वृ॒त्रम॑ह॒न्थ् सो᳚ऽ(1॒)पो᳚ऽ(1॒)भ्य॑म्रियत॒ तासां॒ ॅयन्मेद्ध्यं॑ ॅय॒ज्ञियꣳ॒॒ सदे॑व॒मासी॒त् तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न् वह॑न्तीनां गृह्णाति॒ या ए॒व मेद्ध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्ता सा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒रती॑या॒द्- यद॑न्त॒मा वह॑न्तीरती॒याद् य॒ज्ञ्मति॑ मन्येत॒ न स्था॑व॒राणां᳚ गृह्णीया॒द् वरु॑णगृहीता॒ वै स्था॑व॒रा यथ् स्था॑व॒राणां᳚ं गृह्णी॒याद्- [ ]
पदपाठः (Word-by-word)
वृ॒त्रम् । अ॒ह॒न्न् । सः । अ॒पः । अ॒भीति॑ । अ॒म्रि॒य॒त॒ । तासा᳚म् । यत् । मेद्ध्य᳚म् । य॒ज्ञिय᳚म् । सदे॑व॒मिति॒ स - दे॒व॒म् । आसी᳚त् । तत् । अतीति॑ । अ॒मु॒च्य॒त॒ । ताः । वह॑न्तीः । अ॒भ॒व॒न्न् । वह॑न्तीनाम् । गृ॒ह्णा॒ति॒ । याः । ए॒व । मेद्ध्याः᳚ । य॒ज्ञियाः᳚ । सदे॑वा॒ इति॒ स - दे॒वाः॒ । आपः॑ । तासा᳚म् । ए॒व । गृ॒ह्णा॒ति॒ । न । अ॒न्त॒माः । वह॑न्तीः । अतीति॑ । इ॒या॒त् । यत् । अ॒न्त॒माः । वह॑न्तीः । अ॒ती॒यादित्य॑ति-इ॒यात् । य॒ज्ञ्म् । अतीति॑ । म॒न्ये॒त॒ । न । स्था॒व॒राणा᳚म् । गृ॒ह्णी॒या॒त् । वरु॑णगृहीता॒ इति॒ वरु॑ण - गृ॒ही॒ताः॒ । वै । स्था॒व॒राः । यत् । स्था॒व॒राणा᳚म् । गृ॒ह्णी॒यात् ।