यो वै पव॑मानानामन्वारो॒हान्. वि॒द्वान्. यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्यो-ऽव॑ च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सं पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सं पा॑रय॒ सघा॑ऽसि॒ जग॑तीछन्दा॒ अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ संपा॑र॒येत्या॑है॒ते- [ ]
पदपाठः (Word-by-word)
यः । वै । पव॑मानानाम् । अ॒न्वा॒रो॒हानित्य॑नु - आ॒रो॒हान् । वि॒द्वान् । यज॑ते । अन्विति॑ । पव॑मानान् । एति॑ । रो॒ह॒ति॒ । न । पव॑मानेभ्यः । अवेति॑ । छि॒द्य॒ते॒ । श्ये॒नः । अ॒सि॒ । गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र-छ॒न्दाः॒ । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । सु॒प॒र्ण इति॑ सु - प॒र्णः । अ॒सि॒ । त्रि॒ष्टुप्छ॑न्दा॒ इति॑ त्रि॒ष्टुप् - छ॒न्दाः॒ । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । सघा᳚ । अ॒सि॒ । जग॑तीछन्दा॒ इति॒ जग॑ती - छ॒न्दाः॒ । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । इति॑ । आ॒ह॒ । ए॒ते ।