काण्डम् 2 - प्रश्नः 1

Kanda 2, Prasna 1

11 अनुवाकाः | 65 पञ्चाशत्

प्रश्नः 1 - Complete Audio Recording

॥

अनुवाकः 1 (6 पञ्चाशत्)

TS 2.1.1.1 TS 2.1.1.1
वा॒य॒व्यꣳ॑ श्वे॒तमा ल॑भेत॒ भूति॑कामॊ वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒भव॑त्ये॒वा-ति॑क्षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्तं॑ ॅवा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्द्धृ॒त ए॒व भूति॒मुपै॒त्य प्र॑दाहाय॒ भव॑त्ये॒व - [ ]
▶ पदपाठः (Word-by-word)
वा॒य॒व्य᳚म् । श्वे॒तम् । एति॑ । ल॒भे॒त॒ । भूति॑काम॒ इति॒ भूति॑-का॒मः॒ । वा॒युः । वै । क्षेपि॑ष्ठा । दे॒वता᳚ । वा॒युम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । भूति᳚म् । ग॒म॒य॒ति॒ । भव॑ति । ए॒व । अति॑क्षि॒प्रेत्यति॑ - क्षि॒प्रा॒ । दे॒वता᳚ । इति॑ । आ॒हुः॒ । सा । ए॒न॒म् । ई॒श्व॒रा । प्र॒दह॒ इति॑ प्र-दहः॑ । इति॑ । ए॒तम् । ए॒व । सन्त᳚म् । वा॒यवे᳚ । नि॒युत्व॑त॒ इति॑ नि-युत्व॑ते । एति॑ । ल॒भे॒त॒ । नि॒युदिति॑ नि - युत् । वै । अ॒स्य॒ । धृतिः॑ । धृ॒तः । ए॒व । भूति᳚म् । उपेति॑ । ए॒ति॒ । अप्र॑दाहा॒येत्यप्र॑ - दा॒हा॒य॒ । भव॑ति । ए॒व ।
पदसंख्या: 50
TS 2.1.1.2 TS 2.1.1.2
वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मः प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत् प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जाया॒- [ ]
▶ पदपाठः (Word-by-word)
वा॒यवे᳚ । नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । वा॒युः । वै । इ॒माः । प्र॒जा इति॑ प्र - जाः । न॒स्यो॒ता इति॑ नसि - ओ॒ताः । ने॒नी॒य॒ते॒ । वा॒युम् । ए॒व । नि॒युत्व॑न्त॒मिति॑ नि-युत्व॑न्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र - जाः । न॒स्यो॒ता इति॑ नसि - ओ॒ताः । नीति॑ । य॒च्छ॒ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । नि॒युत्व॑त॒ इति॑ नि-युत्व॑ते । भ॒व॒ति॒ । ध्रु॒वाः । ए॒व । अ॒स्मै॒ । अन॑पगा॒ इत्यन॑प - गाः॒ । क॒रो॒ति॒ । वा॒यवे᳚ । नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते । एति॑ । ल॒भे॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । प्रा॒ण इति॑ प्र- अ॒नः । वै । वा॒युः । अ॒पा॒न इत्य॑प - अ॒नः । नि॒युदिति॑ नि - युत् । प्रा॒णा॒पा॒नाविति॑ प्राण- अ॒पा॒नौ । खलु॑ । वै । ए॒तस्य॑ । प्र॒जाया॒ इति॑ प्र - जायाः᳚ ।
पदसंख्या: 50
TS 2.1.1.3 TS 2.1.1.3
अप॑ क्रामतो॒ योऽलं॑ प्र॒जायै॒ सन् प्र॒जां न वि॒न्दते॑ वा॒युमे॒व नि॒युत्व॑न्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्राणापा॒नाभ्यां᳚ प्र॒जां प्र ज॑नयति वि॒न्दते᳚ प्र॒जां ॅवा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत् प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒ दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ - [ ]
▶ पदपाठः (Word-by-word)
अपेति॑ । क्रा॒म॒तः॒ । यः । अल᳚म् । प्र॒जाया॒ इति॑ प्र - जायै᳚ । सन्न् । प्र॒जामिति॑ प्र -जाम् । न । वि॒न्दते᳚ । वा॒युम् । ए॒व । नि॒युत्व॑न्त॒मिति॑ नि - युत्व॑न्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प्रा॒णा॒पा॒नाभ्या॒मिति॑ प्राण - अ॒पा॒नाभ्या᳚म् । प्र॒जामिति॑ प्र -जाम् । प्रेति॑ । ज॒न॒य॒ति॒ । वि॒न्दते᳚ । प्र॒जामिति॑ प्र -जाम् । वा॒यवे᳚ । नि॒युत्व॑त॒ इति॑ नि-युत्व॑ते । एति॑ । ल॒भे॒त॒ । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । प्रा॒ण इति॑ प्र - अ॒नः । वै । वा॒युः । अ॒पा॒न इत्य॑प - अ॒नः । नि॒युदिति॑ नि - युत् । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । खलु॑ । वै । ए॒तस्मा᳚त् । अपेति॑ । क्रा॒म॒तः॒ । यस्य॑ । ज्योक् । आ॒मय॑ति । वा॒युम् । ए॒व । नि॒युत्व॑न्त॒मिति॑ नि - युत्व॑न्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ ।
पदसंख्या: 50
TS 2.1.1.4 TS 2.1.1.4
धावति॒ स ए॒वास्मि॑न् प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒थ् सो॑ऽकामयत प्र॒जाः प॒शून्थ् सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त् ताम॒ग्नौ प्रागृ॑ह्णा॒त् ततो॒ऽजस्तू॑प॒रः सम॑भव॒त् तꣳ स्वायै॑ दे॒वता॑या॒ आ ऽल॑भत॒ ततो॒ वै स प्र॒जाः प॒शून॑सृजत॒ यः प्र॒जाका॑मः - [ ]
▶ पदपाठः (Word-by-word)
धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । द॒धा॒ति॒ । उ॒त । यदि॑ । इ॒तासु॒रिती॒त-अ॒सुः॒ । भव॑ति । जीव॑ति । ए॒व । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । इ॒दम् । एकः॑ । आ॒सी॒त् । सः । अ॒का॒म॒य॒त॒ । प्र॒जा इति॑ प्र - जाः । प॒शून् । सृ॒जे॒य॒ । इति॑ । सः । आ॒त्मनः॑ । व॒पाम् । उदिति॑ । अ॒क्खि॒द॒त् । ताम् । अ॒ग्नौ । प्रेति॑ । अ॒गृ॒ह्णा॒त् । ततः॑ । अ॒जः । तू॒प॒रः । समिति॑ । अ॒भ॒व॒त् । तम् । स्वायै᳚ । दे॒वता॑यै । एति॑ । अ॒ल॒भ॒त॒ । ततः॑ । वै । सः । प्र॒जा इति॑ प्र - जाः । प॒शून् । अ॒सृ॒ज॒त॒ । यः । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
पदसंख्या: 50
TS 2.1.1.5 TS 2.1.1.5
प॒शुका॑मः॒ स्याथ् स ए॒तं प्रा॑जाप॒त्यम॒जं तू॑प॒रमा ल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जां प॒शून् प्रज॑नयति॒ यच्छ्‌म॑श्रु॒णस्तत् पुरु॑षाणाꣳ रू॒पं ॅयत् तू॑प॒रस्तदश्वा॑नां॒ ॅयद॒न्यतो॑द॒न् तद्-गवां॒ ॅयदव्या॑ इव श॒फास्तदवी॑नां॒ ॅयद॒जस्त-द॒जाना॑-मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान् - [ ]
▶ पदपाठः (Word-by-word)
प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । स्यात् । सः । ए॒तम् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । अ॒जम् । तू॒प॒रम् । एति॑ । ल॒भे॒त॒ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प्र॒जामिति॑ प्र-जाम् । प॒शून् । प्रेति॑ । ज॒न॒य॒ति॒ । यत् । श्म॒श्रु॒णः । तत् । पुरु॑षाणाम् । रू॒पम् । यत् । तू॒प॒रः । तत् । अश्वा॑नाम् । यत् । अ॒न्यतो॑द॒न्नित्य॒न्यतः॑ - द॒न्न् । तत् । गवा᳚म् । यत् । अव्याः᳚ । इ॒व॒ । श॒फाः । तत् । अवी॑नाम् । यत् । अ॒जः । तत् । अ॒जाना᳚म् । ए॒ताव॑न्तः । वै । ग्रा॒म्याः । प॒शवः॑ । तान् ।
पदसंख्या: 50
TS 2.1.1.6 TS 2.1.1.6
रू॒पेणै॒वाव॑ रुन्धे सोमापौ॒ष्णं त्रै॒तमा ल॑भेत प॒शुका॑मो॒द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भि जाये॑ते॒ ऊर्जं॒ पुष्टिं॑ तृ॒तीयः॑सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्रज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्र ज॑नय॒त्यौदु॑म्बरो॒ यूपो॑ ( ) भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क् प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे ॥
▶ पदपाठः (Word-by-word)
रू॒पेण॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् । त्रै॒तम् । एति॑ । ल॒भे॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । द्वौ । वै । अ॒जायै᳚ । स्तनौ᳚ । नाना᳚ । ए॒व । द्वौ । अ॒भीति॑ । जाये॑ते॒ इति॑ । ऊर्ज᳚म् । पुष्टि᳚म् । तृ॒तीयः॑ । सो॒मा॒पू॒षणा॒विति॑ सोमा - पू॒षणौ᳚ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । प॒शून् । प्रेति॑ । ज॒न॒य॒तः॒ । सोमः॑ । वै । रे॒तो॒धा इति॑ रेतः - धाः । पू॒षा । प॒शू॒नाम् । प्र॒ज॒न॒यि॒तेति॑ प्र-ज॒न॒यि॒ता । सोमः॑ । ए॒व । अ॒स्मै॒ । रेतः॑ । दधा॑ति । पू॒षा । प॒शून् । प्रेति॑ । ज॒न॒य॒ति॒ । औदु॑म्बरः । यूपः॑ ( ) । भ॒व॒ति॒ । ऊर्क् । वै । उ॒दु॒म्बरः॑ । ऊर्क् । प॒शवः॑ । ऊ॒र्जा । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । प॒शून् । अवेति॑ । रु॒न्धे॒ ॥
पदसंख्या: 63

अनुवाकः 2 (9 पञ्चाशत्)

TS 2.1.2.1 TS 2.1.2.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ् सृ॒ष्टाः परा॑चीराय॒न् ता वरु॑णमगच्छ॒न् ता अन्वै॒त् ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒थ् सो᳚ऽब्रवी॒द्-वरं॑ ॅवृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासां॒ ॅवर॒मा ऽल॑भत॒ स कृ॒ष्ण एक॑शितिपाद-भव॒द्यो वरु॑ण गृहीतः॒ स्याथ् स ए॒तं ॅवा॑रु॒णं कृ॒ष्ण-मेक॑शितिपाद॒मा-ल॑भेत॒ वरु॑ण - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । ताः । अ॒स्मा॒त् । सृ॒ष्टाः । परा॑चीः । आ॒य॒न्न् । ताः । वरु॑णम् । अ॒ग॒च्छ॒न्न् । ताः । अन्विति॑ । ऐ॒त् । ताः । पुनः॑ । अ॒या॒च॒त॒ । ताः । अ॒स्मै॒ । न । पुनः॑ । अ॒द॒दा॒त् । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णी॒ष्व॒ । अथ॑ । मे॒ । पुनः॑ । दे॒हि॒ । इति॑ । तासा᳚म् । वर᳚म् । एति॑ । अ॒ल॒भ॒त॒ । सः । कृ॒ष्णः । एक॑शितिपा॒दित्येक॑ - शि॒ति॒पा॒त् । अ॒भ॒व॒त् । यः । वरु॑णगृहीत॒ इति॒ वरु॑ण - गृ॒ही॒तः॒ । स्यात् । सः । ए॒तम् । वा॒रु॒णम् । कृ॒ष्णम् । एक॑शितिपाद॒मित्येक॑ - शि॒ति॒पा॒द॒म् । एति॑ । ल॒भे॒त॒ । वरु॑णम् ।
पदसंख्या: 50
TS 2.1.2.2 TS 2.1.2.2
-मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ ॅवरुणपा॒शान् मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्-भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रः सूर्यं॒ तम॑साऽविद्ध्य॒त तस्मै॑दे॒वाः प्राय॑श्चित्ति-मैच्छ॒न् तस्य॒ यत् प्र॑थ॒मं तमो॒ऽपाघ्न॒न्थ्‌सा कृ॒ष्णाऽवि॑रभव॒द्-यद् द्वि॒तीयꣳ॒॒ सा फल्गु॑नी॒ यत तृ॒तीयꣳ॒॒ सा ब॑ल॒क्षी यद॑द्ध्य॒स्था-द॒पाकृ॑न्त॒न्थ्‌सा ऽवि॑र्व॒शा - [ ]
▶ पदपाठः (Word-by-word)
ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । मु॒ञ्च॒ति॒ । कृ॒ष्णः । एक॑शितिपा॒दित्येक॑ - शि॒ति॒पा॒त् । भ॒व॒ति॒ । वा॒रु॒णः । हि । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सम् - ऋ॒द्धयै॒ । सुव॑र्भानु॒रिति॒ सुवः॑ - भा॒नुः॒ । आ॒सु॒रः । सूर्य᳚म् । तम॑सा । अ॒वि॒द्ध्य॒त् । तस्मै᳚ । दे॒वाः । प्राय॑श्चित्तिम् । ऐ॒च्छ॒न्न् । तस्य॑ । यत् । प्र॒थ॒मम् । तमः॑ । अ॒पाघ्न॒न्नित्य॑प - अघ्नन्न्॑ । सा । कृ॒ष्णा । अविः॑ । अ॒भ॒व॒त् । यत् । द्वि॒तीय᳚म् । सा । फल्गु॑नी । यत् । तृ॒तीय᳚म् । सा । ब॒ल॒क्षी । यत् । अ॒द्ध्य॒स्थादित्य॑धि - अ॒स्थात् । अ॒पाकृ॑न्त॒न्नित्य॑प - अकृ॑न्तन्न् । सा । अविः॑ । व॒शा ।
पदसंख्या: 50
TS 2.1.2.3 TS 2.1.2.3
सम॑भव॒त् ते दे॒वा अ॑ब्रुवन् देवप॒शुर्वा अ॒यꣳ सम॑भू॒त् कस्मा॑ इ॒ममा ल॑फ्स्यामह॒ इत्यथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॒-दजा॑ता॒ ओष॑धय॒स्तामविं॑ ॅव॒शामा॑दि॒त्येभ्यः॒ कामा॒याऽल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्य-जा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविं॑ ॅव॒शामा॑दि॒त्येभ्यः॒ कामा॒या - [ ]
▶ पदपाठः (Word-by-word)
समिति॑ । अ॒भ॒व॒त् । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । दे॒व॒प॒शुरिति॑ देव-प॒शुः । वै । अ॒यम् । समिति॑ । अ॒भू॒त् । कस्मै᳚ । इ॒मम् । एति॑ । ल॒फ्स्या॒म॒हे॒ । इति॑ । अथ॑ । वै । तर्.हि॑ । अल्पा᳚ । पृ॒थि॒वी । आसी᳚त् । अजा॑ताः । ओष॑धयः । ताम् । अवि᳚म् । व॒शाम् । आ॒दि॒त्येभ्यः॑ । कामा॑य । एति॑ । अ॒ल॒भ॒न्त॒ । ततः॑ । वै । अप्र॑थत । पृ॒थि॒वी । अजा॑यन्त । ओष॑धयः । यः । का॒मये॑त । प्रथे॑य । प॒शुभि॒रिति॑ प॒शु - भिः॒ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । जा॒ये॒य॒ । इति॑ । सः । ए॒ताम् । अवि᳚म् । व॒शाम् । आ॒दि॒त्येभ्यः॑ । कामा॑य ।
पदसंख्या: 50
TS 2.1.2.4 TS 2.1.2.4
ऽऽ*ल॑भेता ऽऽ*दि॒त्याने॒व कामꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒-सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒ता म॒ल्॒.हा आल॑भन्ताऽऽ*ग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामै॒न्द्रीꣳ श्वे॒तां बा॑र्.हस्प॒त्यां ताभि॑रे॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒स-का॑मः॒ स्यात् तस्मा॑ ए॒ता म॒॒ल्॒.हा आ ल॑भेता - [ ]
▶ पदपाठः (Word-by-word)
एति॑ । ल॒भे॒त॒ । आ॒दि॒त्यान् । ए॒व । काम᳚म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । ए॒न॒म् । प्र॒थय॑न्ति । प॒शुभि॒रिति॑ प॒शु - भिः॒ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । ज॒न॒य॒न्ति॒ । अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । तस्मै᳚ । दे॒वाः । प्राय॑श्चित्तिम् । ऐ॒च्छ॒न्न् । तस्मै᳚ । ए॒ताः । म॒ल्॒.हाः । एति॑ । अ॒ल॒भ॒न्त॒ । आ॒ग्ने॒यीम् । कृ॒ष्ण॒ग्री॒वीमिति॑ कृष्ण - ग्री॒वीम् । सꣳ॒॒हि॒तामिति॑ सं - हि॒ताम् । ऐ॒न्द्रीम् । श्वे॒ताम् । बा॒र्.॒ह॒स्प॒त्याम् । ताभिः॑ । ए॒व । अ॒स्मि॒न्न् । रुच᳚म् । अ॒द॒धुः॒ । यः । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒ताः । म॒ल्॒.हाः । एति॑ । ल॒भे॒त॒ ।
पदसंख्या: 50
TS 2.1.2.5 TS 2.1.2.5
ऽऽ*ग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामै॒न्द्रीꣳ श्वे॒तां बा॑र्.हस्प॒त्यामे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तरा᳚ग्ने॒यीं कृ॑ष्ण ग्री॒वीमा ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने सꣳहि॒तामै॒न्द्रीꣳ श॒रद्य॑परा॒ह्णे श्वे॒तां बा॑र्.हस्प॒त्यां त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वा - [ ]
▶ पदपाठः (Word-by-word)
आ॒ग्ने॒यीम् । कृ॒ष्ण॒ग्री॒वीमिति॑ कृष्ण - ग्री॒वीम् । सꣳ॒॒हि॒तामिति॑ सं - हि॒ताम् । ऐ॒न्द्रीम् । श्वे॒ताम् । बा॒र्.॒ह॒स्प॒त्याम् । ए॒ताः । ए॒व । दे॒वताः᳚ । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒ध॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । व॒सन्ता᳚ । प्रा॒तः । आ॒ग्ने॒यीम् । कृ॒ष्ण॒ग्री॒वीमिति॑ कृष्ण - ग्री॒वीम् । एति॑ । ल॒भे॒त॒ । ग्री॒ष्मे । म॒द्ध्यन्दि॑ने । सꣳ॒॒हि॒तामिति॑ सं - हि॒ताम् । ऐ॒न्द्रीम् । श॒रदि॑ । अ॒प॒रा॒ह्ण इत्य॑पर - अ॒ह्ने । श्वे॒ताम् । बा॒र्.॒ह॒स्प॒त्याम् । त्रीणि॑ । वै । आ॒दि॒त्यस्य॑ । तेजाꣳ॑सि । व॒सन्ता᳚ । प्रा॒तः । ग्री॒ष्मे । म॒द्ध्यन्दि॑ने । श॒रदि॑ । अ॒प॒रा॒ह्ण इत्य॑पर - अ॒ह्ने । याव॑न्ति । ए॒व । तेजाꣳ॑सि । तानि॑ । ए॒व ।
पदसंख्या: 50
TS 2.1.2.6 TS 2.1.2.6
-व॑ रुन्धे संॅवथ्स॒रं प॒र्याल॑भ्यन्ते संॅवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑ॅवथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यं ॅवै गर्भ॑ इन्द्रि॒यमे॒वास्मि॑न् दधति सारस्व॒तीं मे॒षीमा ल॑भेत॒ य ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन् वाचं॒ न वदे॒द्-वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न्- [ ]
▶ पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । प॒र्याल॑भ्यन्त॒ इति॑ परि - आल॑भ्यन्ते । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । वै । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । प्र॒दा॒तेति॑ प्र - दा॒ता । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ए॒व । अ॒स्मै॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । प्रेति॑ । य॒च्छ॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । ग॒र्भिण॑यः । भ॒व॒न्ति॒ । इ॒न्द्रि॒यम् । वै । गर्भः॑ । इ॒न्द्रि॒यम् । ए॒व । अ॒स्मि॒न्न् । द॒ध॒ति॒ । सा॒र॒स्व॒तीम् । मे॒षीम् । एति॑ । ल॒भे॒त॒ । यः । ई॒श्व॒रः । वा॒चः । वदि॑तोः । सन्न् । वाच᳚म् । न । वदे᳚त् । वाक् । वै । सर॑स्वती । सर॑स्वतीम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सा । ए॒व । अ॒स्मि॒न्न् ।
पदसंख्या: 50
TS 2.1.2.7 TS 2.1.2.7
वाचं॑ दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा᳚न् मनु॒ष्याः᳚ सर्वां॒ ॅवाचं॑ ॅवदन्त्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं ज्योगा॑मयाव्य॒ग्निं ॅवा ए॒तस्य॒ शरी॑रं गच्छति॒ सोमꣳ॒॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द् रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यं ब॒भ्रुमा ल॑भेताऽऽ*ग्ने॒यं कृ॒ष्णग्री॑वं प्र॒जाका॑मः॒ सोमो॒ - [ ]
▶ पदपाठः (Word-by-word)
वाच᳚म् । द॒धा॒ति॒ । प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता । वा॒चः । भ॒व॒ति॒ । अप॑न्नद॒तीत्यप॑न्न - द॒ती॒ । भ॒व॒ति॒ । तस्मा᳚त् । म॒नु॒ष्याः᳚ । सर्वा᳚म् । वाच᳚म् । व॒द॒न्ति॒ । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण-ग्री॒व॒म् । एति॑ । ल॒भे॒त॒ । सौ॒म्यम् । ब॒भ्रुम् । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । अ॒ग्निम् । वै । ए॒तस्य॑ । शरी॑रम् । ग॒च्छ॒ति॒ । सोम᳚म् । रसः॑ । यस्य॑ । ज्योक् । आ॒मय॑ति । अ॒ग्नेः । ए॒व । अ॒स्य॒ । शरी॑रम् । नि॒ष्क्री॒णातीति॑ निः - क्री॒णाति॑ । सोमा᳚त् । रस᳚म् । उ॒त । यदि॑ । इ॒तासु॒रिती॒त - अ॒सुः॒ । भव॑ति । जीव॑ति । ए॒व । सौ॒म्यम् । ब॒भ्रुम् । एति॑ । ल॒भे॒त॒ । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । सोमः॑ ।
पदसंख्या: 50
TS 2.1.2.8 TS 2.1.2.8
वै रे॑तो॒धा अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जां प्रज॑नयति वि॒न्दते᳚ प्र॒जामा᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं ॅयो ब्रा᳚ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न् तेन॑ दधाति॒ यथ् सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑ हन्ति श्वे॒तो भ॑वति॒ - [ ]
▶ पदपाठः (Word-by-word)
वै । रे॒तो॒धा इति॑ रेतः - धाः । अ॒ग्निः । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒ज॒न॒यि॒तेति॑ प्र-ज॒न॒यि॒ता । सोमः॑ । ए॒व । अ॒स्मै॒ । रेतः॑ । दधा॑ति । अ॒ग्निः । प्र॒जामिति॑ प्र-जाम् । प्रेति॑ । ज॒न॒य॒ति॒ । वि॒न्दते᳚ । प्र॒जामिति॑ प्र-जाम् । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । एति॑ । ल॒भे॒त॒ । सौ॒म्यम् । ब॒भ्रुम् । यः । ब्रा॒ह्म॒णः । वि॒द्याम् । अ॒नूच्येत्य॑नु - उच्य॑ । न । वि॒रोचे॒तेति॑ वि - रोचे॑त । यत् । आ॒ग्ने॒यः । भव॑ति । तेजः॑ । ए॒व । अ॒स्मि॒न्न् । तेन॑ । द॒धा॒ति॒ । यत् । सौ॒म्यः । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । तेन॑ । कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्ण - ग्री॒वः॒ । आ॒ग्ने॒यः । भ॒व॒ति॒ । तमः॑ । ए॒व । अ॒स्मा॒त् । अपेति॑ । ह॒न्ति॒ । श्वे॒तः । भ॒व॒ति॒ ।
पदसंख्या: 50
TS 2.1.2.9 TS 2.1.2.9
रुच॑मे॒वास्मि॑न् दधाति ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न् त्विषिं॑ दधात्या-ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुमा᳚ग्ने॒यं कृ॒ष्णग्री॑वं पुरो॒धायाꣳ॒॒ स्पर्द्ध॑मान आग्ने॒यो वै ब्रा᳚ह्म॒णः सौ॒म्यो रा॑ज॒न्यो॑ऽभितः॑ सौ॒म्यमा᳚ग्ने॒यौ भ॑वत॒-स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रं परि॑ गृह्णात्येक॒धा स॒मा वृ॑ङ्क्ते पु॒र ए॑नं दधते ॥
▶ पदपाठः (Word-by-word)
रुच᳚म् । ए॒व । अ॒स्मि॒न्न् । द॒धा॒ति॒ । ब॒भ्रुः । सौ॒म्यः । भ॒व॒ति॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । ए॒व । अ॒स्मि॒न्न् । त्विषि᳚म् । द॒धा॒ति॒ । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । एति॑ । ल॒भे॒त॒ । सौ॒म्यम् । ब॒भ्रुम् । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । पु॒रो॒धाया॒मिति॑ पुरः - धाया᳚म् । स्पर्द्ध॑मानः । आ॒ग्ने॒यः । वै । ब्रा॒ह्म॒णः । सौ॒म्यः । रा॒ज॒न्यः॑ । अ॒भितः॑ । सौ॒म्यम् । आ॒ग्ने॒यौ । भ॒व॒तः॒ । तेज॑सा । ए॒व । ब्रह्म॑णा । उ॒भ॒यतः॑ । रा॒ष्ट्रम् । परीति॑ । गृ॒ह्णा॒ति॒ । ए॒क॒धेत्ये॑क - धा । स॒मावृ॑ङ्क्त॒ इति॑ सं - आवृ॑ङ्क्ते । पु॒रः । ए॒न॒म् । द॒ध॒ते॒ ॥
पदसंख्या: 43

अनुवाकः 3 (5 पञ्चाशत्)

TS 2.1.3.1 TS 2.1.3.1
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स ए॒तं ॅविष्णु॑-र्वाम॒नम॑पश्य॒त् तꣳ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स इ॒मां ॅलो॒कान॒भ्य॑जयद्- वैष्ण॒वं ॅवा॑म॒नमा ल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमान् ॅलो॒कान॒भि ज॑यति॒ विष॑म॒ आ ल॑भेत॒ विष॑मा इव॒ हीमे लो॒काः समृ॑द्ध्या॒ इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत संग्रा॒मे - [ ]
▶ पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । ए॒षु । लो॒केषु॑ । अ॒स्प॒र्द्ध॒न्त॒ । सः । ए॒तम् । विष्णुः॑ । वा॒म॒नम् । अ॒प॒श्य॒त् । तम् । स्वायै᳚ । दे॒वता॑यै । एति॑ । अ॒ल॒भ॒त॒ । ततः॑ । वै । सः । इ॒मान् । लो॒कान् । अ॒भीति॑ । अ॒ज॒य॒त् । वै॒ष्ण॒वम् । वा॒म॒नम् । एति॑ । ल॒भे॒त॒ । स्पर्द्ध॑मानः । विष्णुः॑ । ए॒व । भू॒त्वा । इ॒मान् । लो॒कान् । अ॒भीति॑ । ज॒य॒ति॒ । विष॑म॒ इति॒ वि - स॒मे॒ । एति॑ । ल॒भे॒त॒ । विष॑मा॒ इति॒ वि - स॒माः॒ । इ॒व॒ । हि । इ॒मे । लो॒काः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । इन्द्रा॑य । म॒न्यु॒मत॒ इति॑ मन्यु - मते᳚ । मन॑स्वते । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे ।
पदसंख्या: 50
TS 2.1.3.2 TS 2.1.3.2
संॅय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तꣳ स॑ग्रां॒ममिन्द्रा॑य म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स जा॒तान् प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेनै॒ - [ ]
▶ पदपाठः (Word-by-word)
संॅय॑त्त॒ इति॒ सं - य॒त्ते॒ । इ॒न्द्रि॒येण॑ । वै । म॒न्युना᳚ । मन॑सा । स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् । ज॒य॒ति॒ । इन्द्र᳚म् । ए॒व । म॒न्यु॒मन्त॒मिति॑ मन्यु - मन्त᳚म् । मन॑स्वन्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । म॒न्युम् । मनः॑ । द॒धा॒ति॒ । जय॑ति । तम् । स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् । इन्द्रा॑य । म॒रुत्व॑ते । पृ॒श्नि॒स॒क्थमिति॑ पृश्नि - स॒क्थम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । इन्द्र᳚म् । ए॒व । म॒रुत्व॑न्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । स॒जा॒तानिति॑ स - जा॒तान् । प्रेति॑ । य॒च्छ॒ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । यत् । ऋ॒ष॒भः । तेन॑ ।
पदसंख्या: 50
TS 2.1.3.3 TS 2.1.3.3
-न्द्रो यत् पृश्नि॒स्तेन॑ मारु॒तः समृ॑द्ध्यै प॒श्चात् पृ॑श्निस॒क्थो भ॑वति पश्चादन्व-वसा॒यिनी॑मे॒वास्मै॒ विशं॑ करोति सौ॒म्यं ब॒भ्रुमा ल॑भे॒तान्न॑कामः सौ॒म्यं ॅवा अन्नꣳ॒॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै सौ॒म्यं ब॒भ्रुमा ल॑भेत॒ यमलꣳ॑ - [ ]
▶ पदपाठः (Word-by-word)
ऐ॒न्द्रः । यत् । पृश्निः॑ । तेन॑ । मा॒रु॒तः । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । प॒श्चात् । पृ॒श्नि॒स॒क्थ इति॑ पृश्नि - स॒क्थः । भ॒व॒ति॒ । प॒श्चा॒द॒न्व॒व॒सा॒यिनी॒मिति॑ पश्चात् - अ॒न्व॒व॒सा॒यिनी᳚म् । ए॒व । अ॒स्मै॒ । विश᳚म् । क॒रो॒ति॒ । सौ॒म्यम् । ब॒भ्रुम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । सौ॒म्यम् । वै । अन्न᳚म् । सोम᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । ब॒भ्रुः । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । सौ॒म्यम् । ब॒भ्रुम् । एति॑ । ल॒भे॒त॒ । यम् । अल᳚म् ।
पदसंख्या: 50
TS 2.1.3.4 TS 2.1.3.4
रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे᳚थ् सौ॒म्यं ॅवै रा॒ज्य सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑नꣳ रा॒ज्यं न॑मति ब॒भ्रुर्भ॑वत्ये॒तद् वै सोम॑स्य रू॒पꣳ समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा - [ ]
▶ पदपाठः (Word-by-word)
रा॒ज्याय॑ । सन्त᳚म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्यु॑प-नमे᳚त् । सौ॒म्यम् । वै । रा॒ज्यम् । सोम᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । रा॒ज्यम् । प्रेति॑ । य॒च्छ॒ति॒ । उपेति॑ । ए॒न॒म् । रा॒ज्यम् । न॒म॒ति॒ । ब॒भ्रुः । भ॒व॒ति॒ । ए॒तत् । वै । सोम॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । इन्द्रा॑य । वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरे᳚ । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । ग॒तश्री॒रिति॑ ग॒त - श्रीः॒ । प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ । पा॒प्मान᳚म् । ए॒व । वृ॒त्रम् । ती॒र्त्वा । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒च्छ॒ति॒ । इन्द्रा॑य । अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति - घ्ने । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ ।
पदसंख्या: 50
TS 2.1.3.5 TS 2.1.3.5
ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात् पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वा- भि॑माति॒हनꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑तिं॒ प्रणु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत॒ यमलꣳ॑ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिणꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ वज्रं॒ प्र य॑च्छति॒ स ए॑नं॒ ( ) ॅवज्रो॒ भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यं न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै ॥
▶ पदपाठः (Word-by-word)
ल॒भे॒त॒ । यः । पा॒प्मना᳚ । गृ॒ही॒तः । स्यात् । पा॒प्मा । वै । अ॒भिमा॑ति॒रित्य॒भि - मा॒तिः॒ । इन्द्र᳚म् । ए॒व । अ॒भि॒मा॒ति॒हन॒मित्य॑भिमाति - हन᳚म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मा॒त् । पा॒प्मान᳚म् । अ॒भिमा॑ति॒मित्य॒भि - मा॒ति॒म् । प्रेति॑ । नु॒द॒ते॒ । इन्द्रा॑य । व॒ज्रिणे᳚ । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । यम् । अल᳚म् । रा॒ज्याय॑ । सन्त᳚म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । इन्द्र᳚म् । ए॒व । व॒ज्रिण᳚म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । वज्र᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । सः । ए॒न॒म् ( ) । वज्रः॑ । भूत्यै᳚ । इ॒न्धे॒ । उपेति॑ । ए॒न॒म् । रा॒ज्यम् । न॒म॒ति॒ । ल॒लामः॑ । प्रा॒शृ॒ङ्गः । भ॒व॒ति॒ । ए॒तत् । वै । वज्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ॥
पदसंख्या: 65

अनुवाकः 4 (8 पञ्चाशत्)

TS 2.1.4.1 TS 2.1.4.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒तां दश॑र्.षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒तां दश॑र्.षभा॒मा ल॑भेता॒-मुमे॒वाऽऽ*दि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तस्त्रीन् ॅल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने॒ - [ ]
▶ पदपाठः (Word-by-word)
अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । तस्मै᳚ । दे॒वाः । प्राय॑श्चित्तिम् । ऐ॒च्छ॒न्न् । तस्मै᳚ । ए॒ताम् । दश॑र्.षभा॒मिति॒ दश॑ - ऋ॒ष॒भा॒म् । एति॑ । अ॒ल॒भ॒न्त॒ । तया᳚ । ए॒व । अ॒स्मि॒न्न् । रुच᳚म् । अ॒द॒धुः॒ । यः । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒ताम् । दश॑र्.षभा॒मिति॒ दश॑ - ऋ॒ष॒भा॒म् । एति॑ । ल॒भे॒त॒ । अ॒मुम् । ए॒व । आ॒दि॒त्यम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । व॒सन्ता᳚ । प्रा॒तः । त्रीन् । ल॒लामान्॑ । एति॑ । ल॒भे॒त॒ । ग्री॒ष्मे । म॒द्ध्यन्दि॑ने ।
पदसंख्या: 50
TS 2.1.4.2 TS 2.1.4.2
त्रीञ्छि॑ति पृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न् त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒ आ ल॑भ्यन्ते-ऽभि पू॒र्वमे॒वास्मि॒न् तेजो॑ दधाति संॅवथ्स॒रं प॒र्याल॑भ्यन्ते संॅवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑ॅवथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति संॅवथ्स॒रस्य॑ प॒रस्ता᳚त् प्राजाप॒त्यं कद्रु॒ - [ ]
▶ पदपाठः (Word-by-word)
त्रीन् । शि॒ति॒पृ॒ष्ठानिति॑ शिति - पृ॒ष्ठान् । श॒रदि॑ । अ॒प॒रा॒ह्ण इत्य॑पर-अ॒ह्ने । त्रीन् । शि॒ति॒वारा॒निति॑ शिति - वारान्॑ । त्रीणि॑ । वै । आ॒दि॒त्यस्य॑ । तेजाꣳ॑सि । व॒सन्ता᳚ । प्रा॒तः । ग्री॒ष्मे । म॒द्ध्यन्दि॑ने । श॒रदि॑ । अ॒प॒रा॒ह्ण इत्य॑पर-अ॒ह्ने । याव॑न्ति । ए॒व । तेजाꣳ॑सि । तानि॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । त्रय॑स्त्रय॒ इति॒ त्रयः॑-त्र॒यः॒ । एति॑ । ल॒भ्य॒न्ते॒ । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । ए॒व । अ॒स्मि॒न्न् । तेजः॑ । द॒धा॒ति॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । प॒र्याल॑भ्यन्त॒ इति॑ परि-आल॑भ्यन्ते । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । प्र॒दा॒तेति॑ प्र - दा॒ता । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ए॒व । अ॒स्मै॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । प्रेति॑ । य॒च्छ॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । प॒रस्ता᳚त् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । कद्रु᳚म् ।
पदसंख्या: 50
TS 2.1.4.3 TS 2.1.4.3
-मा ल॑भेत प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒याद्-दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णꣳ श्या॒ममा ल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिन् ॅलो॒के᳚ऽस्पर्द्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यं ॅवी॒र्य॑मयुवत॒ तद्य॒मस्य॑ - [ ]
▶ पदपाठः (Word-by-word)
एति॑ । ल॒भे॒त॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सर्वाः᳚ । दे॒वताः᳚ । दे॒वता॑सु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । यदि॑ । बि॒भी॒यात् । दु॒श्चर्मेति॑ दुः-चर्मा᳚ । भ॒वि॒ष्या॒मि॒ । इति॑ । सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् । श्या॒मम् । एति॑ । ल॒भे॒त॒ । सौ॒म्यः । वै । दे॒वत॑या । पुरु॑षः । पौ॒ष्णाः । प॒शवः॑ । स्वया᳚ । ए॒व । अ॒स्मै॒ । दे॒वत॑या । प॒शुभि॒रिति॑ प॒शु - भिः॒ । त्वच᳚म् । क॒रो॒ति॒ । न । दु॒श्चर्मेति॑ दुः - चर्मा᳚ । भ॒व॒ति॒ । दे॒वाः । च॒ । वै । य॒मः । च॒ । अ॒स्मिन्न् । लो॒के । अ॒स्प॒र्ध॒न्त॒ । सः । य॒मः । दे॒वाना᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अ॒यु॒व॒त॒ । तत् । य॒मस्य॑ ।
पदसंख्या: 50
TS 2.1.4.4 TS 2.1.4.4
यम॒त्वं ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्-यद्-व॒यꣳ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ् स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वै᳚ष्णावरु॒णीं ॅव॒शामा-ऽल॑भन्तै॒न्द्रमु॒क्षाण॒तं ॅवरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒-वास्ये᳚न्द्रि॒यम॑-वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स स्पर्द्ध॑मानो वैष्णावरु॒णीं - [ ]
▶ पदपाठः (Word-by-word)
य॒म॒त्वमिति॑ यम - त्वम् । ते । दे॒वाः । अ॒म॒न्य॒न्त॒ । य॒मः । वै । इ॒दम् । अ॒भू॒त् । यत् । व॒यम् । स्मः । इति॑ । ते । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒वन्न् । सः । ए॒तौ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । आ॒त्मनः॑ । उ॒क्ष॒व॒शावित्यु॑क्ष - व॒शौ । निरिति॑ । अ॒मि॒मी॒त॒ । ते । दे॒वाः । वै॒ष्णा॒व॒रु॒णीमिति॑ वैष्णा-व॒रु॒णीम् । व॒शाम् । एति॑ । अ॒ल॒भ॒न्त॒ । ऐ॒न्द्रम् । उ॒क्षाण᳚म् । तम् । वरु॑णेन । ए॒व । ग्रा॒ह॒यि॒त्वा । विष्णु॑ना । य॒ज्ञेन॑ । प्रेति॑ । अ॒नु॒द॒न्त॒ । ऐ॒न्द्रेण॑ । ए॒व । अ॒स्य॒ । इ॒न्द्रि॒यम् । अ॒वृ॒ञ्ज॒त॒ । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । वै॒ष्णा॒व॒रु॒णीमिति॑ वैष्णा - व॒रु॒णीम् ।
पदसंख्या: 50
TS 2.1.4.5 TS 2.1.4.5
ॅव॒शामा ल॑भेतै॒न्द्रमु॒क्षाणं॒ ॅवरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ऐ॒न्द्रेणै॒वास्ये᳚न्द्रि॒यं ॅवृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒न् तं ॅवृ॒त्रो ह॒तः षो॑ड॒शभि॑-र्भो॒गैर॑सिना॒त् तस्य॑ वृ॒त्रस्य॑ शीर्.ष॒तो गाव॒ उदा॑य॒न् ता वै॑दे॒ह्यो॑ऽभव॒न् तासा॑मृष॒भो ज॒घनेऽनूदै॒त् तमिन्द्रो॑ - [ ]
▶ पदपाठः (Word-by-word)
व॒शाम् । एति॑ । ल॒भे॒त॒ । ऐ॒न्द्रम् । उ॒क्षाण᳚म् । वरु॑णेन । ए॒व । भ्रातृ॑व्यम् । ग्रा॒ह॒यि॒त्वा । विष्णु॑ना । य॒ज्ञेन॑ । प्रेति॑ । नु॒द॒ते॒ । ऐ॒न्द्रेण॑ । ए॒व । अ॒स्य॒ । इ॒न्द्रि॒यम् । वृ॒ङ्क्ते॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न्न् । तम् । वृ॒त्रः । ह॒तः । षो॒ड॒शभि॒रिति॑ षोड॒श - भिः॒ । भो॒गैः । अ॒सि॒ना॒त् । तस्य॑ । वृ॒त्रस्य॑ । शी॒र्.॒ष॒तः । गावः॑ । उदिति॑ । आ॒य॒न्न् । ताः । वै॒दे॒ह्यः॑ । अ॒भ॒व॒न्न् । तासा᳚म् । ऋ॒ष॒भः । ज॒घने᳚ । अनु॑ । उदिति॑ । ऐ॒त् । तम् । इन्द्रः॑ ।
पदसंख्या: 50
TS 2.1.4.6 TS 2.1.4.6
ऽचाय॒थ् सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒ इति॒ स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भतै॒न्द्रमृ॑ष॒भं तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑ सृतः षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणे᳚न्द्रि॒य- मा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तः स्याथ् स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेतै॒न्द्रमृ॑ष॒भ-म॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः - [ ]
▶ पदपाठः (Word-by-word)
अ॒चा॒य॒त् । सः । अ॒म॒न्य॒त॒ । यः । वै । इ॒मम् । आ॒लभे॒तेत्या᳚ - लभे॑त । मुच्ये॑त । अ॒स्मात् । पा॒प्मनः॑ । इति॑ । सः । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । एति॑ । अ॒ल॒भ॒त॒ । ऐ॒न्द्रम् । ऋ॒ष॒भम् । तस्य॑ । अ॒ग्निः । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उप॑सृत॒ इत्युप॑ - सृ॒तः॒ । षो॒ड॒श॒धेति॑ षोडश-धा । वृ॒त्रस्य॑ । भो॒गान् । अपीति॑ । अ॒द॒ह॒त् । ऐ॒न्द्रेण॑ । इ॒न्द्रि॒यम् । आ॒त्मन्न् । अ॒ध॒त्त॒ । यः । पा॒प्मना᳚ । गृ॒ही॒तः । स्यात् । सः । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । एति॑ । ल॒भे॒त॒ । ऐ॒न्द्रम् । ऋ॒ष॒भम् । अ॒ग्निः । ए॒व । अ॒स्य॒ । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उप॑सृत॒ इत्युप॑ - सृ॒तः॒ ।
पदसंख्या: 50
TS 2.1.4.7 TS 2.1.4.7
पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणे᳚न्द्रि॒यमा॒त्मन् ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्यां᳚ धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धो॒ ऽनयो॒र्॒॒.हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ते ए॒वैनं॑ प्रति॒ष्ठां ग॑मयतः॒ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रं ॅयो ज्योग॑परुद्धः॒ समृ॑द्ध्यै वाय॒व्यं॑ - [ ]
▶ पदपाठः (Word-by-word)
पा॒प्मान᳚म् । अपीति॑ । द॒ह॒ति॒ । ऐ॒न्द्रेण॑ । इ॒न्द्रि॒यम् । आ॒त्मन्न् । ध॒त्ते॒ । मुच्य॑ते । पा॒प्मनः॑ । भव॑ति । ए॒व । द्या॒वा॒पृ॒थि॒व्या॑मिति॑ द्यावा - पृ॒थि॒व्या᳚म् । धे॒नुम् । एति॑ । ल॒भे॒त॒ । ज्योग॑परुद्ध॒ इति॒ ज्योक् - अ॒प॒रु॒द्धः॒ । अ॒नयोः᳚ । हि । वै । ए॒षः । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । अथ॑ । ए॒षः । ज्योक् । अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते इति॑ । ए॒व । ए॒न॒म् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒म॒य॒तः॒ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । प॒र्या॒रिणी᳚ । भ॒व॒ति॒ । प॒र्या॒रि । इ॒व॒ । हि । ए॒तस्य॑ । रा॒ष्ट्रम् । यः । ज्योग॑परुद्ध॒ इति॒ ज्योक् - अ॒प॒रु॒द्धः॒ । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वा॒य॒व्य᳚म् ।
पदसंख्या: 50
TS 2.1.4.8 TS 2.1.4.8
ॅव॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र्व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इ॒मां ॅलो॒कान्. विशं॒ प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्तिभुञ्ज॒त्ये॑नं॒ ॅविडुप॑तिष्ठते ॥
▶ पदपाठः (Word-by-word)
व॒थ्सम् । एति॑ । ल॒भे॒त॒ । वा॒युः । वै । अ॒नयोः᳚ । व॒थ्सः । इ॒मे । वै । ए॒तस्मै᳚ । लो॒काः । अप॑शुष्का॒ इत्यप॑ - शु॒ष्काः॒ । विट् । अप॑शु॒ष्केत्यप॑ - शु॒ष्का॒ । अथ॑ । ए॒षः । ज्योक् । अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ । वा॒युम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । इ॒मान् । लो॒कान् । विश᳚म् । प्रेति॑ । दा॒प॒य॒ति॒ । प्रेति॑ । अ॒स्मै॒ । इ॒मे । लो॒काः । स्नु॒व॒न्ति॒ । भु॒ञ्ज॒ती । ए॒न॒म् । विट् । उपेति॑ । ति॒ष्ठ॒ते॒ ॥
पदसंख्या: 42

अनुवाकः 5 (7 पञ्चाशत्)

TS 2.1.5.1 TS 2.1.5.1
इन्द्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒थ् स य उ॑त्त॒मः प॒शुरासी॒त् तं पृ॒ष्ठं प्रति॑ स॒गृंह्योद॑क्खिद॒त् तꣳ स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्थ् स उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्याथ् स ए॒तमै॒न्द्रमु॑न्न॒तमा ल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्रय॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तो - [ ]
▶ पदपाठः (Word-by-word)
इन्द्रः॑ । व॒लस्य॑ । बिल᳚म् । अपेति॑ । औ॒र्णो॒त् । सः । यः । उ॒त्त॒म इत्यु॑त् - त॒मः । प॒शुः । आसी᳚त् । तम् । पृ॒ष्ठम् । प्रतीति॑ । स॒गृंह्येति॑ सं - गृह्य॑ । उदिति॑ । अ॒क्खि॒द॒त् । तम् । स॒हस्र᳚म् । प॒शवः॑ । अनु॑ । उदिति॑ । आ॒य॒न्न् । सः । उ॒न्न॒त इत्यु॑त् - न॒तः । अ॒भ॒व॒त् । यः । प॒शुका॑म॒ इति॑ प॒शु-का॒मः॒ । स्यात् । सः । ए॒तम् । ऐ॒न्द्रम् । उ॒न्न॒तमित्यु॑त्-न॒तम् । एति॑ । ल॒भे॒त॒ । इन्द्र᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒शून् । प्रेति॑ । य॒च्छ॒ति॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । उ॒न्न॒त इत्यु॑त् - न॒तः ।
पदसंख्या: 49
TS 2.1.5.2 TS 2.1.5.2
भ॑वति साह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒ व प॒शूनव॑ रुन्धे य॒दा स॒हस्रं॑ प॒शून् प्रा᳚प्नु॒यादथ॑ वैष्ण॒वं ॅवा॑म॒नमा ल॑भेतै॒तस्मि॒न्. वै तथ् स॒हस्र॒मद्ध्य॑तिष्ठ॒त् तस्मा॑दे॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒ को॑ऽर्.हति स॒हस्रं॑ प॒शून् प्राप्तु॒मित्या॑हु- रहोरा॒त्राण्ये॒व स॒हस्रꣳ॑ स॒म्पाद्याऽऽ*ल॑भेत प॒शवो॒ - [ ]
▶ पदपाठः (Word-by-word)
भ॒व॒ति॒ । सा॒ह॒स्री । वै । ए॒षा । ल॒क्ष्मी । यत् । उ॒न्न॒त इत्यु॑त् - न॒तः । ल॒क्ष्मिया᳚ । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । य॒दा । स॒हस्र᳚म् । प॒शून् । प्रा॒प्नु॒यादिति॑ प्र - आ॒प्नु॒यात् । अथ॑ । वै॒ष्ण॒वम् । वा॒म॒नम् । एति॑ । ल॒भे॒त॒ । ए॒तस्मिन्न्॑ । वै । तत् । स॒हस्र᳚म् । अधीति॑ । अ॒ति॒ष्ठ॒त् । तस्मा᳚त् । ए॒षः । वा॒म॒नः । समी॑षित॒ इति॒ सं - ई॒षि॒तः॒ । प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । ए॒व । प्रजा॑तेभ्य॒ इति॒ प्र - जा॒ते॒भ्यः॒ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । द॒धा॒ति॒ । कः । अ॒र्॒.ह॒ति॒ । स॒हस्र᳚म् । प॒शून् । प्राप्तु॒मिति॒ प्र - आ॒प्तु॒म् । इति॑ । आ॒हुः॒ । अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । ए॒व । स॒हस्र᳚म् । स॒म्पाद्येति॑ सं - पाद्य॑ । एति॑ । ल॒भे॒त॒ । प॒शवः॑ ।
पदसंख्या: 50
TS 2.1.5.3 TS 2.1.5.3
वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान् प्रति॒ष्ठां ग॑मय॒-त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑बाधन्ते॒ योऽलं॑ प्र॒जायै॒ सन् प्र॒जां न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्-भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयन्ति वि॒न्दते᳚ - [ ]
▶ पदपाठः (Word-by-word)
वै । अ॒हो॒रा॒त्राणीइत्य॑हः - रा॒त्राणि॑ । प॒शून् । ए॒व । प्रजा॑ता॒निति॒ प्र - जा॒ता॒न् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒म॒य॒ति॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । वे॒हत᳚म् । एति॑ । ल॒भे॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । ओष॑धयः । वै । ए॒तम् । प्र॒जाया॒ इति॑ प्र - जायै᳚ । परीति॑ । बा॒ध॒न्ते॒ । यः । अल᳚म् । प्र॒जाया॒ इति॑ प्र - जायै᳚ । सन्न् । प्र॒जामिति॑ प्र-जाम् । न । वि॒न्दते᳚ । ओष॑धयः । खलु॑ । वै । ए॒तस्यै᳚ । सूतु᳚म् । अपीति॑ । घ्न॒न्ति॒ । या । वे॒हत् । भव॑ति । ओष॑धीः । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः । ए॒व । अ॒स्मै॒ । स्वात् । योनेः᳚ । प्र॒जामिति॑ प्र - जाम् । प्रेति॑ । ज॒न॒य॒न्ति॒ । वि॒न्दते᳚ । 31(50)
TS 2.1.5.4 TS 2.1.5.4
प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त् पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वं ॅवेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒ सद्द॑द॒ती-त्यै॒न्द्रीꣳ सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒ भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोतीन्द्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑व॒ - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जामिति॑ प्र - जाम् । आपः॑ । वै । ओष॑धयः । अस॑त् । पुरु॑षः । आपः॑ । ए॒व । अ॒स्मै॒ । अस॑तः । सत् । द॒द॒ति॒ । तस्मा᳚त् । आ॒हुः॒ । यः । च॒ । ए॒वम् । वेद॑ । यः । च॒ । न । आपः॑ । तु । वाव । अस॑तः । सत् । द॒द॒ति॒ । इति॑ । ऐ॒न्द्रीम् । सू॒तव॑शा॒मिति॑ सू॒त - व॒शा॒म् । एति॑ । ल॒भे॒त॒ । भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ । अजा॑तः । वै । ए॒षः । यः । अल᳚म् । भूत्यै᳚ । सन्न् । भूति᳚म् । न । प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ । इन्द्र᳚म् । खलु॑ । वै । ए॒षा । सू॒त्वा । व॒शा । अ॒भ॒व॒त् ।
पदसंख्या: 50
TS 2.1.5.5 TS 2.1.5.5
-दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒व यꣳ सू॒त्वा व॒शा स्यात् तमै॒न्द्रमे॒वाऽऽ* ल॑भेतै॒तद्वाव तदि॑न्द्रि॒यꣳ सा॒क्षादे॒वेन्द्रि॒यमव॑ रुन्ध ऐन्द्रा॒ग्नं पु॑नरुथ् सृ॒ष्टमा ल॑भेत॒ य आ तृ॒तीया॒त् पुरु॑षा॒थ् सोमं॒ न पिबे॒द्-विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा᳚ह्म॒णः सन्ना - [ ]
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । भूति᳚म् । ग॒म॒य॒ति॒ । भव॑ति । ए॒व । यम् । सू॒त्वा । व॒शा । स्यात् । तम् । ऐ॒न्द्रम् । ए॒व । एति॑ । ल॒भे॒त॒ । ए॒तत् । वाव । तत् । इ॒न्द्रि॒यम् । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । इ॒न्द्रि॒यम् । अवेति॑ । रु॒न्धे॒ । ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । पु॒न॒रु॒थ्सृ॒ष्टमिति॑ पुनः - उ॒थ्सृ॒ष्टम् । एति॑ । ल॒भे॒त॒ । यः । एति॑ । तृ॒तीया᳚त् । पुरु॑षात् । सोम᳚म् । न । पिबे᳚त् । विच्छि॑न्न॒ इति॒ वि - छि॒न्नः॒ । वै । ए॒तस्य॑ । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । यः । ब्रा॒ह्म॒णः । सन्न् । एति॑ ।
पदसंख्या: 50
TS 2.1.5.6 TS 2.1.5.6
तृ॒तीया॒त् पुरु॑षा॒थ् सोमं॒ न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं ॅवै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒ संत॑नोति पुनरुथ्‌सृ॒ष्टो भ॑वति पुनरुथ्‌सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ - [ ]
▶ पदपाठः (Word-by-word)
तृ॒तीया᳚त् । पुरु॑षात् । सोम᳚म् । न । पिब॑ति । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । प्रेति॑ । य॒च्छ॒तः॒ । उपेति॑ । ए॒न॒म् । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । न॒म॒ति॒ । यत् । ऐ॒न्द्रः । भव॑ति । इ॒न्द्रि॒यम् । वै । सो॒म॒पी॒थ इति॑ सोम-पी॒थः । इ॒न्द्रि॒यम् । ए॒व । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । अवेति॑ । रु॒न्धे॒ । यत् । आ॒ग्ने॒यः । भव॑ति । आ॒ग्ने॒यः । वै । ब्रा॒ह्म॒णः । स्वाम् । ए॒व । दे॒वता᳚म् । अनु॑ । समिति॑ । त॒नो॒ति॒ । पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः-उ॒थ्सृ॒ष्टः । भ॒व॒ति॒ । पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः । इ॒व॒ । हि । ए॒तस्य॑ ।
पदसंख्या: 50
TS 2.1.5.7 TS 2.1.5.7
सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यं तू॑प॒रमा ल॑भेता-भि॒चर॒न् ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒-मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत् तू॑प॒रः समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णात्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो ( ) भि॒नत्त्ये॒वैनं᳚ ॥
▶ पदपाठः (Word-by-word)
सो॒म॒पी॒थ इति॑ सोम - पी॒थः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । ब्रा॒ह्म॒ण॒स्प॒त्यमिति॑ ब्राह्मणः - प॒त्यम् । तू॒प॒रम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । ब्रह्म॑णः । पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तस्मै᳚ । ए॒व । ए॒न॒म् । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । तू॒प॒रः । भ॒व॒ति॒ । क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ । वै । ए॒षा । ल॒क्ष्मी । यत् । तू॒प॒रः । समृ॑द्ध्य॒ इति॒ सं - ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ । ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः ( ) । भि॒नत्ति॑ । ए॒व । ए॒न॒म् ॥
पदसंख्या: 53

अनुवाकः 6 (5 पञ्चाशत्)

TS 2.1.6.1 TS 2.1.6.1
बा॒र्॒.ह॒स्प॒त्यꣳ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठꣳ स॑मा॒नानाꣳ॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ पृ॒ष्ठꣳ स॑मा॒नानां᳚ करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्.हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्णꣳ श्या॒ममा ल॑भे॒तान्न॑का॒मोऽन्नं॒ ॅवै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ - [ ]
▶ पदपाठः (Word-by-word)
बा॒र्.॒ह॒स्प॒त्यम् । शि॒ति॒पृ॒ष्ठमिति॑ शिति - पृ॒ष्ठम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । यः । का॒मये॑त । पृ॒ष्ठम् । स॒मा॒नाना᳚म् । स्या॒म् । इति॑ । बृह॒स्पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । पृ॒ष्ठम् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । भ॒व॒ति॒ । बा॒र्.॒ह॒स्प॒त्यः । हि । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । पौ॒ष्णम् । श्या॒मम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । अन्न᳚म् । वै । पू॒षा । पू॒षण᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
TS 2.1.6.2 TS 2.1.6.2
अन्नं॒ प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै मारु॒तं पृश्नि॒मा ल॑भे॒ताऽन्न॑-का॒मोऽन्नं॒ ॅवै म॒रुतो॑म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द‌ए॒व भ॑वति॒ पृश्नि॑ र्भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमा ल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व - [ ]
▶ पदपाठः (Word-by-word)
अन्न᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । श्या॒मः । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । मा॒रु॒तम् । पृश्नि᳚म् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । अन्न᳚म् । वै । म॒रुतः॑ । म॒रुतः॑ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । पृश्निः॑ । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । ऐ॒न्द्रम् । अ॒रु॒णम् । एति॑ । ल॒भे॒त॒ । इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ । इन्द्र᳚म् । ए॒व ।
पदसंख्या: 50
TS 2.1.6.3 TS 2.1.6.3
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚न् भवत्ये॒तद्वा इन्द्र॑स्य रू॒पꣳ समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष- [ ]
▶ पदपाठः (Word-by-word)
स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । द॒धा॒ति॒ । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ । अ॒रु॒णः । भ्रूमा॒निति॒ भ्रू - मा॒न् । भ॒व॒ति॒ । ऐ॒तत् । वै । इन्द्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । सा॒वि॒त्रम् । उ॒प॒द्ध्व॒स्तमित्यु॑प - ध्व॒स्तम् । एति॑ । ल॒भे॒त॒ । स॒निका॑म॒ इति॑ स॒नि - का॒मः॒ । स॒वि॒ता । वै । प्र॒स॒वाना॒मिति॑ प्र-स॒वाना᳚म् । ई॒शे॒ । स॒वि॒तार᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । स॒निम् । प्रेति॑ । सु॒व॒ति॒ । दान॑कामा॒ इति॒ दान॑-का॒माः॒ । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । भ॒व॒न्ति॒ । उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः । भ॒व॒ति॒ । सा॒वि॒त्रः । हि । ए॒षः ।
पदसंख्या: 50
TS 2.1.6.4 TS 2.1.6.4
दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भे॒ताऽन्न॑कामोवैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वतिबहुरू॒पꣳ ह्यन्नꣳ॒॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ - [ ]
▶ पदपाठः (Word-by-word)
दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । वै । अन्न᳚म् । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । ब॒हु॒रू॒प इति॑ बहु-रू॒पः । भ॒व॒ति॒ । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । हि । अन्न᳚म् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । वै । स॒जा॒ता इति॑ स - जा॒ताः । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
TS 2.1.6.5 TS 2.1.6.5
सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚(1॒) ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚त् प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तस्मा॒थ् स्रामा᳚न्-मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ ( ) -ष दे॒वत॑या॒ समृ॑द्ध्यै ॥
▶ पदपाठः (Word-by-word)
स॒जा॒तानिति॑ स-जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । ब॒हु॒रू॒प इति॑ बहु - रू॒पः । भ॒व॒ति॒ । ब॒हु॒दे॒व॒त्य॑ इति॑ बहु-दे॒व॒त्यः॑ । हि । ए॒षः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । प्र॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । तू॒प॒रम् । एति॑ । ल॒भे॒त॒ । यस्य॑ । अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् । इ॒व॒ । ज्योक् । आ॒मये᳚त् । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । पुरु॑षः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । खलु॑ । वै । तस्य॑ । वे॒द॒ । यस्य॑ । अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् । इ॒व॒ । ज्योक् । आ॒मय॑ति । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । तस्मा᳚त् । स्रामा᳚त् । मु॒ञ्च॒ति॒ । तू॒प॒रः । भ॒व॒ति॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा-प॒त्यः । हि ( ) । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ॥
पदसंख्या: 53

अनुवाकः 7 (7 पञ्चाशत्)

TS 2.1.7.1 TS 2.1.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त् तस्यै॒ रसः॒ परा॑पत॒त् तं बृह॒स्पति॒ रुपा॑ऽगृह्णा॒थ्‌सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयः॑ प॒राऽप॑त॒त् तं मि॒त्रावरु॑णा॒-वुपा॑गृह्णीताꣳ॒॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्-यस्तृ॒तीयः॑ प॒राप॑त॒त् तं ॅविश्वे॑ दे॒वा उपा॑गृह्ण॒न्थ् सा ब॑हुरू॒पा व॒शा भ॑व॒द्य-श्च॑तु॒र्त्थः प॒राप॑त॒थ् स पृ॑थि॒वीं प्राऽवि॑श॒त् तं बृह॒स्पति॑र॒भ्य॑ - [ ]
▶ पदपाठः (Word-by-word)
व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । वै । गा॒य॒त्रि॒यै । शिरः॑ । अ॒च्छि॒न॒त् । तस्यै᳚ । रसः॑ । परेति॑ । अ॒प॒त॒त् । तम् । बृह॒स्पतिः॑ । उपेति॑ । अ॒गृ॒ह्णा॒त् । सा । शि॒ति॒पृ॒ष्ठेति॑ शिति - प॒ष्ठा । व॒शा । अ॒भ॒व॒त् । यः । द्वि॒तीयः॑ । प॒राप॑त॒दिति॑ परा - अप॑तत् । तम् । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । उपेति॑ । अ॒गृ॒ह्णी॒ता॒म् । सा । द्वि॒रू॒पेति॑ द्वि - रू॒पा । व॒शा । अ॒भ॒व॒त् । यः । तृ॒तीयः॑ । प॒राप॑त॒दिति॑ परा - अप॑तत् । तम् । विश्वे᳚ । दे॒वाः । उपेति॑ । अ॒गृ॒ह्ण॒न्न् । सा । ब॒हु॒रू॒पेति॑ बहु - रू॒पा । व॒शा । अ॒भ॒व॒त् । यः । च॒तु॒र्थः । प॒राप॑त॒दिति॑ परा - अप॑तत् । सः । पृ॒थि॒वीम् । प्रेति॑ । अ॒वि॒श॒त् । तम् । बृह॒स्पतिः॑ । अ॒भीति॑ ।
पदसंख्या: 50
TS 2.1.7.2 TS 2.1.7.2
-गृह्णा॒-दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शः सम॑भव॒द्-यल्लोहि॑तं प॒राप॑त॒त् तद्-रु॒द्र उपा॑ऽगृह्णा॒थ् सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वद्- बार्.हस्प॒त्याꣳ शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒- [ ]
▶ पदपाठः (Word-by-word)
अ॒गृ॒ह्णा॒त् । अस्तु॑ । ए॒व । अ॒यम् । भोगा॑य । इति॑ । सः । उ॒क्ष॒व॒श इत्यु॑क्ष - व॒शः । समिति॑ । अ॒भ॒व॒त् । यत् । लोहि॑तम् । प॒राप॑त॒दिति॑ परा - अप॑तत् । तत् । रु॒द्रः । उपेति॑ । अ॒गृ॒ह्णा॒त् । सा । रौ॒द्री । रोहि॑णी । व॒शा । अ॒भ॒व॒त् । बा॒र्.॒ह॒स्प॒त्याम् । शि॒ति॒पृ॒ष्ठामिति॑ शिति - पृ॒ष्ठाम् । एति॑ । ल॒भे॒त॒ । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । बृह॒स्पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ ।
पदसंख्या: 50
TS 2.1.7.3 TS 2.1.7.3
वै ब्र॑ह्मवर्च॒सं छन्द॑सामे॒व रसे॑न॒ रसं॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं ॅवा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्.षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ ॅवर्.षयतः॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टिः॒ छन्द॑सामे॒व रसे॑न॒ - [ ]
▶ पदपाठः (Word-by-word)
वै । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् । द्वि॒रू॒पामिति॑ द्वि - रू॒पाम् । एति॑ । ल॒भे॒त॒ । वृष्टि॑काम॒ इति॒ वृष्टि॑ - का॒मः॒ । मै॒त्रम् । वै । अहः॑ । वा॒रु॒णी । रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । खलु॑ । वै । प॒र्जन्यः॑ । व॒र्.॒ष॒ति॒ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒तः॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । वृष्टिः॑ । छन्द॑साम् । ए॒व । रसे॑न ।
पदसंख्या: 50
TS 2.1.7.4 TS 2.1.7.4
रसं॒ ॅवृष्टि॒मव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो मै॒त्रं ॅवा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प्र॒जां प्रज॑नयतः॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ - [ ]
▶ पदपाठः (Word-by-word)
रस᳚म् । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् । द्वि॒रू॒पामिति॑ द्वि - रू॒पाम् । एति॑ । ल॒भे॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । मै॒त्रम् । वै । अहः॑ । वा॒रु॒णी । रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । खलु॑ । वै । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । जा॒य॒न्ते॒ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । प्र॒जामिति॑ प्र -जाम् । प्रेति॑ । ज॒न॒य॒तः॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । प्र॒जेति॑ प्र-जा । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । प्र॒जामिति॑ प्र -जाम् । अवेति॑ ।
पदसंख्या: 50
TS 2.1.7.5 TS 2.1.7.5
रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्नं॒ छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै - [ ]
▶ पदपाठः (Word-by-word)
रु॒न्धे॒ । वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् । ब॒हु॒रू॒पामिति॑ बहु - रू॒पाम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । वै । अन्न᳚म् । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । अन्न᳚म् । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् । ब॒हु॒रू॒पामिति॑ बहु-रू॒पाम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । वै ।
पदसंख्या: 50
TS 2.1.7.6 TS 2.1.7.6
स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताः छन्द॑सामे॒व रसे॑न॒ रसꣳ॑ सजा॒तानव॑ रुन्धे बार्.हस्प॒त्य- मु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं - [ ]
▶ पदपाठः (Word-by-word)
स॒जा॒ता इति॑ स - जा॒ताः । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । स॒जा॒तानिति॑ स-जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । स॒जा॒ता इति॑ स - जा॒ताः । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । स॒जा॒तानिति॑ स - जा॒तान् । अवेति॑ । रु॒न्धे॒ । बा॒र्.॒ह॒स्प॒त्यम् । उ॒क्ष॒व॒शमित्यु॑क्ष - व॒शम् । एति॑ । ल॒भे॒त॒ । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । बृह॒स्पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
पदसंख्या: 50
TS 2.1.7.7 TS 2.1.7.7
द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒ ॅवा ए॒ष च॑रति॒ यदु॒क्षावश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं ॅवशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धेरौ॒द्रीꣳरोहि॑णी॒मा ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ ( ) भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णात्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं᳚ ॥
▶ पदपाठः (Word-by-word)
द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । वश᳚म् । वै । ए॒षः । च॒र॒ति॒ । यत् । उ॒क्षा । वशः॑ । इ॒व॒ । खलु॑ । वै । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । वशे॑न । ए॒व । वश᳚म् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । रौ॒द्रीम् । रोहि॑णीम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि-चरन्॑ । रु॒द्रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तस्मै᳚ । ए॒व । ए॒न॒म् । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । रोहि॑णी । भ॒व॒ति॒ । रौ॒द्री । हि । ए॒षा । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ ( ) । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ । ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः । भि॒नत्ति॑ । ए॒व । ए॒न॒म् ॥
पदसंख्या: 69

अनुवाकः 8 (5 पञ्चाशत्)

TS 2.1.8.1 TS 2.1.8.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒ताꣳ सौ॒रीꣳ श्वे॒तां ॅव॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒ताꣳ सौ॒रीꣳ श्वे॒तां ॅव॒शामा ल॑भेता॒मुमे॒वा ऽऽ*दि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्॒.वो यूपो॑ भवत्य॒सौ- [ ]
▶ पदपाठः (Word-by-word)
अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । तस्मै᳚ । दे॒वाः । प्राय॑श्चित्तिम् । ऐ॒च्छ॒न्न् । तस्मै᳚ । ए॒ताम् । सौ॒रीम् । श्वे॒ताम् । व॒शाम् । एति॑ । अ॒ल॒भ॒न्त॒ । तया᳚ । ए॒व । अ॒स्मि॒न्न् । रुच᳚म् । अ॒द॒धुः॒ । यः । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒ताम् । सौ॒रीम् । श्वे॒ताम् । व॒शाम् । एति॑ । ल॒भे॒त॒ । अ॒मुम् । ए॒व । आ॒दि॒त्यम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । बै॒ल्॒.वः । यूपः॑ । भ॒व॒ति॒ । अ॒सौ ।
पदसंख्या: 50
TS 2.1.8.2 TS 2.1.8.2
वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒थ् सयो᳚न्ये॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेता-भि॒चर॑न्. वारु॒णं दश॑कपालं पु॒रस्ता॒न्-निर्व॑पे॒द्-वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पꣳ समृ॑द्ध्‌यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णा - [ ]
▶ पदपाठः (Word-by-word)
वै । आ॒दि॒त्यः । यतः॑ । अजा॑यत । ततः॑ । बि॒ल्वः॑ । उदिति॑ । अ॒ति॒ष्ठ॒त् । सयो॒नीति॒ स - यो॒नि॒ । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । ब्रा॒ह्म॒ण॒स्प॒त्यामिति॑ ब्राह्मणः - प॒त्याम् । ब॒भ्रु॒क॒र्णीमिति॑ बभ्रु - क॒र्णीम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि - चरन्॑ । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । पु॒रस्ता᳚त् । निरिति॑ । व॒पे॒त् । वरु॑णेन । ए॒व । भ्रातृ॑व्यम् । ग्रा॒ह॒यि॒त्वा । ब्रह्म॑णा । स्तृ॒णु॒ते॒ । ब॒भ्रु॒क॒र्णीति॑ बभ्रु - क॒र्णी । भ॒व॒ति॒ । ए॒तत् । वै । ब्रह्म॑णः । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ ।
पदसंख्या: 50
TS 2.1.8.3 TS 2.1.8.3
-त्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं॑ ॅवैष्ण॒वं ॅवा॑म॒नमा ल॑भेत॒ यं ॅय॒ज्ञो नोप॒नमे॒द्-विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ य॒ज्ञ्ं प्र य॑च्छ॒त्युपै॑नं ॅय॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रं ॅव॑ड॒बमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानां᳚ - [ ]
▶ पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः । भि॒नत्ति॑ । ए॒व । ए॒न॒म् । वै॒ष्ण॒वम् । वा॒म॒नम् । एति॑ । ल॒भे॒त॒ । यम् । य॒ज्ञ्ः । न । उ॒प॒नमे॒दित्यु॑प-नमे᳚त् । विष्णुः॑ । वै । य॒ज्ञ्ः । विष्णु᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । य॒ज्ञ्म् । प्रेति॑ । य॒च्छ॒ति॒ । उपेति॑ । ए॒न॒म् । य॒ज्ञ्ः । न॒म॒ति॒ । वा॒म॒नः । भ॒व॒ति॒ । वै॒ष्ण॒वः । हि । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । त्वा॒ष्ट्रम् । व॒ड॒बम् । एति॑ । ल॒भे॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । त्वष्टा᳚ । वै । प॒शू॒नाम् । मि॒थु॒नाना᳚म् ।
पदसंख्या: 50
TS 2.1.8.4 TS 2.1.8.4
प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् मि॑थु॒नान् प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑न् प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्‌सन् व॑ड॒बः सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मै॒त्रꣳ श्वे॒तमा ल॑भेत संग्रा॒मे संॅय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति - [ ]
▶ पदपाठः (Word-by-word)
प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता । त्वष्टा॑रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒शून् । मि॒थु॒नान् । प्रेति॑ । ज॒न॒य॒ति॒ । प्र॒जेति॑ प्र - जा । हि । वै । ए॒तस्मिन्न्॑ । प॒शवः॑ । प्रवि॑ष्टा॒ इति॒ प्र - वि॒ष्टाः॒ । अथ॑ । ए॒षः । पुमान्॑ । सन्न् । व॒ड॒बः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । प्र॒जामिति॑ प्र -जाम् । प॒शून् । अवेति॑ । रु॒न्धे॒ । मै॒त्रम् । श्वे॒तम् । एति॑ । ल॒भे॒त॒ । स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे । संॅय॑त्त॒ इति॒ सं - य॒त्ते॒ । स॒म॒यका॑म॒ इति॑ सम॒य - का॒मः॒ । मि॒त्रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । मि॒त्रेण॑ । समिति॑ । न॒य॒ति॒ ।
पदसंख्या: 50
TS 2.1.8.5 TS 2.1.8.5
विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यं कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र्वै वृष्‌ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ ॅवर्.षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्‌ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्.षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ( ) ॥
▶ पदपाठः (Word-by-word)
वि॒शा॒ल इति॑ वि - शा॒लः । भ॒व॒ति॒ । व्यव॑सायय॒तीति॑ वि - अव॑साययति । ए॒व । ए॒न॒म् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । कृ॒ष्णम् । एति॑ । ल॒भे॒त॒ । वृष्टि॑काम॒ इति॒ वृष्टि॑ - का॒मः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । वृष्ट्याः᳚ । ई॒शे॒ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒र्जन्य᳚म् । व॒र्॒.ष॒य॒ति॒ । कृ॒ष्णः । भ॒व॒ति॒ । ए॒तत् । वै । वृष्‌ट्यै᳚ । रू॒पम् । रू॒पेण॑ । ए॒व । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । श॒बलः॑ । भ॒व॒ति॒ । वि॒द्युत॒मिति॑ वि - द्युत᳚म् । ए॒व । अ॒स्मै॒ । ज॒न॒यि॒त्वा । व॒र्.॒ष॒य॒त॒ । अ॒वा॒शृ॒ङ्गः । भ॒व॒ति॒ । वृष्टि᳚म् । ए॒व । अ॒स्मै॒ । नीति॑ । य॒च्छ॒ति॒ ( ) ॥
पदसंख्या: 50

अनुवाकः 9 (4 पञ्चाशत्)

TS 2.1.9.1 TS 2.1.9.1
वरु॑णꣳ सुषुवा॒णम॒न्नाद्यं॒ नोपा॑नम॒थ् स ए॒तां ॅवा॑रु॒णीं कृ॒ष्णां ॅव॒शाम॑पश्य॒त् ताꣳ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै तम॒न्नाद्-य॒मुपा॑नम॒द्-यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्यं॒ नोप॒नमे॒थ् स ए॒तां ॅवा॑रु॒णीं कृ॒ष्णां ॅव॒शामा ल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द - [ ]
▶ पदपाठः (Word-by-word)
वरु॑णम् । सु॒षु॒वा॒णम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । न । उपेति॑ । अ॒न॒म॒त् । सः । ए॒ताम् । वा॒रु॒णीम् । कृ॒ष्णाम् । व॒शाम् । अ॒प॒श्य॒त् । ताम् । स्वायै᳚ । दे॒वता॑यै । एति॑ । अ॒ल॒भ॒त॒ । ततः॑ । वै । तम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । उपेति॑ । अ॒न॒म॒त् । यम् । अल᳚म् । अ॒न्नाद्या॒येत्य॑न्न - अद्या॑य । सन्त᳚म् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । न । उ॒प॒नमे॒दित्यु॑प-नमे᳚त् । सः । ए॒ताम् । वा॒रु॒णीम् । कृ॒ष्णाम् । व॒शाम् । एति॑ । ल॒भे॒त॒ । वरु॑णम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
पदसंख्या: 50
TS 2.1.9.2 TS 2.1.9.2
ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्रꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णम॒पां चौष॑धीनां च स॒धांवन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपां च॒ खलु॒ वा ओष॑धीनां च॒ रस॒मुप॑ जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॒ अन्नं॒ प्रय॑च्छतोऽन्ना॒द ए॒व भ॑व - [ ]
▶ पदपाठः (Word-by-word)
ए॒व । भ॒व॒ति॒ । कृ॒ष्णा । भ॒व॒ति॒ । वा॒रु॒णी । हि । ए॒षा । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । मै॒त्रम् । श्वे॒तम् । एति॑ । ल॒भे॒त॒ । वा॒रु॒णम् । कृ॒ष्णम् । अ॒पाम् । च॒ । ओष॑धीनाम् । च॒ । स॒धांविति॑ सं - धौ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । मै॒त्रीः । वै । ओष॑धयः । वा॒रु॒णीः । आपः॑ । अ॒पाम् । च॒ । खलु॑ । वै । ओष॑धीनाम् । च॒ । रस᳚म् । उपेति॑ । जी॒वा॒मः॒ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒तः॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ ।
पदसंख्या: 50
TS 2.1.9.3 TS 2.1.9.3
-त्य॒पां चौष॑धीनां च स॒धांवा ल॑भत उ॒भय॒स्या-व॑रुद्ध्यै॒विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्रꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णं ज्योगा॑मयावी॒यन् मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णꣳ शमयति॒ यद्-वा॑रु॒णः सा॒क्षादे॒वैनं॑ ॅवरुणपा॒शान् मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टिं॒ नावि॑न्द॒न् - [ ]
▶ पदपाठः (Word-by-word)
अ॒पाम् । च॒ । ओष॑धीनाम् । च॒ । स॒धांविति॑ सं-धौ । एति॑ । ल॒भ॒ते॒ । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒ध्यै॒ । विशा॑ख॒ इति॒ वि-शा॒खः॒ । यूपः॑ । भ॒व॒ति॒ । द्वे इति॑ । हि । ए॒ते इति॑ । दे॒वते॒ इति॑ । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । मै॒त्रम् । श्वे॒तम् । एति॑ । ल॒भे॒त॒ । वा॒रु॒णम् । कृ॒ष्णम् । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । यत् । मै॒त्रः । भव॑ति । मि॒त्रेण॑ । ए॒व । अ॒स्मै॒ । वरु॑णम् । श॒म॒य॒ति॒ । यत् । वा॒रु॒णः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । ए॒न॒म् । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । मु॒ञ्च॒ति॒ । उ॒त । यदि॑ । इ॒तासु॒रिती॒त-अ॒सुः॒ । भव॑ति । जीव॑ति । ए॒व । दे॒वाः । वै । पुष्टि᳚म् । न । अ॒वि॒न्द॒न्न् ।
पदसंख्या: 50
TS 2.1.9.4 TS 2.1.9.4
तां मि॑थु॒ने॑ ऽपश्य॒न् तस्यां॒ न सम॑राधय॒न्ता-व॒श्विना॑-वब्रूता-मा॒वयो॒र्वा ए॒षा मैतस्यां᳚ ॅवदद्ध्व॒मिति॒ साश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑कामः॒ स्याथ् स ए॒तामा᳚श्वि॒नीं ॅय॒मीं ॅव॒शामा ल॑भेता॒ऽश्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न् पुष्टिं॑ धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥
▶ पदपाठः (Word-by-word)
ताम् । मि॒थु॒ने । अ॒प॒श्य॒न्न् । तस्या᳚म् । न । समिति॑ । अ॒रा॒ध॒य॒न्न् । तौ । अ॒श्विनौ᳚ । अ॒ब्रू॒ता॒म् । आ॒वयोः᳚ । वै । ए॒षा । मा । ए॒तस्या᳚म् । व॒द॒द्ध्व॒म् । इति॑ । सा । अ॒श्विनोः᳚ । ए॒व । अ॒भ॒व॒त् । यः । पुष्टि॑काम॒ इति॒ पुष्टि॑ - का॒मः॒ । स्यात् । सः । ए॒ताम् । आ॒श्वि॒नीम् । य॒मीम् । व॒शाम् । एति॑ । ल॒भे॒त॒ । अ॒श्विनौ᳚ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मि॒न्न् । पुष्टि᳚म् । ध॒त्तः॒ । पुष्य॑ति । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ ॥
पदसंख्या: 45

अनुवाकः 10 (3 पञ्चाशत्)

TS 2.1.10.1 TS 2.1.10.1
आ॒श्वि॒नं धू॒म्रल॑लाम॒मा ल॑भेत॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒-मसो॑मपावास्तां॒ तौ प॒श्चा सो॑मपी॒थं प्राप्नु॑ता-म॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒तावे॒वास्मै॑ सोमपी॒थं प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यद्-धू॒म्रो भव॑ति धूम्रि॒माण॑-मे॒वास्मा॒दप॑ हन्ति ल॒लामो॑ - [ ]
▶ पदपाठः (Word-by-word)
आ॒श्वि॒नम् । धू॒म्रल॑लाम॒मिति॑ धू॒म्र - ल॒ला॒म॒म् । एति॑ । ल॒भे॒त॒ । यः । दुर्ब्रा᳚ह्मण॒ इति॒ दुः - ब्रा॒ह्म॒णः॒ । सोम᳚म् । पिपा॑सेत् । अ॒श्विनौ᳚ । वै । दे॒वाना᳚म् । असो॑मपा॒वित्यसो॑म - पौ॒ । आ॒स्ता॒म् । तौ । प॒श्चा । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । प्रेति॑ । आ॒प्नु॒ता॒म् । अ॒श्विनौ᳚ । ए॒तस्य॑ । दे॒वता᳚ । यः । दुर्ब्रा᳚ह्मण॒ इति॒ दुः- ब्रा॒ह्म॒णः॒ । सोम᳚म् । पिपा॑सति । अ॒श्विनौ᳚ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । सो॒म॒पी॒थमिति॑ सोम-पी॒थम् । प्रेति॑ । य॒च्छ॒तः॒ । उपेति॑ । ए॒न॒म् । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । न॒म॒ति॒ । यत् । धू॒म्रः । भव॑ति । धू॒म्रि॒माण᳚म् । ए॒व । अ॒स्मा॒त् । अपेति॑ । ह॒न्ति॒ । ल॒लामः॑ ।
पदसंख्या: 50
TS 2.1.10.2 TS 2.1.10.2
भवति मुख॒त ए॒वास्मि॒न् तेजो॑ दधाति वाय॒व्यं॑ गोमृ॒गमा ल॑भेत॒ यमज॑घ्निवाꣳ समभि॒शꣳ से॑यु॒रपू॑ता॒ वा ए॒तं ॅवागृ॑च्छति॒ यमज॑घ्निवाꣳ समभि॒शꣳ स॑न्ति॒ नैष ग्रा॒म्यः प॒शुर्नार॒ण्यो यद्-गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाꣳ समभि॒शꣳ स॑न्ति वा॒युर्वै दे॒वानां᳚ प॒वित्रं॑ ॅवा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वै - [ ]
▶ पदपाठः (Word-by-word)
भ॒व॒ति॒ । मु॒ख॒तः । ए॒व । अ॒स्मि॒न्न् । तेजः॑ । द॒धा॒ति॒ । वा॒य॒व्य᳚म् । गो॒मृ॒गमिति॑ गो - मृ॒गम् । एति॑ । ल॒भे॒त॒ । यम् । अज॑घ्निवाꣳसम् । अ॒भि॒शꣳसे॑यु॒रित्य॑भि - शꣳसे॑युः । अपू॑ता । वै । ए॒तम् । वाक् । ऋ॒च्छ॒ति॒ । यम् । अज॑घ्निवाꣳसम् । अ॒भि॒शꣳस॒न्तीत्य॑भि - शꣳस॑न्ति । न । ए॒षः । ग्रा॒म्यः । प॒शुः । न । आ॒र॒ण्यः । यत् । गो॒मृ॒ग इति॑ गो - मृ॒गः । न । इ॒व॒ । ए॒षः । ग्रामे᳚ । न । अर॑ण्ये । यम् । अज॑घ्निवाꣳसम् । अ॒भि॒शꣳस॒न्तीत्य॑भि-शꣳस॑न्ति । वा॒युः । वै । दे॒वाना᳚म् । प॒वित्र᳚म् । वा॒युम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व ।
पदसंख्या: 50
TS 2.1.10.3 TS 2.1.10.3
-नं॑ पवयति॒ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मानं॒ प्रवि॑शति॒ यस्या᳚श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ ना*ऽऽविर्भव॑ति सौ॒र्यं ब॑हुरू॒पमा ल॑भेता॒मुमे॒वादि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒त् तमः॑ पा॒प्मान॒मप॑ हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मानꣳ॑ हते ॥
▶ पदपाठः (Word-by-word)
ए॒न॒म् । प॒व॒य॒ति॒ । परा॑ची । वै । ए॒तस्मै᳚ । व्यु॒च्छन्तीति॑ वि-उ॒च्छन्ती᳚ । वीति॑ । उ॒च्छ॒ति॒ । तमः॑ । पा॒प्मान᳚म् । प्रेति॑ । वि॒श॒ति॒ । यस्य॑ । आ॒श्वि॒ने । श॒स्यमा॑ने । सूर्यः॑ । न । आ॒विः । भव॑ति । सौ॒र्यम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । अ॒मुम् । ए॒व । आ॒दि॒त्यम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मा॒त् । तमः॑ । पा॒प्मान᳚म् । अपेति॑ । ह॒न्ति॒ । प्र॒तीची᳚ । अ॒स्मै॒ । व्यु॒च्छन्तीति॑ वि - उच्छन्ती᳚ । वीति॑ । उ॒च्छ॒ति॒ । अपेति॑ । तमः॑ । पा॒प्मान᳚म् । ह॒ते॒ ॥
पदसंख्या: 46

अनुवाकः 11 (6 पञ्चाशत्)

TS 2.1.11.1 TS 2.1.11.1
इन्द्रं॑ ॅवो वि॒श्वत॒स्परी न्द्रं॒ नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ ॥भरे॒ष्विन्द्रꣳ॑ सु॒हवꣳ॑ हवामहे ऽꣳहो॒मुचꣳ॑ सु॒कृतं॒ दैव्यं॒ जनं᳚ । अ॒ग्निं मि॒त्रं ॅवरु॑णꣳ सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ॥ म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्॒.हा म॒मत्तु॒ वातो॑ अ॒पां ॅवृष॑ण्वान्न् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ प्रि॒या वो॒ नाम॑ - [ ]
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । वः॒ । वि॒श्वतः॑ । परीति॑ । इन्द्र᳚म् । नरः॑ । मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । या । वः॒ । शर्म॑ ॥ भरे॑षु । इन्द्र᳚म् । सु॒हव॒मिति॑ सु - हव᳚म् । ह॒वा॒म॒हे॒ । अꣳ॒॒हो॒मुच॒मित्यꣳ॑हः - मुच᳚म् । सु॒कृत॒मिति॑ सु - कृत᳚म् । दैव्य᳚म् । जन᳚म् ॥ अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये᳚ । भग᳚म् । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । म॒रुतः॑ । स्व॒स्तये᳚ ॥ म॒मत्तु॑ । नः॒ । परि॒ज्मेति॒ परि॑-ज्मा॒ । व॒स॒र्॒.हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्वा॒निति॒ वृषण॑ - वा॒न् ॥ शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒तेती᳚न्द्रा - प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे᳚ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥ प्रि॒या । वः॒ । नाम॑ ।
पदसंख्या: 50
TS 2.1.11.2 TS 2.1.11.2
हुवे तु॒राणां᳚ । आ यत् तृ॒पन्म॑रुतो वावशा॒नाः ॥ श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒थ् सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षत॒ त्मना᳚ । इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑णः॒ सꣳ शि॑शातु ॥ सं नो॑ दे॒वो वसु॑भिर॒ग्निः सꣳ - [ ]
▶ पदपाठः (Word-by-word)
हु॒वे॒ । तु॒राणा᳚म् ॥ एति॑ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥ श्रि॒यसे᳚ । कम् । भा॒नुभि॒रिति॑ भा॒नु-भिः॒ । समिति॑ । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । ते । ऋक्व॑भि॒रित्यृक्व॑ - भिः॒ । सु॒खा॒दय॒ इति॑ सु - खा॒दयः॑ ॥ ते । वाशी॑मन्त॒ इति॒ वाशि॑ - म॒न्तः॒ । इ॒ष्मिणः॑ । अभी॑रवः । वि॒द्रे । प्रि॒यस्य॑ । मारु॑तस्य । धाम्नः॑ ॥ अ॒ग्निः । प्र॒थ॒मः । वसु॑भि॒रिति॒ वसु॑-भिः॒ । नः॒ । अ॒व्या॒त् । सोमः॑ । रु॒द्रेभिः॑ । अ॒भीति॑ । र॒क्ष॒तु॒ । त्मना᳚ ॥ इन्द्रः॑ । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । ऋ॒तु॒धेत्यृ॑तु - धा । कृ॒णो॒तु॒ । आ॒दि॒त्यैः । नः॒ । वरु॑णः । समिति॑ । शि॒शा॒तु॒ ॥ समिति॑ । नः॒ । दे॒वः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । अ॒ग्निः । समिति॑ ।
पदसंख्या: 50
TS 2.1.11.3 TS 2.1.11.3
सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिन्द्रो॑ म॒रुद्भि॑ र्य॒ज्ञियैः॒ समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् ॥ यथा॑ऽऽदि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्न-हृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवन्तु ॥ कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्.ह॑न्तश्चि॒द्-यमि॑न्ध॒ते स॑जं॒नय॑न्ति ज॒न्तवः॑ ॥ सं ॅयदि॒षो वना॑महे॒ सꣳ ह॒व्या मानु॑षाणां । उ॒त द्यु॒म्नस्य॒ शव॑स - [ ]
▶ पदपाठः (Word-by-word)
सोमः॑ । त॒नूभिः॑ । रु॒द्रिया॑भिः ॥ समिति॑ । इन्द्रः॑ । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । य॒ज्ञियैः᳚ । समिति॑ । आ॒दि॒त्यैः । नः॒ । वरु॑णः । अ॒जि॒ज्ञि॒प॒त् ॥ यथा᳚ । आ॒दि॒त्याः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । स॒म्ब॒भू॒वुरिति॑ सं - ब॒भू॒वुः । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । रु॒द्राः । स॒मजा॑न॒तेति॑ सं - अजा॑नत् । अ॒भि ॥ ए॒वा । त्रि॒णा॒म॒न्निति॑ त्रि - ना॒म॒न्न् । अहृ॑णीयमानाः । विश्वे᳚ । दे॒वाः । सम॑नस॒ इति॒ स - म॒न॒सः॒ । भ॒व॒न्तु॒ ॥ कुत्र॑ । चि॒त्॒ । यस्य॑ । समृ॑ता॒विति॒ सं-ऋ॒तौ॒ । र॒ण्वाः । नरः॑ । नृ॒षद॑न॒ इति॑ नृ-सद॑ने ॥ अर्.ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒ञ्ज॒नय॒न्तीति॑ सं - ज॒नय॑न्ति । ज॒न्तवः॑ ॥ समिति॑ । यत् । इ॒षः । वना॑महे । समिति॑ । ह॒व्या । मानु॑षाणाम् ॥ उ॒त । द्यु॒म्नस्य॑ । शव॑सः ।
पदसंख्या: 50
TS 2.1.11.4 TS 2.1.11.4
ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥ य॒ज्ञो दे॒वाना॒म् प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादꣳ॒॒ होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् ॥ शुचि॑र॒पः सू॒यव॑सा अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥ धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा- [ ]
▶ पदपाठः (Word-by-word)
ऋ॒तस्य॑ । र॒श्मिम् । एति॑ । द॒दे॒ ॥ य॒ज्ञ्ः । दे॒वाना᳚म् । प्रतीति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृ॒ड॒यन्तः॑ ॥ एति॑ । वः॒ । अ॒र्वाची᳚ । सु॒म॒तिरिति॑ सु - म॒तिः । व॒वृ॒त्या॒त् । अꣳ॒॒होः । चि॒त् । या । व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित् - त॒रा॒ । अस॑त् ॥ शुचिः॑ । अ॒पः । सू॒यव॑सा॒ इति॑ सु - यव॑साः । अद॑ब्धः । उपेति॑ । क्षे॒ति॒ । वृ॒द्धव॑या॒ इति॑ वृ॒द्ध - व॒याः॒ । सु॒वीर॒ इति॑ सु - वीरः॑ ॥ नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना᳚म् । भव॑ति । प्रणी॑त॒विति॒ प्र - नी॒तौ॒ ॥ धा॒रय॑न्तः । आ॒दि॒त्यासः॑ । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गो॒पा इति॑ गो-पाः ॥ दी॒र्घाधि॑य॒ इति॑ दी॒र्घ - धि॒यः॒ । रक्ष॑माणाः ।
पदसंख्या: 50
TS 2.1.11.5 TS 2.1.11.5
असु॒र्य॑मृ॒तावा॑न॒-श्चय॑माना ऋ॒णानि॑ ॥ ति॒स्रो भूमी᳚र्द्धारय॒न् त्रीꣳ रु॒त द्यून् त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षां । ऋ॒तेना॑ऽऽ*दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन् वरुण मित्र॒ चारु॑ ॥ त्यान्नु क्ष॒त्रियाꣳ॒॒ अव॑ आदि॒त्यान्. या॑चिषामहे । सु॒मृ॒डी॒काꣳ अ॒भिष्ट॑ये ॥ न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद् - [ ]
▶ पदपाठः (Word-by-word)
अ॒सु॒र्य᳚म् । ऋ॒तावा॑न॒ इत्यृ॒त - वा॒नः॒ । चय॑मानाः । ऋ॒णानि॑ ॥ ति॒स्रः । भूमीः᳚ । धा॒र॒य॒न्न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे᳚ । अ॒न्तः । ए॒षा॒म् ॥ ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒त्वमिति॑ महि - त्वम् । तत् । अ॒र्य॒म॒न्न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥ त्यान् । नु । क्ष॒त्रियान्॑ । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ॥ सु॒मृ॒डी॒कानिति॑ सु - म॒डी॒कान् । अ॒भिष्ट॑ये ॥ न । द॒क्षि॒णा । वीति॑ । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन᳚म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा ॥ पा॒क्या᳚ । चि॒त् । व॒स॒वः॒ । धी॒र्या᳚ । चि॒त् ।
पदसंख्या: 50
TS 2.1.11.6 TS 2.1.11.6
-यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्यां ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं ॅय॒ज्ञ्ं द॑धतु॒ श्रोष॑माणाः ॥ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
▶ पदपाठः (Word-by-word)
यु॒ष्मानी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥ आ॒दि॒त्याना᳚म् । अव॑सा । नूत॑नेन । स॒क्षी॒महि॑ । शर्म॑णा । शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ ॥ अ॒ना॒गा॒स्त्व इत्य॑नागाः-त्वे । अ॒दि॒ति॒त्व इत्य॑दिति - त्वे । तु॒रासः॑ । इ॒मम् । य॒ज्ञ्म् । द॒ध॒तु॒ । श्रोष॑माणाः ॥ इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒ध॒ । हव᳚म् । अ॒द्य । च॒ । मृ॒ड॒य॒ ॥ त्वाम् । अ॒व॒स्युः । एति॑ । च॒के॒ ॥ तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । एति॑ । शा॒स्ते॒ । यज॑मानः । ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ॥ अहे॑डमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑शꣳ॒॒सेत्युरु॑ - शꣳ॒॒स॒ । मा । नः॒ । आयुः॑ । प्रेति॑ । मो॒षीः॒ ॥
पदसंख्या: 49