पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्-म॑द्ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्या᳚न् दे॒वा अधि॑ सं॒ॅवस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्तां ॥ यत्ते॑ दे॒वा अद॑धु र्भाग॒धेय॒ममा॑वास्ये सं॒ॅवस॑न्तो महि॒त्वा । सानो॑ य॒ज्ञ्ं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीरं᳚ ॥नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ ॅविश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्. वर्च॑सा - [ ]
पदपाठः (Word-by-word)
पू॒र्णा । प॒श्चात् । उ॒त । पू॒र्णा । पु॒रस्ता᳚त् । उदिति॑ । म॒द्ध्य॒तः । पौ॒र्ण॒मा॒सीति॑ पौर्ण - मा॒सी । जि॒गा॒य॒ ॥ तस्या᳚म् । दे॒वाः । अधीति॑ । सं॒ॅवस॑न्त॒ इति॑ सं - वस॑न्तः । उ॒त्त॒म इत्यु॑त् - त॒मे । नाके᳚ । इ॒ह । मा॒द॒य॒न्ता॒म् ॥ यत् । ते॒ । दे॒वाः । अद॑धुः । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । अमा॑वास्य॒ इत्यमा᳚ - वा॒स्ये॒ । सं॒ॅवस॑न्त॒ इति॑ सं - वस॑न्तः । म॒हि॒त्वेति॑ महि-त्वा ॥ सा । नः॒ । य॒ज्ञ्म् । पि॒पृ॒हि॒ । वि॒श्व॒वा॒र॒ इति॑ विश्व - वा॒रे॒ । र॒यिम् । नः॒ । धे॒हि॒ । सु॒भ॒ग॒ इति॑ सु - भ॒गे॒ । सु॒वीर॒मिति॑ सु - वीर᳚म् ॥ नि॒वेश॒नीति॑ नि - वेश॑नी । स॒गंम॒नीति॑ सं - गम॑नी । वसू॑नाम् । विश्वा᳚ । रू॒पाणि॑ । वसू॑नि । आ॒वे॒शय॒न्तीत्या᳚ - वे॒शय॑न्ती ॥ स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् । सु॒भगेति॑ सु-भगा᳚ । ररा॑णा । सा । नः॒ । एति॑ । ग॒न्न् । वर्च॑सा ।