-ति॒ सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै मद्देव॒त्या᳚न्ये॒व वः॒ पात्रा᳚ण्युच्यान्ता॒ इति॒ तस्मा᳚न्नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्या᳚न्युच्यन्ते॒ तमे᳚भ्यो वा॒युरे॒वास्व॑दय॒त् तस्मा॒द्यत् पूय॑ति॒ तत् प्र॑वा॒ते वि ष॑जन्ति वा॒युर्.हि तस्य॑ पवयि॒ता स्व॑दयि॒ता तस्य॑ वि॒ग्रह॑णं॒ नावि॑न्द॒न्थ् सादि॑तिरब्रवी॒द् वरं॑ ॅवृणा॒ अथ॒ मया॒ वि गृ॑ह्णीद्ध्वं मद्देव॒त्या॑ ए॒व वः॒ सोमाः᳚ - [ ]
पदपाठः (Word-by-word)
इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । म॒द्दे॒व॒त्या॑नीति॑ मत्-दे॒व॒त्या॑नि । ए॒व । वः॒ । पात्रा॑णि । उ॒च्या॒न्तै॒ । इति॑ । तस्मा᳚त् । ना॒ना॒दे॒व॒त्या॑नीति॑ नाना - दे॒व॒त्या॑नि । सन्ति॑ । वा॒य॒व्या॑नि । उ॒च्य॒न्ते॒ । तम् । ए॒भ्यः॒ । वा॒युः । ए॒व । अ॒स्व॒द॒य॒त् । तस्मा᳚त् । यत् । पूय॑ति । तत् । प्र॒वा॒त इति॑ प्र - वा॒ते । वीति॑ । स॒ज॒न्ति॒ । वा॒युः । हि । तस्य॑ । प॒व॒यि॒ता । स्व॒द॒यि॒ता । तस्य॑ । वि॒ग्रह॑ण॒मिति॑ वि - ग्रह॑णम् । न । अ॒वि॒न्द॒न्न् । सा । अदि॑तिः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । अथ॑ । मया᳚ । वीति॑ । गृ॒ह्णी॒द्ध्व॒म् । म॒द्दे॒व॒त्या॑ इति॑ मत् - दे॒व॒त्याः᳚ । ए॒व । वः॒ । सोमाः᳚ ।