प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.8.3 TS 6.4.8.3
वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा᳚न्मैत्रावरु॒णः स॒ह गृ॑ह्यते॒ तस्मा॒द् राज्ञा॒ राजा॑नमꣳश॒भुवा᳚ घ्नन्ति॒ वैश्ये॑न॒ वैश्यꣳ॑ शू॒द्रेण॑ शू॒द्रं न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तं॒ ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒दं नो॒ विवा॑सयत॒मिति॒ ताव॑ब्रूतां॒ ॅवरं॑ ॅवृणावहा॒ एक॑ ए॒वाऽऽ*वत् पूर्वो॒ ग्रहो॑ गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः ( ) पूर्वो॑ मैत्रावरु॒णाद्-गृ॑ह्यते प्राणापा॒नौ ह्ये॑तौ यदु॑पाꣳ-श्वन्तर्या॒मौ मि॒त्रोऽह॒रज॑नय॒द्-वरु॑णो॒ रात्रिं॒ ततो॒ वा इ॒दं ॅव्यौ᳚च्छ॒द्यन्-मै᳚त्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ॥
पदपाठः (Word-by-word)
ए॒व । ए॒षः । मि॒त्राय॑ । च॒ । स॒ह । गृ॒ह्या॒तै॒ । इति॑ । तस्मा᳚त् । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । स॒ह । गृ॒ह्य॒ते॒ । तस्मा᳚त् । राज्ञा᳚ । राजा॑नम् । अꣳ॒॒श॒भुवेत्यꣳ॑श - भुवा᳚ । घ्न॒न्ति॒ । वैश्ये॑न । वैश्य᳚म् । शू॒द्रेण॑ । शू॒द्रम् । न । वै । इ॒दम् । दिवा᳚ । न । नक्त᳚म् । आ॒सी॒त् । अव्या॑वृत्त॒मित्यवि॑ - आ॒वृ॒त्त॒म् । ते । दे॒वाः । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । अ॒ब्रु॒व॒न्न् । इ॒दम् । नः॒ । वीति॑ । वा॒स॒य॒त॒म् । इति॑ । तौ । अ॒ब्रू॒ता॒म् । वर᳚म् । वृ॒णा॒व॒है॒ । एकः॑ । ए॒व । आ॒वत् । पूर्वः॑ । ग्रहः॑ । गृ॒ह्या॒तै॒ । इति॑ । तस्मा᳚त् । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः ( ) । पूर्वः॑ । मै॒त्रा॒व॒रु॒णादिति॑ मैत्रा - व॒रु॒णात् । गृ॒ह्य॒ते॒ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । हि । ए॒तौ । यत् । उ॒पाꣳ॒॒श्व॒न्त॒र्या॒मावित्यु॑पाꣳशु-अ॒न्त॒र्या॒मौ । मि॒त्रः । अहः॑ । अज॑नयत् । वरु॑णः । रात्रि᳚म् । ततः॑ । वै । इ॒दम् । वीति॑ । औ॒च्छ॒त् । यत् । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा-व॒रु॒णः । गृ॒ह्यते᳚ । व्यु॑ष्ट्या॒ इति॒ वि - उ॒ष्ट्यै॒ ॥
पदसंख्या: 72