प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.11.2 TS 6.4.11.2
-ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनꣳ॒॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒ र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒ वाग्वै दे॒वेभ्यो-ऽपा᳚क्रामद्-य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायां तू॒ष्णीं ग्रहा॑नगृह्णत॒ साम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ साऽऽग्र॑य॒णं प्रत्याग॑च्छ॒त् तदा᳚ग्रय॒णस्या᳚ऽऽग्रयण॒त्वं- [ ]
पदपाठः (Word-by-word)
ए॒ताव॑तीः । वै । दे॒वताः᳚ । ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा᳚भ्यः । गृ॒ह्णा॒ति॒ । ए॒षः । ते॒ । योनिः॑ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ । वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । हि । ए॒षः । दे॒वत॑या । वाक् । वै । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । य॒ज्ञाय॑ । अति॑ष्ठमाना । ते । दे॒वाः । वा॒चि । अप॑क्रान्ताया॒मित्यप॑-क्रा॒न्ता॒या॒म् । तू॒ष्णीम् । ग्रहान्॑ । अ॒गृ॒ह्ण॒त॒ । सा । अ॒म॒न्य॒त॒ । वाक् । अ॒न्तः । य॒न्ति॒ । वै । मा॒ । इति॑ । सा । आ॒ग्र॒य॒णम् । प्रति॑ । एति॑ । अ॒ग॒च्छ॒त् । तत् । आ॒ग्र॒य॒णस्य॑ । आ॒ग्र॒य॒ण॒त्वमित्या᳚ग्रयण - त्वम् ।
पदसंख्या: 50