स॒न्ना अ॑स॒-न्नित्यु॑पया॒मगृ॑हीतो॒ऽसी-त्या॑हा-दितिदेव॒त्या᳚स्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा᳚ण्य॒स्यै तानि॒ योनेः॒ संभू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒क्षात् तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒ वाग्वै परा॒च्य-व्या॑कृताऽवद॒त् ते दे॒वा इन्द्र॑मब्रुवन्नि॒मां नो॒ वाचं॒ ॅव्याकु॒र्विति॒ सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै॒ मह्यं॑ चै॒वैष वा॒यवे॑ च स॒ह ( ) गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मद्ध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त् तस्मा॑दि॒यं ॅव्याकृ॑ता॒ वागु॑द्यते॒ तस्मा᳚थ् स॒कृदिन्द्रा॑य मद्ध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒ववृ॑णीत ॥
पदपाठः (Word-by-word)
स॒न्नाः । अ॒स॒न्न् । इति॑ । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒दि॒ति॒दे॒व॒त्या॑ इत्य॑दिति - दे॒व॒त्याः᳚ । तेन॑ । यानि॑ । हि । दा॒रु॒मया॒णीति॑ दारु-मया॑नि । पात्रा॑णि । अ॒स्यै । तानि॑ । योनेः᳚ । संभू॑ता॒नीति॒ सं - भू॒ता॒नि॒ । यानि॑ । मृ॒न्मया॒नीति॑ मृत् - मया॑नि । सा॒क्षादिति॑ स - अ॒क्षात् । तानि॑ । अ॒स्यै । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । वाक् । वै । परा॑ची । अव्या॑कृ॒तेत्यवि॑ - आ॒कृ॒ता॒ । अ॒व॒द॒त् । ते । दे॒वाः । इन्द्र᳚म् । अ॒ब्रु॒व॒न्न् । इ॒माम् । नः॒ । वाच᳚म् । व्याकु॒र्विति॑ वि - आकु॑रु । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । मह्य᳚म् । च॒ । ए॒व । ए॒षः । वा॒यवे᳚ । च॒ । स॒ह ( ) । गृ॒ह्या॒तै॒ । इति॑ । तस्मा᳚त् । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । स॒ह । गृ॒ह्य॒ते॒ । ताम् । इन्द्रः॑ । म॒द्ध्य॒तः । अ॒व॒क्रम्येत्य॑व - क्रम्य॑ । व्याक॑रो॒दिति॑ वि - आक॑रोत् । तस्मा᳚त् । इ॒यम् । व्याकृ॒तेति॑ वि-आकृ॑ता । वाक् । उ॒द्य॒ते॒ । तस्मा᳚त् । स॒कृत् । इन्द्रा॑य । म॒द्ध्य॒तः । गृ॒ह्य॒ते॒ । द्विः । वा॒यवे᳚ । द्वौ । हि । सः । वरौ᳚ । अवृ॑णीत ॥