प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.5.3 TS 6.4.5.3
कृत्वो॑ऽभि॒षुत्यं॑ ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किंप॑वित्र उपाꣳ॒॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूयाद्-वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैनं॑ पवयति॒ वृष्णो॑ अꣳ॒॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑तावꣳ॒॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒ ह्ये॑नं प॒वय॑ति दे॒वो दे॒वानां᳚ प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑ष- [ ]
पदपाठः (Word-by-word)
कृत्वः॑ । अ॒भि॒षुत्य॒मित्य॑भि-सुत्य᳚म् । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । प॒वित्र॑वन्त॒ इति॑ प॒वित्र॑ - व॒न्तः॒ । अ॒न्ये । ग्रहाः᳚ । गृ॒ह्यन्ते᳚ । किम्प॑वित्र॒ इति॒ किम् - प॒वि॒त्रः॒ । उ॒पाꣳ॒॒शुरित्यु॑प - अꣳ॒॒शुः । इति॑ । वाक्प॑वित्र॒ इति॒ वाक्-प॒वि॒त्र॒ ः । इति॑ । ब्रू॒या॒त् । वा॒चः । पत॑ये । प॒व॒स्व॒ । वा॒जि॒न्न् । इति॑ । आ॒ह॒ । वा॒चा । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ । वृषः॑ । अꣳ॒॒शुभ्या॒मित्यꣳ॒॒शु - भ्या॒म् । इति॑ । आ॒ह॒ । वृष्णः॑ । हि । ए॒तौ । अꣳ॒॒शू इति॑ । यौ । सोम॑स्य । गभ॑स्तिपूत॒ इति॒ गभ॑स्ति - पू॒तः॒ । इति॑ । आ॒ह॒ । गभ॑स्तिना । हि । ए॒न॒म् । प॒वय॑ति । दे॒वः । दे॒वाना᳚म् । प॒वित्र᳚म् । अ॒सि॒ । इति॑ । आ॒ह॒ । दे॒वः । हि । ए॒षः ।
पदसंख्या: 50