सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा अ॑नु॒ष्टुग् वा॒चैवैनाः॒ सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒ त्रिः सा॑दयति स॒प्त सं प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्धे॒ ऽस्मै वै लो॒काय॒ गार्.ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद् गार्.ह॑पत्य उपसा॒दये॑द॒स्मिन् ॅलो॒के प॑शु॒मान्थ् स्या॒द् यदा॑हव॒नीये॒ऽमुष्मि॑न्- [ ]
पदपाठः (Word-by-word)
सूर्यः॑ । इति॑ । आ॒ह॒ । सशु॑क्राणा॒मिति॒ स - शु॒क्रा॒णा॒म् । ए॒व । गृ॒ह्णा॒ति॒ । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । गृ॒ह्णा॒ति॒ । वाक् । वै । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । वा॒चा । ए॒व । ए॒नाः॒ । सर्व॑या । गृ॒ह्णा॒ति॒ । चतु॑ष्पद॒येति॒ चतुः॑ - प॒द॒या॒ । ऋ॒चा । गृ॒ह्णा॒ति॒ । त्रिः । सा॒द॒य॒ति॒ । स॒प्त । समिति॑ । प॒द्य॒न्ते॒ । स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । शक्व॑री । प॒शवः॑ । शक्व॑री । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒स्मै । वै । लो॒काय॑ । गार्.ह॑पत्य॒ इति॒ गार्.ह॑ - प॒त्यः॒ । एति॑ । धी॒य॒ते॒ । अ॒मुष्मै᳚ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । यत् । गार्.ह॑पत्य॒ इति॒ गार्.ह॑ - प॒त्ये॒ । उ॒प॒सा॒दये॒दित्यु॑प - सा॒दये᳚त् । अ॒स्मिन्न् । लो॒के । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । यत् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । अ॒मुष्मिन्न्॑ ।