प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.2.2 TS 6.4.2.2
द्य॒ज्ञ्ं ॅवि च्छि॑न्द्या-ज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यं ॅवा ऽव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो वा᳚ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुंभ्या॑नां गृह्णीया॒थ् स हि गृ॑ही॒त व॑सतीवरीको वसती॒वरी᳚र्गृह्णाति प॒शवो॒ वै व॑सती॒वरीः᳚ प॒शूने॒वाऽऽ*रभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒पं तिष्ठ॑न् गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात् प॒शवः॑ स्युः प्रती॒पं तिष्ठ॑न् गृह्णाति प्रति॒रुद्ध्यै॒वास्मै॑ प॒शून् गृ॑ह्णा॒तीन्द्रो॑- [ ]
पदपाठः (Word-by-word)
य॒ज्ञ्म् । वीति॑ । छि॒न्द्या॒त् । ज्यो॒ति॒ष्या᳚ । वा॒ । गृ॒ह्णी॒यात् । हिर॑ण्यम् । वा॒ । अ॒व॒धायेत्य॑व - धाय॑ । सशु॑क्राणा॒मिति॒ स-शु॒क्रा॒णा॒म् । ए॒व । गृ॒ह्णा॒ति॒ । यः । वा॒ । ब्रा॒ह्म॒णः । ब॒हु॒या॒जीति॑ बहु - या॒जी । तस्य॑ । कुंभ्या॑नाम् । गृ॒ह्णी॒या॒त् । सः । हि । गृ॒ही॒तव॑सतीवरीक॒ इति॑ गृही॒त - व॒स॒ती॒व॒री॒कः॒ । व॒स॒ती॒वरीः᳚ । गृ॒ह्णा॒ति॒ । प॒शवः॑ । वै । व॒स॒ती॒वरीः᳚ । प॒शून् । ए॒व । आ॒रभ्येत्या᳚- रभ्य॑ । गृ॒ही॒त्वा । उपेति॑ । व॒स॒ति॒ । यत् । अ॒न्वी॒पम् । तिष्ठन्न्॑ । गृ॒ह्णी॒यात् । नि॒र्मार्गु॑का॒ इति॑ निः - मार्गु॑काः । अ॒स्मा॒त् । प॒शवः॑ । स्युः॒ । प्र॒ती॒पम् । तिष्ठन्न्॑ । गृ॒ह्णा॒ति॒ । प्र॒ति॒रुद्ध्येति॑ प्रति - रुद्ध्य॑ । ए॒व । अ॒स्मै॒ । प॒शून् । गृ॒ह्णा॒ति॒ । इन्द्रः॑ ।
पदसंख्या: 50