प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.8.1 TS 6.4.8.1
मि॒त्रं दे॒वा अ॑ब्रुव॒न्थ् सोमꣳ॒॒ राजा॑नꣳ हना॒मेति॒ सो᳚ऽब्रवी॒न्नाहꣳ सर्व॑स्य॒ वा अ॒हं मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न्॒. हना॑मै॒वेति॒ सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै॒ पय॑सै॒व मे॒ सोमꣳ॑ श्रीण॒न्निति॒ तस्मा᳚न्-मैत्रावरु॒णं पय॑सा श्रीणन्ति॒ तस्मा᳚त् प॒शवोऽपा᳚क्रामन् मि॒त्रः सन् क्रू॒रम॑क॒रिति॑ क्रू॒रमि॑व॒ खलु॒ वा ए॒षः - [ ]
पदपाठः (Word-by-word)
मि॒त्रम् । दे॒वाः । अ॒ब्रु॒व॒न्न् । सोम᳚म् । राजा॑नम् । ह॒ना॒म॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । न । अ॒हम् । सर्व॑स्य । वै । अ॒हम् । मि॒त्रम् । अ॒स्मि॒ । इति॑ । तम् । अ॒ब्रु॒व॒न्न् । हना॑म । ए॒व । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । पय॑सा । ए॒व । मे॒ । सोम᳚म् । श्री॒ण॒न्न् । इति॑ । तस्मा᳚त् । मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा - व॒रु॒णम् । पय॑सा । श्री॒ण॒न्ति॒ । तस्मा᳚त् । प॒शवः॑ । अपेति॑ । अ॒क्रा॒म॒न्न् । मि॒त्रः । सन्न् । क्रू॒रम् । अ॒कः॒ । इति॑ । क्रू॒रम् । इ॒व॒ । खलु॑ । वै । ए॒षः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रानुपेक्ष्य गृहीतस्य सोमरसस्य क्षीरमेलनं विधित्सुः प्रस्तौति –

‘मित्रं देवा अब्रुवन्त्सोमं राजानं हनामेति सोऽब्रवीन्नाह सर्वस्य वा अहं मित्रमस्मीति तमब्रुवन्हनामैवेति सोऽब्रवीद्वरं वृणै पयसैव मे सोमं श्रीणन्निति तस्मान्मैत्रावरुणं पयसा श्रीणन्ति तस्मात्पशवोऽपाक्रामन्मित्रः सन्क्रूरमकरिति’ (सं. का. ६ प्र. ४ अ. ८) इति।

हनाम त्वया सहिता वयमित्यर्थः। नाहं सोमं हन्मीति शेषः। सर्वमित्रत्वमहनने हेतुः। अत एवास्माकमपि मित्रत्वाद्धनामैवास्मदीयं कार्यं हननरूपं त्वया सहैव कुर्मः। श्रीणन्मिश्रयेयुः। क्रूरं सोमवधं कृतवतस्तस्मान्मित्राद्भीता पशवोऽपक्रान्ताः।

विधत्ते –

‘क्रूरमिव खलु वा एष करोति यः सोमेन यजते तस्मात्पशवोऽप क्रामन्ति यन्मैत्रावरुणं पयसा श्रीणाति पशुभिरेव तन्मित्रं समर्धयति पशुभिर्यजमानम्’ (सं. का. ६ प्र. ४ अ. ८) इति। तत्तेन श्रयणेन मित्रदेवयजमानयोः पशुसमृद्धिर्भवति।

अस्तु यजमानस्य पशुसमृद्धिर्मित्रस्य तु कुतस्त्येत्याशङ्क्य तदर्थमेव च तस्य वृतत्वादित्याह –

‘पुरा खलु वावैवं मित्रोऽवेदप मत्क्रूरं चक्रुषः पशवः क्रमिष्यन्तीति तस्मादेवमवृणीत’ (सं. का. ६ प्र. ४ अ. ८) इति।

क्रूरं सोमवधं कृतवतो मत्तोऽपक्रमिष्यन्तीत्यमुमर्थं मित्रः सोमवधात्पुरैव खल्ववेद्विदितवान्। तस्मादेव कारणात्पशुसमृद्धिहेतुं क्षीरमिश्रणमवृणीत।

अथ मित्रावरुणयोरेकेनैव पात्रेण ग्रहणं विधत्ते –

‘वरुणं देवा अब्रुवन्त्वयाऽंशभुवा सोमं राजानं हनामेति सोऽब्रवीद्वरं वृणै मह्यं चैवैष मित्राय च सह गृह्याता इति तस्मान्मैत्रावरुणः सह गृह्यते तस्माद्राज्ञा राजानमंशभुवा घ्नन्ति वैश्येन वैश्यं शूद्रेण शूद्रम्’ (सं. का. ६ प्र. ४ अ. ८) इति।

अंशं द्रव्यभागं भवते प्राप्नोतीत्यंशभूर्दायादः। सोमो वरुणश्च परस्परं दा यादौ। इन्द्रो वरुणः सोमो रुद्र इत्यादिना बृहदारण्यके क्षत्त्रियत्वेनैककुलवर्तित्वस्य समाम्नातत्वात्। यस्मादंशभुवा वरुणेन सह सोमं हनामेति देवैरुक्तं तस्माल्लोकेऽपि तथा कुर्वन्ति। तद्यथा रामो विभीषणेनांशभुवा सहितो रावणं जघान। वैश्यशूद्रयोरप्युदाहार्यम्।

मैत्रावरुणस्यैन्द्रवायवानन्तर्यं विधत्ते –

‘न वा इदं दिवा न नक्तमासीदव्यावृत्तं ते देवा मित्रावरुणावब्रुवन्निदं नो वि वासयतमिति तावब्रूतां वरं वृणावहा एक एवाऽऽवत्पूर्वो ग्रहो गृह्याता इति तस्मादैन्द्रवायवः पूर्वो मैत्रावरुणाद्गृह्यते’ (सं. का. ६ प्र. ४ अ. ८) इति।

इदं कालस्वरूपमव्यावृत्तमविभक्तं पूर्वमासीत्। एतावदहरिति दिवा नाऽऽसीत्। एतावती रात्रिरिति नक्तं नाऽऽसीत्। इदमविभक्तं कालस्वरूपं नोऽस्मदर्थं विवासयतं विभज्य स्थापयतम्। आवदावाभ्यामस्मदीयग्रहादित्यर्थः।

ननूपांश्वन्तर्यामावपि मैत्रावरुणात्पूर्वमेव गृहीतावित्याशङ्क्याऽऽह –

‘प्राणापानौ ह्येतौ यदुपांश्वन्तर्यामौ’ (सं. का. ६ प्र. ४ अ. ८) इति।

प्राणापानयोः सतोः पश्चादितरेन्द्रियस्थितिरिति तयोः पूर्वभावित्वमविवादम्। इतरेषु तु ग्रहेष्वैन्द्रवायव एक एव

मैत्रावरुणात्पूर्वः। वरं लब्ध्वाऽहोरात्रयोर्विभागमजनतामित्याह –

‘मित्रोऽहरजनयद्वरुणो रात्रिं ततो वा इदं व्यौच्छद्यन्मैत्रावरुणो गृह्यते व्युष्ट्यै’ (सं. का. ६ प्र. ४ अ. ८) इति।

सूर्योदयमारभ्य तदस्तमयपर्यन्तं कालोऽहरित्येवं मित्रः कल्पयामास। तदूर्ध्वं पुनः सूर्योदयपर्यन्ता रात्रिरित्येतद्वरुणस्य कल्पनम्। तत आरभ्योभयकालस्वरूपं व्यौच्छद्विभक्तमासीत्। व्युष्ट्या अहोरात्रविभागाय।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 मित्रं देवा इत्यादि ॥ गतम्29 । नाहमिति । कुतोह सोमं हन्तुमुत्सहे कारणमाह - सर्वस्येति । अहं सर्वस्य मित्रं दुःखात्त्रायकोस्मि स कथं द्रोहं करिष्ये इति मित्रेणोक्ते पुनरपि देवा अब्रुवन् - हनामैवेति । यदि सर्वस्य मित्रमसि अस्माकमपि मित्रमसि ततश्च मित्रकार्यस्यावश्यकर्तव्यत्वात् हनामैव त्वया सह न विचारस्यावसर इति । सोब्रवीदित्यादि । श्रीणन् मिश्रयेयुः । श्रीञ् पाके । तस्मात्पशव इत्यादि । तस्मात्सोमवधसाहाय्यकमाचरतो मित्रात्पशवोपाक्रामन् अयं मित्रस्सन् क्रूरमुग्रं अकः अकार्षीत्, अतो बिभीमोस्मात्क्रूरस्वभावादिति ॥
2 क्रूरमिवेत्यादि ॥ सोमवधरूपत्वाद्यज्ञस्य क्रूरत्वम् । हिंसाप्रचुरत्वाद्वा । पयसा श्रयणात् पशूनां समृद्धिर्भवति । 'चादिलोपे विभाषा' इति प्रथमा तिड्विभक्तिर्न निहन्यते ॥
3 इदानीं पयसा श्रयणं वृतवतो मित्रस्याभिप्रायमाह - पुरा खल्वित्यादि ॥ पुरा पूर्वमेव वधात् वधारम्भे एव मित्रोवेत् वेत्ति जानाति स कथं मत् मत्ता क्रूरं चक्रुषः कृतवतः पशवोपक्रमिष्यन्तीति । तस्मादेवमवृणीत पयसा श्रपणं वृतवान् हननारम्भ एव पशूनां तृप्तये । करोतेर्लिटः क्वसुरादेशः, 'वसोस्संप्रसारणम्' ॥
4 वरुणं देवा इत्यादि ॥ अंशस्य भविता प्राप्ता अंशभूः दायादः अंशं प्राप्नुवता त्वया सहायेनेत्यर्थः । प्राप्तिकर्मणो भवतेः क्विप् । सोब्रवीदित्यादि । गतम् । तस्माद्राज्ञेत्यादि । यस्मादेनमंशभुवा वरुणेन सोमं राजानं हतवन्तो देवाः तस्माद्राज्ञा अंशभुवा अंशग्राहिणा दायादेन राजानं घ्नन्ति यथा रामो रावणं विभीषणेन । वैश्येन वैश्यमिति । अंशभुवा घ्रन्तीत्येव । तथा शूद्रेण शूद्रमिति ॥
5 न वा इदमित्यादि ॥ यदिदं विश्वं पर्वूमव्यावृत्तमविभक्तकालमासीत् । कथं? न दिवाऽऽसीत्, न नक्तमासीत् । अथ देवा मित्रावरुणावब्रुवन् - अस्माकं विवासयतं विभातं कुरुतं अहश्च रात्रिं च जनयतमिति । तावित्यादि । आवत् आवाभ्यां पूर्व एक एव ग्रहो गृह्यातै गृह्यताम् ऐन्द्रवायव एव । व्यत्ययेन द्विर्वचनस्यादादेशः । 'सुपां सुलुक्' इति वा पञ्चम्या अलुक् । तस्मादित्यादि । गतम् ॥
6 उपांश्वन्तर्यामावपि मैत्रावरुणात्पूर्वे गृह्येते, कथमैन्द्रवायव एव मैत्रापरुणात्पूर्वो गृह्यते इति तत्राह - प्राणापानाविति ॥ प्राणापानावेतौ मन्यामहे (नैतौ ग्रहौ) प्राणापानयोस्स्थितयोः ये धाराग्रहा गृह्यन्ते तेषामेक एवास्मात्पूर्वः ऐन्द्रवायव इति । ततो लब्धवरो मित्रोहरजनयत्, वरुणो रात्रिमजनयत् । तत इदं सवं व्यौच्छत् विभातमभवत् विभक्ताहोरात्रमासीत् । तस्मान्मैत्रावरुणस्य यथोक्तप्रकारं ग्रहणं व्युष्ट्यै भवति । उच्छी विवासे, व्रश्चादिना षत्वम् । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, 'उदात्तस्वरितयोर्यणः' इत्युकारस्स्वर्यते ॥
इति षष्ठे चतुर्थे अष्टमोनुवाकः ॥