प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.5.1 TS 6.4.5.1
प्रा॒णो वा ए॒ष यदु॑पाꣳ॒॒शु र्यदुपाꣳ॒॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ प्रा॒णमे॒वानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒ऽऽ*हौप॑वेशिः प्रातस्सव॒न ए॒वाहं ॅय॒ज्ञ्ꣳ सꣳ स्था॑पयामि॒ तेन॒ ततः॒ सꣳस्थि॑तेन चरा॒मीत्य॒ष्टौ कृत्वोऽग्रे॒-ऽभिषु॑णो-त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तस्सव॒नं प्रा॑तस्सव॒नमे॒व तेना᳚ ऽऽ*प्नो॒त्येका॑दश॒ कृत्वो᳚ द्वि॒तीय॒-मेका॑दशाक्षरा त्रि॒ष्टुप् त्रैष्टु॑भं॒ माद्ध्य॑दिंनꣳ॒॒- [ ]
पदपाठः (Word-by-word)
प्रा॒ण इति॑ प्र - अ॒नः । वै । ए॒षः । यत् । उ॒पाꣳ॒॒शुरित्यु॑प-अ॒शुः । यत् । उ॒पाꣳ॒॒श्व॑ग्रा॒ इत्यु॑पाꣳ॒॒शु - अ॒ग्राः॒ । ग्रहाः᳚ । गृ॒ह्यन्ते᳚ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अनु॑ । प्रेति॑ । य॒न्ति॒ । अ॒रु॒णः । ह॒ । स्म॒ । आ॒ह॒ । औप॑वेशि॒रित्यौप॑ - वे॒शिः॒ । प्रा॒त॒स्स॒व॒न इति॑ प्रातः-स॒व॒ने । ए॒व । अ॒हम् । य॒ज्ञ्म् । समिति॑ । स्था॒प॒या॒मि॒ । तेन॑ । ततः॑ । सꣳस्थि॑ते॒नेति॒ सं-स्थि॒ते॒न॒ । च॒रा॒मि॒ । इति॑ । अ॒ष्टौ । कृत्वः॑ । अग्रे᳚ । अ॒भीति॑ । सु॒नो॒ति॒ । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्रम् । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । ए॒व । तेन॑ । आ॒प्नो॒ति॒ । एका॑दश । कृत्वः॑ । द्वि॒तीय᳚म् । एका॑दशाक्ष॒रेत्येका॑दश-अ॒क्ष॒रा॒ । त्रि॒ष्टुप् । त्रैष्टु॑भम् । माद्ध्य॑न्दिनम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

विधत्ते –

“प्राणो वा एष यदुपाशुर्यदुपा श्वग्रा ग्रहा गृह्यन्ते प्राणमेवानु प्रयन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।

यज्ञस्य प्राणस्थानीय उपांशुः। अपानवागादिस्थानीयास्त्वन्तर्यामैन्द्रवायवादयः। अतः प्राणत्वेन मुख्यत्वात्प्रथमतस्तद्ग्रहणं युक्तम्।

त्रिषु पर्यायेषु विलक्षणसंख्याविशिष्टमभिषवं विधत्ते –

“अरुणो ह स्माऽऽहौपवेशिः प्रातःसवन एवाहं यज्ञं सं स्थापयामि तेन ततः संस्थितेन चरामीत्यष्टौ कृत्वोऽग्रेऽभि षुणोत्यष्टाक्षरा गायत्री गायत्रं प्रातःसवनं प्रातःसवनमेव तेनाऽऽप्नोत्येकादशाक्षरा त्रिष्टुप् त्रैष्टुभं माध्यन्दिनं सवनं माध्यन्दिनमेव सवनं तेनाऽऽप्नोति द्वादश कृत्वस्तृतीयं द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनमेव तेनाऽऽप्नोत्येता ह वाव स यज्ञस्य संस्थितिमुवाचास्कन्दायास्कंन्न हि तद्यद्यज्ञस्य संस्थितस्य स्कन्दति” (सं. का. ६ प्र. ४ अ. ५) इति।

उपवेशस्य पुत्रः कश्चिदरुणनामा यथोक्तत्रिविधाभिपरूपामेव यज्ञस्य समाप्तिमुवाच। तदेतविनाशाय संपद्यते। समाप्तस्य यज्ञस्य संबन्धि यद्वस्तु नश्यति तदविनष्टमेव।

त्रिष्वपि पर्यायेष्वष्टसंख्यैवेति पक्षान्तरं विधत्ते –

“अथो खल्वाहुर्गायत्री वाव प्रातःसवने नातिवाद इत्यनतिवादुक एनं भ्रातृव्यो भवति य एवं वेद तस्मादष्टावष्टौ कृत्वोऽभिषुत्यम्” (सं. का. ६ प्र. ४ अ. ५) इति।

अतिवादे गायत्र्येव न वर्तते। त्रिष्टुब्जगत्यौ तु वर्तेते। अधिकाक्षरयुक्ततया पठ्यमानत्वमतिवादः। न चासावल्पाक्षरायां गायत्र्यां संभवति। यद्यपि प्रातःसवने छन्दोन्तराण्यपि संभवन्ति तथाऽपि गायत्र्येवाभिमानिदेवता। गायत्र्या अतिवादाभावं यो वेद तं प्रति शत्रुरप्यनतिवादुको भवति अनिन्दको भवतीत्यर्थः। यस्माद्गायत्र्येव सवनमभिमन्यते तस्मात्तदीययैव संख्यया प्रातःसवने त्रिष्वपि पर्यायेष्वभिषोतव्यम्।

मन्त्रस्य प्रथमभागे वाक्शब्दतात्पर्यमाह –

“ब्रह्मवादिनो वदन्ति पवित्रवन्तोऽन्ये ग्रहा गृह्यन्ते किंपवित्र उपांशुरिति वाक्पवित्र इति ब्रूयाद्वाचस्पते पवस्व वाजिन्नित्याह वाचैवैनं पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।

उपांशुव्यतिरिक्ता ग्रहा दशापवित्रनामकेन वस्त्रेण शोधिता गृह्यन्ते न तूपांशुः। तस्य किं शोधकमिति प्रश्नः। मन्त्र एव शोधकमित्युत्तरम्।

भागान्तराणामर्थः प्रसिद्ध इत्याह –

“वृष्णो अंशुभ्यामित्याह वृष्णो ह्येतावंशू यौ सोमस्य गभस्तिपूत इत्याह गभस्तिना ह्येनं पवयति देवो देवानां पवित्रमसीत्याह देवो ह्येष सन्देवानां पवित्रं येषां भागोऽसि तेभ्यस्त्वेत्याह येषां ह्येष भागस्तेभ्य एनं गृह्णाति” (सं. का. ६ प्र. ४ अ. ५) इति।

दिव्यपार्थिवशब्देन जन्मद्वयमिति दर्शयति –

“स्वांकृतोऽसीत्याह प्रणभेव स्वमकृत मधुमतीर्न इषस्कृधीत्याह सर्वमेवास्मा इदं स्वदयति विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहोभयेष्वेव देवमनुष्येषु प्राणान्दधाति” (सं. का. ६ प्र. ४ अ. ५) इति।

क्रमेण मन्त्रान्व्याचष्टे –

“मनस्त्वाऽष्ट्विवित्याह मन एवाश्नुत उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो हि प्राणः स्वाहा सुभवः सूर्यायेत्याह प्राणा वै स्वभवसो देवास्तेष्वेव परोक्षं जुहोति देवेभ्यस्त्वा मरीचिपेभ्य इत्याहाऽऽदित्यस्य वै रश्मयो देवा मरीचिपास्तेषां तद्भागधेयं तानेव तेन प्रीणाति” (सं. का. ६ प्र. ४ अ. ५) इति।

स्वभवसः स्वशरीरेऽवस्थिता देवाः प्राणवायवः। तत्र प्राणेभ्यः स्वाहेत्युक्ते तेषां प्रत्यक्षहोमो भवतीति तत्परित्यज्य सूर्यायेत्युक्तत्वादयं परोक्षहोमः। यद्वा स्वभवस इति वक्तव्ये सति सुभवस इत्युक्त्या परोक्षत्वम्। रश्मिनामकाश्चेतना देवा अचेतनानां मरीचीनां पालकाः।

लेपमार्जने हस्तस्याधोमुखत्वमूर्ध्वमुखत्वं च फलभेदेन विधत्ते –

“यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचा हस्तेन नि मृज्याद्वृष्टिमेव नि यच्छति यदि कामयेतावर्षुकः स्यादित्युत्तानेन नि मृज्याद्वृष्टिमेवोद्यच्छति” (सं. का. ६ प्र. ४ अ. ५) इति।

वैरिणं प्रत्यभिचरता पुरुषेण होमात्पूर्वं पाठ्यं मन्त्रविशेषमुत्पादयति –

“यद्यभिचरेदमुं जह्यथ त्वा होष्यामीति ब्रूयादाहुतिमेवैनं प्रेप्सन्हन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।

हे प्राणरूप सूर्यामुं देवदत्तनामकं वैरिणं प्रथमतो मारय पश्चात्त्वां प्रति होष्यामीति ब्रूयात्। एतन्मन्त्रं श्रुत्वा देव आहुतिमपेक्षमाण एनं वैरिणं मारयत्येव।

वैरिणो दूरदेशवर्तित्त्वे सत्यभिचरतोऽनुष्ठानविशेषं विधत्ते –

“यदि दूरे स्यादा तमितोस्तिष्ठेत्प्राणमेवास्यानुगत्य हन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।

आ तमितोरा ग्लानेर्यावन्तं कालं निरुच्छ्वासः स्थातुं शक्नोति तावत्तिष्ठेत्। ततोऽयं निरोधोऽस्य वैरिणः प्राणमनुगत्य मारयत्येव।

अभिचरतः पात्रासादनाय मन्त्रान्तरमुत्पादयति –

“यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेदसन्नो वै प्राणः प्राणमेवास्य सादयति” (सं. का. ६ प्र. ४ अ. ५) इति।

हे उपांशुपात्र प्राणरूपं त्वाममुष्य वैरिणः प्राणे स्थापयामीत्युक्ते सत्यसन्नो विनाशरहितो यजमानप्राणो वैरिणः प्राणं सादयति विनाशयति।

अभिषुतः सोमरसः प्रतिप्रस्थातृहस्तगत उपांशुपात्रे यदा गृह्यते तदा ग्रहान्तरवद्वस्त्रेण शोधनं न भवति किंत्वंशुभिरिति विधत्ते –

“षडिभिरशुभिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।

नात्र षण्णामंशूनां युगपत्प्रयोगः किंतु त्रिषु पर्यायेष्विति विधत्ते –

“त्रिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।

नात्र वक्ष्यमाणग्रहेष्विव दशापवित्रनाभिस्रुतया धारया ग्रहणं किंतु त्रिष्वपि पर्यायेष्वध्वर्योरञ्जलिनेति विधत्ते – “ब्रह्मवादिनो वदन्ति कस्मात्सत्यात्त्रयः पशूनां हस्तादाना इति यत्त्रिरुपांशु हस्तेन विगृह्णाति तस्मात्त्रयः पशूनां हस्तादानाः पुरुषो हस्ती मर्कटः” (सं. का. ६ प्र. ४ अ. ५) इति। गोमहिषादयः सर्वे पशवो मुखादानाः। एते तु त्रयो हस्तादानाः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्राणो वा इत्यादि ॥ प्राणस्थितिहेतुत्वाताच्छब्द्यम् । उपांश्वग्राः उपांशुप्रथमाः अनुप्रयन्ति अनुगच्छन्ति ॥
2 अरुणो हेत्यादि ॥ उपवेशस्यापत्यं अरुणो नाम आह स्म - अहं प्रातस्सवन एव यज्ञं संस्थापयामि समापयामि सोमं, ततश्च प्रातस्सवन एव समाप्तौ तेन यज्ञेनेत्थंभूतश्चरामीति प्रतिज्ञामाह । प्रयोजनं च वक्ष्यति - अस्कन्दायेति । कथं पुनः प्रातस्सवन एव यज्ञसंस्थापनेत्यत आह - अष्टौ कृत्व इत्यादि । क्रियाभ्यावृत्तिवाचिशब्दान्तरमिदं, न प्रत्ययः । अभिषवे अष्टत्वाद्यन्वयात् गायत्र्यादिसवनत्रयलाभः । त्रिष्टुब्जगतीशब्दौ उत्सादिः ॥
3 एतां हेत्यादि ॥ एतां यज्ञस्य संस्थितिं सोरुण उवाच । किमर्थम्? अस्कन्दाय स्कन्नदोषाभावाय । कथं पुनस्तदभाव इत्याह - अस्कन्नं हीत्यादि । गतम् ॥
4 अथो खल्वित्यादि पक्षान्तरम् ॥ गायत्रो खलु प्रातस्सवनेन अतिवादे न वर्तते अतिवादं न सहते, गायत्रत्वात्प्रातस्सवनस्य । गायत्र्या एव ह्यतिवादास्त्रिष्टुबादयः । तस्माच्छन्दोन्तरमयुक्तं प्रातस्सवने इत्यरुणादन्य आहुः । एवं वेदितारं भ्रातृव्यः अनतिवादुकः अतिक्रम्य वचनशीलोतिवादुकः । छान्दस उकञ्, पूर्ववत् षष्ठ्यभावः । यस्मादेवं प्रातस्सवने गायत्र्या नातिवादः तस्मादष्टावष्टौकृत्वः एकादशकृत्वः इत्यादि मुक्त्वा सर्वेष्वपि पर्यायेषु अष्टकृत्व एवाभिषुत्यमभिषोतव्यम् । छान्दसः क्यप् ॥
5 ब्रह्मवादिन इत्यादि ॥ दशापवित्रवन्त एवान्ये सर्वे ग्रहा गृह्यन्ते । अयमुपांशुग्रहः किंपवित्रः केन पवित्रेण तद्वानिति पृच्छन्ति ब्रह्मवादिनः । वाक्पवित्र इत्युत्तरं ब्रूयात् तेभ्यः । वाचस्पतये इत्येतद्वचनमेव पवित्रमस्य । तस्माद्वाचैवैतयैनं पवयति किं दशापवित्रेण । सोमस्य खल्वंशू वृष्णोंशू वर्षितृत्वात् । सोमस्य गभस्तिमत्त्वेन गभस्तिनैनं पवयति । हस्तो गभस्तिरिति केचित् । स्वयं देवः सन् देवानां पवित्रं भवत्येषः । येषामेष भागः तेभ्य एवायं गृहीतो भवति । प्राणमेव स्वमात्मीयं करोति । छान्दसो लुङ् । मन्त्रे 'स्वांकृतोसि' इति च्वेराम् ईत्वापवादः । एवमादेश इति दर्शयति सर्वमस्मै स्वादु करोति ॥
6 विश्वेभ्यस्त्वेति ॥ गतम् । प्राणा वै स्वभवस इत्यादि । मन्त्रे सुभव इति स्वभवसां प्राणापानानां परोक्षमामन्त्रणमिति दर्शयति । स्वस्मिन्नात्मनि जाता देवास्स्वभवसः, तेषु परोक्षं हुतं भवति । स्वभवस इति । आदित्यस्य वै रश्मय इत्यादि । गतम् ॥
7 यदीत्यादि ॥ वर्षुकः वर्षणशीलः पजर्न्यस्स्यादिति यदि कामयेत तदा नीचा अधोमुखेन हस्तेन निमृज्यात् शोधयेत् । वृष्टिं नियच्छति न्यक्पातयति । अवर्षुकः अवर्षणशीलः, पूर्ववदुकञ् । उत्तानमुखः उद्यच्छति ऊर्ध्वमाकर्षति ॥
8 यद्यभिचरेदित्यादि ॥ अमुं देवदत्तं जहि मारय अथानन्तरं तुभ्यं ग्रहं होष्यामि नेदानीमिति भविष्यति निर्देशं कुर्यात् । आहुतिमेव प्रेप्सन् प्रणस्सूर्यो वा एनमभिचरितव्यं हन्ति नाशयति । अथ यदि दूरे स्यादभिचरितव्यः तदा आतमितोस्तिष्ठेत् यावन्तं कालं निरुच्छ्वासस्स्थातुं न शक्नुयात् तावन्तं कालमुच्छ्वसन् तिष्ठेत् । अस्याभिचरितव्यस्य प्राणमनुगत्यैनं हन्ति ॥
9 यद्यभिचरेदित्यादि ॥ प्रयोगान्तरमुच्यते । अभिचरन्नमुष्य देवदत्तस्य प्राणे त्वां सादयामीति हुत्वा पात्रं सादयेत् । प्राणो वा असन्नः अनष्टः अनेन सादनेन अस्य प्राणमेव सादयति नाशयति ॥
10 षड्भिरिति ॥ द्वाभ्यांद्वाभ्याम् । त्रिरित्यादि । गतम् । ब्रह्मवादिन इत्यादि । कस्मात्कारणात्पशूनां मध्ये त्रय एव हस्तादाना इति वदन्ति ब्रह्मवादिनः । यदित्याद्युत्तरम् - यस्मादुपांशुग्रहमञ्जलिना त्रिर्गृह्णाति तस्मात्त्रय एव हस्तादानाः हस्तः आदानः आदानकरणं येषां ते तथोक्ताः । के. पुनस्त्रय इत्याह - पुरुष इत्यदि ॥
इति षष्ठे चतुर्थे पञ्चमोनुवाकः ॥