ऽष्ट्वित्या॑ह॒ मन॑ ए॒वाश्नु॑त उ॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑हा-न्तरिक्षदेव॒त्यो॑ हि प्रा॒णः स्वाहा᳚ त्वा सुभवः॒ सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व प॒रोक्षं॑ जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हा ऽऽ*दि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्तेषां॒ तद् भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ यदि॑ का॒मये॑त॒ वर्.षु॑कः प॒र्जन्यः॑- [ ]
पदपाठः (Word-by-word)
अ॒ष्टु॒ । इति॑ । आ॒ह॒ । मनः॑ । ए॒व । आ॒श्नु॒ते॒ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष-दे॒व॒त्यः॑ । हि । प्रा॒ण इति॑ प्र - अ॒नः । स्वाहा᳚ । त्वा॒ । सु॒भ॒व॒ इति॑ सु - भ॒वः॒ । सूर्या॑य । इति॑ । आ॒ह॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । स्वभ॑वस॒ इति॒ स्व - भ॒व॒सः॒ । दे॒वाः । तेषु॑ । ए॒व । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । जु॒हो॒ति॒ । दे॒वेभ्यः॑ । त्वा॒ । म॒री॒चि॒पेभ्य॒ इति॑ मरीचि - पेभ्यः॑ । इति॑ । आ॒ह॒ । आ॒दि॒त्यस्य॑ । वै । र॒श्मयः॑ । दे॒वाः । म॒री॒चि॒पा इति॑ मरीचि-पाः । तेषा᳚म् । तत् । भा॒ग॒धेय॒मिति॑ भाग-धेय᳚म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ । यदि॑ । का॒मये॑त । वर्.षु॑कः । प॒र्जन्यः॑ ।