तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ यत् तू॒ष्णीं पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा᳚थ्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ राथ्स्या॒-मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑द्ध्व॒र्युरा᳚ग्रय॒णं गृ॑ही॒त्वा य॒ज्ञ्मा॒रभ्य॒ वाचं॒ ॅवि सृ॑जते॒ त्रिर्.हिं क॑रोत्युद्गा॒तॄ-ने॒व तद् वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णो यदा᳚ग्रय॒णं गृ॑ही॒त्वा हिं॑ क॒रोति॑ प्र॒जाप॑तिरे॒व- [ ]
पदपाठः (Word-by-word)
तस्मा᳚त् । आ॒ग्र॒य॒णे । वाक् । वीति॑ । सृ॒ज्य॒ते॒ । यत् । तू॒ष्णीम् । पूर्वे᳚ । ग्रहाः᳚ । गृ॒ह्यन्ते᳚ । यथा᳚ । थ्सा॒री । इय॑ति । मे॒ । आखः॑ । इय॑ति । न । अपेति॑ । रा॒थ्स्या॒मि॒ । इति॑ । उ॒पा॒व॒सृ॒जतीत्यु॑प - अ॒व॒सृ॒जति॑ । ए॒वम् । ए॒व । तत् । अ॒द्ध्व॒र्युः । आ॒ग्र॒य॒णम् । गृ॒ही॒त्वा । य॒ज्ञ्म् । आ॒रभ्येत्या᳚-रभ्य॑ । वाच᳚म् । वीति॑ । सृ॒ज॒ते॒ । त्रिः । हिम् । क॒रो॒ति॒ । उ॒द्गा॒तॄनित्यु॑त् - गा॒तॄन् । ए॒व । तत् । वृ॒णी॒ते॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । यत् । आ॒ग्र॒य॒णम् । गृ॒ही॒त्वा । हि॒कं॒रोतीति॑ हिम् - क॒रोति॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । ए॒व ।