सा॒वि॒त्राणि॑ जुहोति॒ प्रसू᳚त्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाऽव॑ रुन्धे॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दाꣳ॑सि दे॒वेभ्यो ऽपा᳚ऽक्राम॒न् न वो॑ भा॒गानि॑ ह॒व्यं ॅव॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तु-र्गृही॒तम॑-धारयन् पुरोऽनु वा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒तं जु॒होति॒ छन्दाꣳ॑स्ये॒व तत् प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं ॅव॑हन्ति॒ यं का॒मये॑त॒ - [ ]
पदपाठः (Word-by-word)
सा॒वि॒त्राणि॑ । जु॒हो॒ति॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । च॒तु॒र्गृ॒ही॒तेनेति॑ चतुः - गृ॒ही॒तेन॑ । जु॒हो॒ति॒ । चतु॑ष्पाद॒ इति॒ चतुः॑-पा॒दः॒ । प॒शवः॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । चत॑स्रः । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । छन्दाꣳ॑सि । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒न्न् । न । वः॒ । अ॒भा॒गानि॑ । ह॒व्यम् । व॒क्ष्या॒मः॒ । इति॑ । तेभ्यः॑ । ए॒तत् । च॒तु॒र्गृ॒ही॒तमिति॑ चतुः - गृ॒ही॒तम् । अ॒धा॒र॒य॒न्न् । पु॒रो॒नु॒वा॒क्या॑या॒ इति॑ पुरः - अ॒नु॒वा॒क्या॑यै । या॒ज्या॑यै । दे॒वता॑यै । व॒ष॒ट्का॒रायेति॑ वषट् - का॒राय॑ । यत् । च॒तु॒र्गृ॒ही॒तमिति॑ चतुः - गृ॒ही॒तम् । जु॒होति॑ । छन्दाꣳ॑सि । ए॒व । तत् । प्री॒णा॒ति॒ । तामि॑ । अ॒स्य॒ । प्री॒तानि॑ । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒न्ति॒ । यम् । का॒मये॑त ।