प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.5.7 TS 6.4.5.7
त्वा प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णः प्रा॒णमे॒वास्य॑ सादयति ष॒ड्भिरꣳ॒॒शुभिः॑ पवयति॒ षड् वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ पवयति॒ त्रिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ ॅलो॒कैः प॑वयति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्यात् त्रयः॑ पशू॒नाꣳ हस्ता॑दाना॒ इति॒ यत् त्रिरु॑पाꣳ॒॒ शुꣳ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒त् त्रयः॑ पशू॒नाꣳ हस्ता॑दानाः॒ पुरु॑षो ( ) ह॒स्ती म॒र्कटः॑ ॥
पदपाठः (Word-by-word)
त्वा॒ । प्रा॒ण इति॑ प्र - अ॒ने । सा॒द॒या॒मि॒ । इति॑ । सा॒द॒ये॒त् । अस॑न्नः । वै । प्रा॒ण इति॑ प्र - अ॒नः । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अ॒स्य॒ । सा॒द॒य॒ति॒ । ष॒ड्भिरिति॑ षट् - भिः । अꣳ॒॒शुभि॒रित्यꣳ॒॒शु - भिः॒ । प॒व॒य॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ । त्रिः । प॒व॒य॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒भिः । ए॒व । ए॒न॒म् । लो॒कैः । प॒व॒य॒ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । त्रयः॑ । प॒शू॒नाम् । हस्ता॑दाना॒ इति॒ हस्त॑ -आ॒दा॒नाः॒ । इति॑ । यत् । त्रिः । उ॒पाꣳ॒॒शुमित्यु॑प - अꣳ॒॒शुम् । हस्ते॑न । वि॒गृ॒ह्णातीति॑ वि - गृ॒ह्णाति॑ । तस्मा᳚त् । त्रयः॑ । प॒शू॒नाम् । हस्ता॑दाना॒ इति॒ हस्त॑ - आ॒दा॒नाः॒ । पुरु॑षः ( ) । ह॒स्ती । म॒र्कटः॑ ॥
पदसंख्या: 52