प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.2.1 TS 6.4.2.1
दे॒वा वै य॒ज्ञ्माग्नी᳚द्ध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ब्रुव॒न् वस॑तु॒ नु न॑ इ॒दमिति॒ तद् व॑सती॒वरी॑णां ॅवसती वरि॒त्वं तस्मि॑न् प्रा॒तर्न सम॑शक्नुव॒न् तद॒फ्सु प्रावे॑शय॒न् ता व॑सती॒ वरी॑रभवन् वसती॒वरी᳚र्गृह्णाति य॒ज्ञो वै व॑सती॒ वरी᳚र्य॒ज्ञ्मे॒वाऽऽ*रभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒-दना॑रब्धोऽस्य य॒ज्ञ्ः स्या᳚- [ ]
पदपाठः (Word-by-word)
दे॒वाः । वै । य॒ज्ञ्म् । आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ । वीति॑ । अ॒भ॒ज॒न्त॒ । ततः॑ । यत् । अ॒त्यशि॑ष्य॒तेत्य॑ति-अशि॑ष्यत । तत् । अ॒ब्रु॒व॒न्न् । वस॑तु । नु । नः॒ । इ॒दम् । इति॑ । तत् । व॒स॒ती॒वरी॑णाम् । व॒स॒ती॒व॒रि॒त्वमिति॑ वसतीवरि - त्वम् । तस्मिन्न्॑ । प्रा॒तः । न । समिति॑ । अ॒श॒क्नु॒व॒न्न् । तत् । अ॒फ्स्वित्य॑प् - सु । प्रेति॑ । अ॒वे॒श॒य॒न्न् । ताः । व॒स॒ती॒वरीः᳚ । अ॒भ॒व॒न्न् । व॒स॒ती॒वरीः᳚ । गृ॒ह्णा॒ति॒ । य॒ज्ञ्ः । वै । व॒स॒ती॒वरीः᳚ । य॒ज्ञ्म् । ए॒व । आ॒रभ्येत्या᳚ - रभ्य॑ । गृ॒ही॒त्वा । उपेति॑ । व॒स॒ति॒ । यस्य॑ । अगृ॑हीताः । अ॒भीति॑ । नि॒म्रोचे॒दिति॑ नि - म्रोचे᳚त् । अना॑रब्ध॒ इत्यना᳚ - र॒ब्धः॒ । अ॒स्य॒ । य॒ज्ञ्ः । स्या॒त् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

विधत्ते –

‘देवा वै यज्ञमाग्नीध्रे व्यभजन्त ततो यदत्यशिष्यत तदब्रुवन्वसतु नु न इदमिति तद्वसतीवरीणां वसतीवरित्वं तस्मिन्प्रातर्न समशक्नुवन्तदप्सु प्रावेशयन्ता वसतीवरीरभवन्वसतीवरीर्गृह्णाति यज्ञो वै वसतीवरीर्यज्ञमेवाऽऽरण्य गृहीत्वोप वसति’ (सं. का. ६ प्र. ४ अ. २) इति।

पुरा कदाचिद्देवा आग्नीध्रमण्डपे स्थित्वा यज्ञशालामंशेनेदं ममेदं ममेत्येवं व्यभजन्त। ततः सर्वैः स्वस्वभागेषु यदवशिष्टं तदुद्दिश्य परस्परमब्रुवन्निदमवशिष्टमिदानीं साधारण्येनास्माकमेव तिष्ठतु प्रातर्विभागं करिष्याम इति। यस्माद्वसत्विति देवैरुक्तं तस्मात्तस्यांशस्य देवोक्तियोगाद्वसतीवरीरिति नाम संपन्नम्। वसत्वित्युक्त्या यच्छेषभूतं तद्वत्य आपो वसतीवर्यः। ततः प्रातःकाले पुनः समागत्य तस्मिन्नवशिष्टे विभागं कर्तुं नाशक्नुवन्। तस्याल्पत्वेन बहूनामपर्याप्तत्वात्। तस्य साधारणस्यैकेन ग्रहीतुमशक्यत्वादप्सु परित्यक्तवन्तः। ताश्चाऽपो वसतीवर्योऽभवन्। ततो यज्ञांशत्वाद्वसतीवरीर्गृह्णीयात्। तद्ग्रहणेन यज्ञमेवोपक्रम्य दृढं धारयित्वा तत्समीपे वसति।

तस्य ग्रहणस्य सूर्यास्तमयात्पूर्वकालं व्यतिरेकमुखेन विधत्ते –

‘यस्यागृहीता अभि निम्रोचेदनारब्धोऽस्य यज्ञः स्याद्यज्ञं वि च्छिन्द्यात्’ (सं. का. ६ प्र. ४ अ. २) इति।

अगृहीता एता अभिलक्ष्य यन्निम्रोचेदस्तमियात्तदा पूर्वदिने यज्ञोऽनुपक्रान्तो भवेत्। तदाऽपरेद्युरनुष्ठितोऽपि विच्छिन्न एव स्यात्।

कथंचिदस्तमये सति त्रेधा प्रतीकारं विधत्ते–

‘ज्योतिष्या वा गृह्णीयाद्धिरण्यं वाऽवधाय सशुक्राणामेव गृह्णाति यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात्स हि गृहीतवसतीवरीकः’ (सं. का. ६ प्र. ४ अ. २) इति।

उल्कया द्योतिता इत्याद्यः पक्षः। कुम्भे हिरण्यमवधाय तत्सहिता इति द्वितीयः पक्षः। सोमयाजिगृह कुम्भगता इति तृतीयः पक्षः।

उक्तमेव विधिमनूद्य प्रशंसति–

‘वसतीवरीर्गृह्णाति पशवो वै वसतीवरीः पशूनेवाऽऽरभ्य गृहीत्वोप वसति’ (सं. का. ६ प्र. ४ अ. २) इति।

पशुप्राप्तिहेतुतया पशुत्वम्।

ग्रहणकाले प्रवाहाभिमुख्यं विधात्ते–

‘यदन्वीपं तिष्ठन्गृह्णीयान्निर्मार्गुका अस्मात्पशवः स्युः प्रतीपं तिष्ठन्गृह्णाति प्रतिरुध्यैवास्मै पशून्गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।

प्रवाहो यन्मुखस्तन्मुखत्वेनावस्थानमन्वीपत्वं, तद्वैपरीत्यं प्रतीपत्वं,

निर्मार्गुका विनश्वराः, प्रतिरुध्य विनाशं निवार्य।

प्रवाहगतोदकं विधत्ते –

‘इन्द्रो वृत्रमहन्त्सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञिय सदेवमासीत्तदत्यमुच्यत ता वहन्तीरभवन्वहन्तीनां गृह्णाति या एव मेध्या यज्ञियाः सदेवा आपस्तासामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।

प्रवाहेष्वत्यन्तसमीपस्थं जलं व्यतिरेकमखेण विधत्ते –

‘नान्तमा वहन्तीरतीयाद्यदन्तमा वहन्तीरतीयाद्यज्ञमति मन्येत’ (सं. का. ६ प्र. ४ अ. २) इति।

अन्तमा अन्तिकतमाः। अतिमन्येतावजानीयात्।

वहन्तीष्वपि नदीषु या ह्रदवर्तिन्यः स्थावरा आपो याश्च तटाकादिस्थास्तासां ग्रहणं निषेधति–

‘न स्थावराणां गृह्णीयाद्वरुणगृहीता वै स्थावरा यत्स्थावराणां गृह्णीयाद्वरुणेनास्य यज्ञं ग्राहयेत्’ (सं. का. ६ प्र. ४ अ. २) इति।

अपां ग्रहणाय च्छायातपयोः संधिदेशं विधत्ते–

‘यद्वै दिवा भवत्यपो रात्रिः प्र विशति तस्मात्ताम्रा आपो दिवा ददृश्रे यन्नक्तं भवत्यपोऽहः प्र विशति तस्माच्चन्द्रा आपो नक्तं ददृश्रे छायायै चाऽऽतपतश्च संधौ गृह्णात्यहोरात्रयोरेवास्मै वर्णं गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।

अहर्यदा वर्तते तदानीमप्सु रात्रिः प्रविशति। तत्र जलवर्णस्य शुक्लस्य रात्रिवर्णस्य कृष्णस्य च मेलनादीषत्ताम्रा इवाऽऽपो दिने दृश्यन्ते। यथा राहुग्रस्ते चन्द्रे ताम्रत्वं तद्वत्। यदा तु रात्रिः प्रवर्तते तदानीमहोऽप्सु प्रविशति। तत्र शुक्लवर्णयोर्मेलनादापो रात्रौ चन्द्रवदतिश्वेता दृश्यन्ते। तस्माद्वर्णद्वयोपेते संधिदेशे गृह्णीयात्।

जलविशेषेण मन्त्रगतहविःशब्देन हविःसंपादकत्वं विवक्षितमित्याह–

‘हविष्मतीरिमा आप इत्याह हविष्कृतानामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।

सूर्यशब्देनापां प्रकाशोपेतत्वं विवक्षितमित्याह–

‘हविष्मा अस्तु सूर्य इत्याह सशुक्रणामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।

मन्त्रगतस्य च्छन्दस उपयोगमाह–

‘अनुष्टुभा गृह्णाति वाग्वा अनुष्टुग्वाचैवैनः सर्वया गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।

शालामुखीयोत्तरवेद्योः सादनं विधत्ते –

‘अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपसादयेदस्मिँल्लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिँल्लोके पशुमान्त्स्यादुभयोरुप सादयत्युभयोरेवैनं लोकयोः पशुमन्तं करोति’ (सं. का. ६ प्र. ४ अ. २) इति।

स्थानत्रये यत्सूत्रोक्तं परिभ्रामणं तद्विधत्ते–

‘सर्वतः परि हरति रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. ४) इति।

मन्त्रचतुष्टये स्पष्टार्थतां दर्शयति–

‘इद्राग्नियोर्भागधेयीः स्थेत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ४ अ. ४) इति।

विधत्ते–

‘आग्निध्र उप वासयत्येतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदेव यज्ञस्यापराजितं तदेवैना उप वासयति’ (सं. का. ६ प्र. ४ अ. २) इति।

तदेव तस्मिन्नेव। यद्विहितं वहन्तीनां गृह्णातीति तदेव प्रशंसति–

‘यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञ रक्षांस्यव चरन्ति यद्वहन्तीनां गृह्णाति क्रियमाणमेव तद्यज्ञस्य शये रक्षासामनन्ववचाराय’ (सं. का. ६ प्र. ४ अ. २) इति।

विततस्य विस्तीर्णस्य यज्ञस्य यतो यदङ्गं विमृश्य न क्रियते तदेव च्छिद्रमनुप्रविश्य रक्षांस्यवचरन्ति अपकुर्वन्ति वहन्तीग्रहणेन तदङ्गं क्रियमाणमेव शये शेते भवति।

आग्नीध्रे सादितानां तृतीयसवनगताभिषवपर्यन्तं धारणं विधत्ते –

‘न ह्येता ईलयन्त्या तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ४ अ. २) इति।

एता आपो न ह्यपगमयन्ति, किंतु परिशेरेऽवतिष्ठन्ते, स्थापयेदित्यर्थः।

अत्रोपावहरेदिति विधिं सूचयन्हृदयादिशब्दानां यथोक्तार्थं दर्शयति –

‘ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यः सोममुपावहरन्त्सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्याह देवेभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैन सर्वाभ्य उपावहरति’ (सं. का. ६ प्र. ४ अ. ३) इति।

यो हृदे त्वेति मन्त्रेण सर्वदेवतार्थमुपावहर्तुं जानाति स एव मुख्योऽध्वर्युरिति ब्रह्मवादिनामुक्तिः। सोम राजन्निति मन्त्र उपेक्षितः।

विधत्ते –

‘पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति यावत्येव वाक्तामव रुन्धे’ (सं. का. ६ प्र. ४ अ. ३) इति।

रात्रौ निद्रां कुर्वन्तो मनुष्या उषःकाले प्रबध्य परस्परं वाक्प्रसरं कुर्वन्ति। पक्षिणः शब्दं कुर्वन्ति। तद्धि वाचः प्रवदनम्। प्रातःकालात्पूर्वं होत्राऽनुवाक्तव्य क्रक्समूहः प्रातरनुवाकः। उपाकरणं नाम होतारं प्रति प्रैषोक्तिः।

प्रातरनुवाकस्य प्रथमामृचं विधत्ते –

‘अपोऽग्रेऽभिव्याहरति यज्ञो वा आपो यज्ञमेवाभि वाचं वि सृजति’ (सं. का. ६ प्र. ४ अ. ३) इति।

अपोऽभिलक्ष्य तत्प्रतिपादिकामृचमग्रे प्रथमं व्याहरेत्। आपो रेवतीः क्षयथा हि वस्व इत्येतामृचमित्यर्थः।

तत ऊर्ध्वं वक्तव्या ऋचो विधत्ते –

‘सर्वाणि छन्दांस्यन्वाह पशवो वै छन्दांसि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. ३) इति।

तत्तच्छन्दोयुक्ता ऋग्विशेषा ग्रन्थबाहुल्यभयाद्बह्वृचब्राह्मणे स्पष्टत्वाच्च नात्र प्रदर्श्यन्ते।

प्रातरनुवाकसमाप्तौ पठनीयामृचं कामनाभेदेन विकल्पितां विधत्ते –

‘गायत्रिया तेजस्कामस्य परि दध्यात्त्रिष्टुभेन्द्रियकामस्य जगत्या पशुकामस्यानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य विराजाऽन्नकामस्य’ (सं. का. ६ प्र. ४ अ. ३) इति।

परिदध्यात्समापयेत्।

अग्न्यादिश्रवणप्रयोजनमाह –

‘शृणोत्वग्निः सभिधा हवं म इत्याह सवितृप्रसूत एव देवताभ्यो निवेद्यापोऽच्छैति’ (सं. का. ६ प्र. ४ अ. ३) इति।

एकधनसंज्ञकाः पन्नेजनीसंज्ञकाश्चाऽऽप आनेतव्याः। अतो मन्त्रेण देवताभ्यो विज्ञाप्य ता अपः प्राप्तुं गच्छति।

प्रैषमन्त्रमुत्पादयति –

‘अप इष्य होतरित्याहेषित हि कर्म क्रियते’ (सं. का. ६ प्र. ४ अ. ३) इति।

हे होतरानेतव्या अप उद्दिश्य प्र देवत्रा ब्रह्मणे गातुरेत्वित्यादिका ऋच इष्य पठेत्यर्थः। लोकेऽपीषितमभीष्टं कर्म सम्यक्क्रियते’

प्रैषान्तरमुत्पादयति –

‘मैत्रावरुणस्य चमसाध्वर्यवा द्रवेत्याह मित्रावरुणौ वा अपां नेतारौ ताभ्यामेवैना अच्छैति’ (सं. का. ६ प्र. ४ अ. ३) इति।

चमसिनामृत्विजां परिचारकाश्चमसाध्वर्यवः। तत्र मेत्रावरुणनाम्न ऋत्विजो यश्चमसाध्वर्युस्तं संबोध्याऽऽगच्छेति ब्रूयात्। तदनेन प्रैषेणोदकप्रवर्तकमित्रावरुणदेवद्वयेन सहैवैना अपः प्राप्तुं गच्छति।

ग्रहीष्यमाणानामपां मूल्यत्वेन हविष्ट्वसंपादनेन चेयमाहुतिरुपयुज्यत इत्याह –

‘देवीरापो अपां नपादित्याऽऽहाहुत्यैवैना निष्क्रीय गृह्णात्यथो हविष्कृतानामेवाभिघृतानां गृह्णाति’ (सं. का. ६ प्र. ४ अ. ३) इति।

एतमर्थं दर्शयति –

‘कार्षिरसीत्याह शमलमेवाऽऽसामप प्लावयति’ (सं. का. ६ प्र. ४ अ. ३) इति। शमलं मलिनांशम्।

अक्षितिं विशदयति –

‘समुद्रस्य वोऽक्षित्या उन्नय इत्याह तस्मादद्यमानाः पीयमाना आपो न क्षीयन्ते’ (सं. का. ६ प्र. ४ अ. ३) इति।

यथा चमसेन जलं गृहीतं तथा त्रिभिः कुम्भैरेकधना गृह्णीयात्पन्नेजनीश्च गृह्णीयात्।

विधत्ते –

‘योनिर्वै यज्ञस्य चात्वालं यज्ञो वसतीवरीर्होतृचमसं च मैत्रावरुणचमसं च सस्पर्श्य वसतीवरीर्व्यानयति यज्ञस्य सयोनित्वायाथो स्वादेवैना योनेः प्र जनयति’ (सं. का. ६ प्र. ४ अ. ३) इति।

उत्तरवेदिनिष्पादकतया चात्वालो यज्ञयोनिः। देवविभक्तयज्ञावशेषत्वाद्वसतीवरीणां यज्ञत्वम्। व्यानयति व्याप्ता अधिकाः करोति।

प्रश्नोत्तरमन्त्रावुत्पादयति –

‘अध्वर्योऽवेरपा ३ इत्याहोतेमनन्नमुरुतेमाः पश्येति वावैतदाह’ (सं. का. ६ प्र. ४ अ. ३) इति।

प्लुतिः प्रश्नार्था। हेऽध्यर्यो, अपः किमवेर्लब्धवानसि। सोऽयं होतुः प्रश्नः। उतेमनन्नमुरित्यध्वर्योरुत्तमन्त्रः। लब्धवानस्मीत्येतावदेव न भवति उतापि तु ई ता अनन्नमुरुसंप्राप्ताः। दूरवर्तित्वेऽपि सत्त्वमात्रेण लाभो भवति तदुपसंप्राप्ति–र्लाभादतिरिच्यते। उतेमा इति वाक्यं मन्त्रस्य व्याख्यानम्। हे होतर्न केवलं मद्वचनमात्रेण विश्वसिहि किंत्विमाः पुरोवर्तिनीः पश्येत्येवमेव सर्वमन्त्रेणाध्वर्युर्ब्रूते।

अस्य च क्रतुकरणाख्यस्य होमस्य विषयविशेषव्यवस्थितिं विधत्ते –

‘यद्यग्निष्टोमो जुहोति यद्युक्थ्यः परिधौ नि मार्ष्टि यद्यतिरात्रो यजुर्वदन्प्र पद्यते यज्ञक्रतूनां व्यावृत्त्यै’ (सं. का. ६ प्र. ४ अ. ३) इति।

अनुष्ठीयमानस्य कर्मणोऽग्निष्टोमत्वे मन्त्रेण क्रतुकरणं जुहुयात्। उक्थ्यत्वे परिधावाज्यलेपं निमृज्यात्। अतिरात्रत्वे मन्त्रं पठन्हविर्धानं प्राप्नुयात्। एवं सत्यग्निष्टोमादीनामनुष्ठास्यमानानां परस्परं व्यावृत्तिरिदानीमेवावगता। सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूप इत्युपनिषदि तत्क्रत्विति वैयासिकसूत्रे चोपास्तिष्वपि क्रतुशब्दस्य प्रयोगात्तद्व्यवच्छेदार्थं यज्ञशब्दः। द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपर इत्यादौ तपःप्रभृतिष्वपि यज्ञशब्दप्रयोगात्तद्व्यवच्छेदाय क्रतुशब्दप्रयोगः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवा वा इत्यादि ॥ देवा एव यज्ञमाग्नीध्रे व्यभजन्त विभज्य गृहीतवन्तः । ततो विभक्ताद्यदत्यशिष्यत विभक्तशेषं यदतिरिक्तमासीत् तदब्रुवन् देवाः । नन्विदमपि नोस्माकमेव सर्वेषां साधारणं वसतु । इदमपि श्वः प्रातर्विभक्तारस्स्म इति । तस्माद्वसतीवरीणामपां वसतविरित्वम्, वसतीवरीरूपेण विभक्तशेषस्स्थित इति दर्शयति । वस्तन्वसति[वसनं वसतिः?] तद्वत्यो वसतीवर्यः साधारण्येन गृहीत्वा स्थिताः आपः । 'छन्दसीवनिपौ' इति वनिप्प्रत्ययः, 'वनोरच' इति ङीब्रेफौ, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । 'कृदिकारादक्तिनः' इति ङीषन्तो वा वसतीशब्दः, व्यत्ययेन वनिप उदात्तत्वम् । वनिर्वा प्रत्ययान्तरम् । तस्मिन्विभक्तशेषे श्वः प्रातः न समशक्नुवन् संविभक्तुं शक्ता नासन् । तदविभागयोग्यं मन्यमानाः देवाः अप्सु प्रावेशयन् क्वाप्युपयोक्ष्यते इति अप्सु निहितवन्तः । यद्बा - किमनेनेत्यप्सु प्राक्षिपन् ता वसतीवर्यो नामाभवन् । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् ॥
2 वसतीवरीर्गृह्णातीति विधिः ॥ यज्ञो वा इति । यज्ञशेषस्य तद्रूपेण विततत्वात् । तस्माद्वसतीवरीर्गृहीत्वा य उपवसति यज्ञमेवारभ्य प्रस्तुत्य वसति । यद्वा - यज्ञं गृहीत्वा धारयित्वैव यज्ञमुपवसति । अग्निसमीपे वास उपवासः । यस्येत्यादि । अगृहीता वसतीवरीरभिलक्ष्य निम्रोचेत् अस्तमियात् सूर्यो यस्य यज्ञोनारब्धः स्यात् अप्रस्तुत एव भवेत् पूर्वेद्युः । ततः श्वः उत्तरेद्युः यज्ञं विच्छिन्द्यात् । ज्योतिष्या वा इत्यादि । उल्कया द्योतयित्वा ज्योतिष्मतीर्गृह्णीयात् । मत्वर्थीयो यत्, 'तत्र साधुः' इति वा । केचिदाहुः - 'उपयाम' इत्यनया ऋचा गृह्णीयादिति । तत्र ज्योतिष्मत्या ऋचा ग्राह्याः ज्योतिष्याः । हिरण्यं वा कुम्भेऽवधाय गृह्णीयात् । एवमुभयस्मिन्नपि पक्षे सशुक्राणामेव सादित्यानामेव गृहीता भवन्ति ॥
3 यो वेति ॥ बहुयाजी सोमयाजी तस्य कुम्भ्याः तदीयगृहकुम्भस्थिताः । तस्य गृहीतवसतीवरीकत्वात् तत्संबन्धिन्यस्सर्वा अप्यापो वसतीवरीतुल्या भवन्तीति ॥
4 वसतीवरीरिति ॥ द्वितीयं विदधाति गुणान्तरमभिधास्यामीति । पशवो वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । यदन्वीपमिति अन्वीपमनुगतस्रोतस्कं तिष्ठन् यत् गृह्णीयात् । यद्वा - अन्वीपं गृह्णीयात् कुम्भेन वा आत्मना वा अनुस्रोतसमवस्थितेन । अनुगता आपोनेनेति 'ऋक्पूः' इति समासान्तः, 'द्व्यन्तरुपसर्गेभ्योप ईत्' । निर्मार्गुकाः विनाशनशीलाः पशवोस्मात्स्युः । मार्ग अन्वेषणे, छान्दस उकञ्। यद्वा - निर्गमनशीलाः, गमेः 'लषपत' इत्यादिना उकञ्, वर्णव्यत्ययो रेफोपजनश्च । प्रतीपमिति । प्रतिस्रोतसं तिष्ठन् तादृशेन कुम्भेन गृह्णीयात् । पूर्ववदीत्वम् । प्रतिरुध्येत्यादि । गतम् ॥
5 इन्द्र इत्यादि ॥ व्याख्यातम् । तासामित्यादि । तासामपां संबन्धि यन्मेध्यादिलक्षणं रूपं तदत्यमुच्यत अतीत्यापो बहिस्स्वयमेवामुच्यत वेगेन मुक्तमभवत् । कर्मकर्तर्यात्मनेपदम् । ता वहन्तीरिति । ततः प्रभृत्यापो वहन्त्योभवन् । तस्माद्वहन्तीनामेव गृह्णाति । मेध्यादिलक्षणा एव गृहीता भवन्ति । नान्तमा इत्यादि । अन्तमा अन्तिकतमा आपो वहन्तरितीयात् अतिक्रम्य नेयात् । 'तमे तादेश्च' इति तादिलोपः । यदि ता अतीयात् यज्ञमेवातिमन्येत, वहन्तीनां मेध्यादिरूपवत्त्वात् । स्थावराः स्थानशीलाः ग्राह्याः तटाकादिस्थाः सरित्स्वपि । 'स्थेशभास' इति वरच् । वरुणगृहीता इति । वरुणेन गृहीता इति निरुद्धत्वात् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । यदित्यादि । गतम् ॥
6 यद्वा इत्यादि ॥ यदा दिवसः प्रवर्तते तदा रात्रिरपः प्रविशति, तस्माद्दिवा आपस्ताम्रा ईषद्रक्ताः दृश्यन्ते शुक्लकृष्णप्रभवत्वात्ताम्रस्य । कर्मणि छान्दसो लिट्, 'इरयोरे' इति रे आदेशः । नक्तमह्नः प्रवेशात् चन्द्राश्शुक्ला आपो दृश्यन्ते । तस्माच्छायातपसन्धौ ग्रहणात् अहोरात्रयोरेव वर्णग्रहणात् उभयानुग्रहलाभः ॥
7 ''हविष्मतीः' इति ग्रहणमन्त्रः ॥ हविष्कृतानामिति । कृतं हविस्स्वरूपं हविष्ट्वं यासामिति । बहुव्रीहौ निष्ठायाः पूर्वनिपाते 'जातिकालसुखादिम्यः परवचनम्' इति परनिपातः । यद्वा - हविष्ट्वेन संस्कृताः हविष्कृताः । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । सशुक्राणामित्यादि । सज्योतिषां सादित्यानाम् । अनुष्टुभेति । 'हविष्मतीः' इत्यनया । छन्दस्तुतिरियं, सर्वस्य वाङ्मयस्यानुष्टुभत्वात् तेनैव गृहीता भवन्ति । चतुष्पदयेति । 'संख्यासुपर्वूस्य' इति लोपस्समासान्तः, 'टाबृचि, इति टाप्, ' पादः पत्' इति पद्वावः ॥
8 त्रिरिति ॥ उभयोरुपसादयतीति विधास्यति । तत्राहवनीयमभितो द्विस्सादयति । सकृज्जधनेन गार्हपत्यम् । सप्तेत्यादि । गतम् । पशुहेतुत्वात्ताच्छब्द्यं शक्वर्याः अस्मा इत्यादि । गतम् । गार्हपत्य इति । औपश्लेषिके अधिकरणे सप्तमी । उभयोरित्यादि । गतम्8 ॥
9 सर्वत इति ॥ 'इन्द्राग्नियोः' इत्यादीनि मन्त्रपदानि व्याख्याय यथा यजुर्वदति 'जागृत'9 इति तथा भवत्येव जाग्रत्येव ॥
10 यज्ञार्थमाप उपवासयति आग्नीध्रमुपेत्य रात्रिं वासयति वसतविरीः । अपराजितमिति । रक्षःप्रभृतिभिरनभिभूतं स्थानम्, अग्नीधश्शरणम् । 'अग्नीधश्शरणे रण्' । तदेवेति । तत्स्थानमुपेत्य एना वसतीवरीर्वासयति ॥
11 यतः खल्वित्यादि ॥ यज्ञस्य वितायमानस्य संबन्धि कर्म यतः यतः मभृति न क्रियते तदनु तदेव लक्षीकृत्य हेतुं वा कृत्वा रक्षांसि यज्ञं तस्मिंस्तस्मिन् छिद्रे अवचरन्ति अवकुर्वन्ति, तस्माद्वहन्तीनां गृह्णाति । तत्कर्म क्रियमाणमेव शये शेते लुप्तं न भवति । 'लोपस्त आत्मनेपदेषु' इति तलोपः । वहन्तीग्रहणं स्वयंयज्ञत्वात् वहन्तीनाम् । यथोक्तं 'वहन्तीनां गृह्णाति या एव मेध्या यज्ञियास्सदेवा आपः' इति । तस्माच्छिद्राभावाद्रक्षसामनन्वचाराय भवति । न ह्येता ईलन्ति गच्छन्ति आतृतीयसवनात् परिशेरे परिशेरते अविचलिता अवतिष्ठन्ते । पूवर्वत्तलोपः, 'अतो गुणे' पररूपत्वम् । तत् यज्ञस्याविच्छेदाय अविच्छेदेव चन्द्रो [च्छेदेन चलना] भावः ॥
इति षष्ठे चतुर्थे द्वितीयोनवाकः ॥