्रहानगृह्णत साऽमन्यत वागन्तर्यन्ति वै मेति साऽऽग्रयणं प्रत्याऽगच्छत्तदाग्रय णस्याऽऽग्रयणत्वम्। तस्मादाग्रयणे वाग्विसृज्यते यत्तूष्णीं पूर्वे ग्रहा गृह्यन्ते” (सं. का. ६ प्र. ४ अ. ११) इति।

केनापि निमित्तेन वाग्देवता यज्ञार्थं स्वकीयं रूपमप्रकाशयमाना देवेभ्योऽ-पक्रम्य देवैर्विगृहीतैस्तूष्णीमेव गृहीतेषु सा वागित्थममन्यत — एते देवा वरदानादिना मां न समादधते किंतु मयि निरपेक्षा एव स्वकार्यं कुर्वन्तो मामन्तर्यन्ति परित्यजन्त्येवेति। ततो देवैरनाहूता सा वागाग्रयणं प्रति स्वयमागच्छत्। तस्मादग्रमभिमुखमेति गच्छति वागित्यग्रायणं (ग्यस्य सोऽग्रायणः)। तत्र दीर्घव्यत्ययादाग्रयणं (ण) नाम संपन्नम्। यद्यस्मात्पूर्वे तूष्णीं गृहीता वाक्चेदानीमागता तस्माद्वाचोऽस्मिन्काले समागमादाग्रयणे गृहीते वाचं विसृजेन्न तु पूर्वग्रहवदुत्तरग्रहांस्तूष्णीं गृह्णीयात्। ननु पूर्वग्रहेष्वपि प्रतिग्रहं मन्त्राणामाम्नातत्वात्कथं तूष्णीं ग्रहणम्। एवं तर्हि तूष्णींशब्दवाग्विसर्गशब्दाभ्यमुपांशूच्चौ ध्वनी विवक्ष्येयाताम्।

ध्वनिद्वयं लौकिकदृष्टान्तेन विशदयति —

“यथा त्सारीयति म आख इयति नाम रात्स्यामीत्युपावसृजत्येवमेव तदध्वर्युराग्रयणं गृहीत्वा यज्ञमारभ्य वाचं वि सृजते” (सं. का. ६ प्र. ४ अ. ११) इति।

त्सारी छद्मगतिर्व्याधः।त्सर च्छद्मगताविति धातुः। स व्याधो मनस्यादौ विचार्य पश्चाद्बाणानुपावसृजति नुञ्चति। वराहान्गजान्पातयितुं मार्गे यो गर्त आयामेन खन्यते स आखः। ममैतावति दूरमाखस्तिष्ठति अहं त्वीषत्पुरोगत इयति दूरे स्थितो नापरात्स्यामि। वराहादिभिः स्वस्य मारणमेकोऽपराधः। स्वात्मानं दृष्ट्वा वराहादेः पलायनमन्योऽपराधः। स्वेन मुक्तस्य बाणस्य स्खलनमपराधान्तरम्। एतत्सर्वमियति दूरे मम न भबिष्यतीति निश्चित्याऽऽगतिस्तत्र स्थित्वा पश्चादवसरे सति पश्चादुद्भूतो यथा बाणान्मुञ्चति तथैव तत्राध्वर्युर्गूढध्वनिः कांश्चिद्ग्रहान्गृहीत्वा यज्ञं दृढमवष्टभ्य पश्चाद्ध्वनिं प्रकटी करोतीत्येतदुपपद्यते।

विधत्ते —

“त्रिर्हि करोत्युद्गातॄनेव तद्वृणीते” (सं. का. ६ प्र. ४ अ. ११) इति।

हिंकारस्य सामसु प्रसिद्धत्वात्सामगानां तेन वरणं युक्तम्।

हिंकारस्य कालं विधत्ते —

“प्रजापतिर्वा एष यदाग्रयणो यदाग्रयणं गृहीत्वा हिं करोति प्रजापतिरेव तत्प्रजा अभि जिघ्रति तस्माद्वत्सं जातं गौरभि जिघ्रति” (सं. का. ६ प्र. ४ अ. ११) इति।

आग्रयणहिंकारयोः पौर्वापर्यं यदस्ति तत्तेन प्रजापतिरेव यजमानस्य प्रजानां मूर्धन्याघ्राणं करोति। अत एव पशुष्वप्येतद्वीक्ष्यते।

सवनत्रयेऽप्याग्रयणं विधत्ते —

“आत्मा वा एष यज्ञस्य यदाग्रयणः सवनेसवनेऽभि गृह्णात्यात्मन्नेव यज्ञ सं तनोति” (सं. का. ६ प्र. ४ अ. ११) इति।

दशापवित्रस्योपरि सोमरसस्याव (स्याऽऽ) नयनं विधत्ते —

“उपरिष्टादानयति रेत एव तद्दधाति” (सं. का. ६ प्र. ४ अ. ११) इति।

दशपवित्रस्याधस्तात्स्रवन्त्या धारया (यो) [प] ग्रहणं विधत्ते —

“अधस्तादुप गृह्णाति प्र जनयत्येव तत्” (सं. का. ६ प्र. ४ अ. ११) इति।

सवनत्रयगमाग्रयणं प्रशंसति —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसा सती सर्वाणि सवनानि बृहतीत्येष वै गायत्रियै वत्सो यदाग्रयणस्तमेव तदभिनिवर्त सर्वाणि सवनानि वहति तस्माद्वत्समपाकृतं गौरभि नि वर्तते” (सं. का. ६ प्र. ४ अ. ११) इति।

अल्पाक्षरत्वात्कनिष्ठा। प्रातःसवने बहिष्पवमानसूक्तानामुपास्मै गायतेत्यादीनां छन्दो गायत्री। माध्यंदिनसवने माध्यंदिनपवमानसूक्तस्योच्चा ते जातमन्धस इत्यस्य गायत्री। तृतीयसवनस्याऽऽर्भवपवमानसूक्तस्य स्वादिष्ठयेत्यस्य गायत्री। एवमुदाहर्तव्यम्। यथा गौरपाकृतं स्वीयं वत्समभिलक्ष्य तृणादिकमपि परित्यज्य निवर्तते तथा गायत्री स्ववत्समाग्रयणमभिलक्ष्य पुनः पुनर्निवृत्य सवनानि निर्वहति। ये देवास्रिशच्चेत्येते त्रिष्टुभौ।

—-----------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवा वा इत्यादि ॥ असुरा द्यावापृथिव्यसुवः(?) ते देवा आग्रयाणाग्रान् आग्रयणप्रथमान् ग्रहान् अपश्यन् तांश्चागृह्णन् । ततस्ते अग्रं प्राप्ताः । यस्यैवमित्यादि । गतम् ॥
2 रुग्णवत्येति ॥ 'त्रिंशत्त्रयश्च' इत्यनया । रोगो रुग्णं रुजिधात्वर्थः, 'ओदितश्च' इति निष्ठानत्वम् । भ्रातृव्यस्यैव । 'रुजार्थानाम्' इति षष्ठी ॥
3 ये देवा इति ग्रहणमन्त्रः ॥ एतावतीर्वा इत्यादि । गतम् ॥
4 वाग्वा इत्यादि ॥ यज्ञार्थमात्मानमप्रकाशयन्ती अप्रकाशनार्थं देवेभ्योपाक्रामत् । अथ देवा वाच्यपक्रान्तायामपगतायां वागभावात्तूष्णीमुपांशु ग्रहान् अगृह्णत मन्त्राम्नानसामर्थ्यात् सवनीय लक्षणवागभावोपि विवक्षितः विकल्पस्यावार्यत्वात् । अथ सा वागमन्यत - अन्तर्यन्ति अन्तरिता त्यक्तां कुर्वन्ति मां देवा इति । अथ तथा मन्यमाना वागाग्रयणं प्रत्यागच्छत् । तस्मादद्यत्वेऽपि आग्रयणग्रहाणानन्तरं वाग्विसृज्यते यस्मात्पूर्वे ग्रहास्तूष्णीं गृह्यन्ते तदानीं वाग्विसृज्यते एतावन्तं कालं धारयित्वा अस्मिन् काले यद्विसर्जनं वाचः तत्र लौकिकं निदर्शनं दर्शयति - यथेत्यादि । त्सरी छद्मगतिः व्याधः । त्सर छद्मगतौ, ताच्छीलिको णिनिः स यथा इयति एतावत्यवकाशे मे मम आखः आखननीयो लक्ष्यस्थितिः। 'डो वक्तव्यः' इति डः । तस्मादवकाशे न अपरात्स्यामि नापराधी स्यां विसर्जनविषयाविषयविवेके अवधारणवागेवमुपावमृजति विमुञ्चति । एवमेव खलु तत् । किम्? यदाग्रयणं गृहीत्वा यज्ञमारभ्य प्रस्तुत्य वाचं विसृजते वाचो धारणविसर्जनविषयविवेकवानेतावन्तं कालं धारयित्वा इदानीं विसृजतीति । केचिदाहुः - असारी आखुग्राही आखुराखुरिति ॥
5 त्रिरित्यादि ॥ हिंकारस्य कनीयस्त्वात् उद्गात्रा सारस्वती कृता भवति । प्रजापतिरित्यादि । अभिघ्राणं मूर्ध्नि घ्राणम् । प्रजापतिर्भूत्वा गौरिव वत्सं मूर्ध्नि प्रजा जिघ्रति । तस्मादित्यादि । गतम् ॥
6 आत्मा वा इत्यादि ॥ आत्मनि यज्ञमविच्छिन्नं करोति । सवनत्रयव्याप्त्या आत्मवत्तया यज्ञमविच्छिन्नं करोति । उपरिष्टादित्यादि । दशापवित्रस्योपरि सोममानयति तेन रेत एव दधाति रेत एव सिक्तं भवति । अधस्ताद्दशापवित्रस्य स्रवन्तीं धारामुपगृह्णाति सामीप्येन गृह्णाति तेन निहितं रेतः प्रजनयति प्रजात्वेन परिणतं करोति ॥
7 ब्रह्मवादिन इत्यादि ॥ कनिष्ठा अल्पतमा सर्वाणि सवनानि प्राप्य वर्तते । उत्तरं - एष इत्यादि । आग्रयण एव गायत्र्या वत्सस्थानीयः । तस्मात्तमाग्रयणमेवाभिनिवृत्तं अभिनिर्वृत्याभिनिर्वृत्य आभिमुख्येन निवृत्तमाना सर्वेषु व्याप्रियते तस्य सर्वेषु सवनेषु गृह्यमाणत्वात् । वत्समभिनिवर्तमानेव आयाति । तदेवाह - तस्मादिति । तस्मादद्यत्वेऽपि वत्समपाकृतं मातृसकाशादपनीतं सा गौरभिनिवर्तते स यत्रयत्र नीयते तत्रतत्राभिनिवर्तते आभिमुख्येन वर्तते ॥
इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठे काण्डे चतुर्थे प्रश्ने एकादशोनुवाकः ॥

प्रश्नश्च समाप्तः ॥

……………………………………………………………………………………………………………

प्रश्नः-5