क॑रोति॒ यः सोमे॑न॒ यज॑ते॒ तस्मा᳚त् प॒शवोऽप॑ क्रामन्ति॒ यन्मै᳚त्रावरु॒णं पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रꣳ स॑म॒र्द्धय॑ति प॒शुभि॒र्यज॑मानं पु॒रा खलु॒ वावैवं मि॒त्रो॑ऽवे॒दप॒ मत् क्रू॒रं च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒ वरु॑णं दे॒वा अ॑ब्रुव॒न् त्वयाऽꣳ॑श॒भुवा॒ सोमꣳ॒॒ राजा॑नꣳ हना॒मेति॒ सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै॒ मह्यं॑ चै॒- [ ]
पदपाठः (Word-by-word)
क॒रो॒ति॒ । यः । सोमे॑न । यज॑ते । तस्मा᳚त् । प॒शवः॑ । अपेति॑ । क्रा॒म॒न्ति॒ । यत् । मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा-व॒रु॒णम् । पय॑सा । श्री॒णाति॑ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । ए॒व । तत् । मि॒त्रम् । स॒म॒द्र्धय॒तीति॑ सं - अ॒द्र्धय॑ति । प॒शुभि॒रिति॑ प॒शु - भिः॒ । यज॑मानम् । पु॒रा । खलु॑ । वाव । ए॒वम् । मि॒त्रः । अ॒वे॒त् । अपेति॑ । मत् । क्रू॒रम् । च॒क्रुषः॑ । प॒शवः॑ । क्र॒मि॒ष्य॒न्ति॒ । इति॑ । तस्मा᳚त् । ए॒वम् । अ॒वृ॒णी॒त॒ । वरु॑णम् । दे॒वाः । अ॒ब्रु॒व॒न्न् । त्वया᳚ । अꣳ॒॒श॒भुवेत्यꣳ॑श - भुवा᳚ । सोम᳚म् । राजा॑नम् । ह॒ना॒म॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । मह्य᳚म् । च॒ ।