प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.5.2 TS 6.4.5.2
सव॑नं॒ माद्ध्य॑न्दिनमे॒व सव॑नं॒ तेना᳚ऽऽ*प्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीयं॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेना᳚ ऽऽ*प्नोत्ये॒ताꣳ ह॒ वाव स य॒ज्ञ्स्य॒ सꣳस्थि॑तिमुवा॒चा स्क॑न्दा॒यास्क॑न्नꣳ॒॒ हि तद्-यद्-य॒ज्ञ्स्य॒ सꣳस्थि॑तस्य॒ स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तस्सव॒ने नाति॒वाद॒ इत्यन॑तिवादुक एनं॒ भ्रातृ॑व्यो भवति॒ य ए॒वं ॅवेद॒ तस्मा॑द॒ष्टाव॑ष्टौ॒- [ ]
पदपाठः (Word-by-word)
सव॑नम् । माद्ध्य॑न्दिनम् । ए॒व । सव॑नम् । तेन॑ । आ॒प्नो॒ति॒ । द्वाद॑श । कृत्वः॑ । तृ॒तीय᳚म् । द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ । जग॑ती । जाग॑तम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय-स॒व॒नम् । ए॒व । तेन॑ । आ॒प्नो॒ति॒ । ए॒ताम् । ह॒ । वाव । सः । य॒ज्ञ्स्य॑ । सꣳस्थि॑ति॒मिति॒ सं - स्थि॒ति॒म् । उ॒वा॒च॒ । अस्क॑न्दाय । अस्क॑न्नम् । हि । तत् । यत् । य॒ज्ञ्स्य॑ । सꣳस्थि॑त॒स्येति॒ सं - स्थि॒त॒स्य॒ । स्कन्द॑ति । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । गा॒य॒त्री । वाव । प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । न । अ॒ति॒वाद॒ इत्य॑ति - वादे᳚ । इति॑ । अन॑तिवादुक॒ इत्यन॑ति - वा॒दु॒कः॒ । ए॒न॒म् । भ्रातृ॑व्यः । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । तस्मा᳚त् । अ॒ष्टाव॑ष्टा॒वित्य॒ष्टौ - अ॒ष्टौ॒ ।
पदसंख्या: 50