प्र॒जन॑नं॒ ज्योति॑र॒ग्नि-र्दे॒वता॑नां॒ ज्योति॑र्वि॒राट् छन्द॑सां॒ ज्योति॑र्वि॒राड् वा॒चो᳚ऽग्नौ सं ति॑ष्ठते वि॒राज॑म॒भि संप॑द्यते॒ तस्मा॒त् तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ᳚ प्रातस्सव॒नं ॅव॑हतो॒ यथा᳚ प्रा॒णश्चा॑ऽपा॒नश्च॒ द्वौ माद्ध्य॑दिंनꣳ॒॒ सव॑नं॒ ॅयथा॒ चक्षु॑श्च॒ श्रोत्रं॑ च॒ द्वौ तृ॑तीयसव॒नं ॅयथा॒ वाक् च॑ प्रति॒ष्ठा च॒ पुरु॑षसंमितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रि॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जन॑न॒मिति॑ प्र-जन॑नम् । ज्योतिः॑ । अ॒ग्निः । दे॒वता॑नाम् । ज्योतिः॑ । वि॒राडिति॑ वि - राट् । छन्द॑साम् । ज्योतिः॑ । वि॒राडिति॑ वि - राट् । वा॒चः । अ॒ग्नौ । समिति॑ । ति॒ष्ठ॒ते॒ । वि॒राज॒मिति॑ वि - राज᳚म् । अ॒भि । समिति॑ । प॒द्य॒ते॒ । तस्मा᳚त् । तत् । ज्योतिः॑ । उ॒च्य॒ते॒ । द्वौ । स्तोमौ᳚ । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । व॒ह॒तः॒ । यथा᳚ । प्रा॒ण इति॑ प्र - अ॒नः । च॒ । अ॒पा॒न इत्य॑प - अ॒नः । च॒ । द्वौ । माद्ध्य॑न्दिनम् । सव॑नम् । यथा᳚ । चक्षुः॑ । च॒ । श्रोत्र᳚म् । च॒ । द्वौ । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । यथा᳚ । वाक् । च॒ । प्र॒ति॒ष्ठेति॑ प्रति - स्था । च॒ । पुरु॑षसम्मित॒ इति॒ पुरु॑ष - स॒म्मि॒तः॒ । वै । ए॒षः । य॒ज्ञ्ः । अस्थू॑रिः ।