प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॒ स तपो॑ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ सद्वि॒तीय॑मतप्यत॒ स वयाꣳ॑स्य सृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒तं दी᳚क्षितवा॒द-म॑पश्य॒त् तम॑वद॒त् ततो॒ वै स प्र॒जा अ॑सृजत॒ यत् तप॑स्त॒प्त्वा दी᳚क्षितवा॒दं ॅवद॑ति प्र॒जा ए॒व तद्यज॑मानः - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒का॒म॒य॒त॒ । प्र॒जा इति॑ प्र - जाः । सृ॒जे॒य॒ । इति॑ । सः । तपः॑ । अ॒त॒प्य॒त॒ । सः । स॒र्पान् । अ॒सृ॒ज॒त॒ । सः । अ॒का॒म॒य॒त॒ । प्र॒जा इति॑ प्र - जाः । सृ॒जे॒य॒ । इति॑ । सः । द्वि॒तीय᳚म् । अ॒त॒प्य॒त॒ । सः । वयाꣳ॑सि । अ॒सृ॒ज॒त॒ । सः । अ॒का॒म॒य॒त॒ । प्र॒जा इति॑ प्र-जाः । सृ॒जे॒य॒ । इति॑ । सः । तृ॒तीय᳚म् । अ॒त॒प्य॒त॒ । सः । ए॒तम् । दी॒क्षि॒त॒वा॒दमिति॑ दीक्षित - वा॒दम् । अ॒प॒श्य॒त् । तम् । अ॒व॒द॒त् । ततः॑ । वै । सः । प्र॒जा इति॑ प्र-जाः । अ॒सृ॒ज॒त॒ । यत् । तपः॑ । त॒प्त्वा । दी॒क्षि॒त॒वा॒दमिति॑ दीक्षित - वा॒दम् । वद॑ति । प्र॒जा इति॑ प्र - जाः । ए॒व । तत् । यज॑मानः ।