काण्डम् 4 - प्रश्नः 7

Kanda 4, Prasna 7

15 अनुवाकाः | 39 पञ्चाशत्

प्रश्नः 7 - Complete Audio Recording

॥

अनुवाकः 1 (2 पञ्चाशत्)

TS 4.7.1.1 TS 4.7.1.1
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वां॒ गिरः॑ ।ध्यु॒नैंर्वाजे॑भि॒रा ग॑तं ॥ वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मे ऽपा॒न - [ ]
▶ पदपाठः (Word-by-word)
अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । स॒जोष॒सेति॑ स - जोष॑सा । इ॒माः । व॒द्‌र्ध॒न्तु॒ । वा॒म् । गिरः॑ ॥ ध्यु॒म्नैः । वाजे॑भिः । एति॑ । ग॒त॒म् ॥ वाजः॑ । च॒ । मे॒ । प्र॒स॒व इति॑ प्र-स॒वः । च॒ । मे॒ । प्रय॑ति॒रिति॒ प्र-य॒तिः॒ । च॒ । मे॒ । प्रसि॑ति॒रिति॒ प्र-सि॒तिः॒ । च॒ । मे॒ । धी॒तिः । च॒ । मे॒ । क्रतुः॑ । च॒ । मे॒ । स्वरः॑ । च॒ । मे॒ । श्लोकः॑ । च॒ । मे॒ । श्रा॒वः । च॒ । मे॒ । श्रुतिः॑ । च॒ । मे॒ । ज्योतिः॑ । च॒ । मे॒ । सुवः॑ । च॒ । मे॒ । प्रा॒ण इति॑ प्र - अ॒नः । च॒ । मे॒ । अ॒पा॒न इत्य॑प - अ॒नः ।
पदसंख्या: 50
TS 4.7.1.2 TS 4.7.1.2
-श्च॑ मे व्या॒नश्च॒ मे ऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ ( ) शर्म॑ च मे॒ वर्म॑ च॒ मे ऽङ्गा॑नि च मे॒ ऽस्थानि॑ च मे॒ परूꣳ॑षि च मे॒ शरी॑राणि च मे ॥
▶ पदपाठः (Word-by-word)
च॒ । मे॒ । व्या॒न इति॑ वि-अ॒नः । च॒ । मे॒ । असुः॑ । च॒ । मे॒ । चि॒त्तम् । च॒ । मे॒ । आधी॑त॒मित्या - धी॒त॒म् । च॒ । मे॒ । वाक् । च॒ । मे॒ । मनः॑ । च॒ । मे॒ । चक्षुः॑ । च॒ । मे॒ । श्रोत्र᳚म् । च॒ । मे॒ । दक्षः॑ । च॒ । मे॒ । बल᳚म् । च॒ । मे॒ । ओजः॑ । च॒ । मे॒ । सहः॑ । च॒ । मे॒ । आयुः॑ । च॒ । मे॒ । ज॒रा । च॒ । मे॒ । आ॒त्मा । च॒ । मे॒ । त॒नूः । च॒ । मे॒ ( ) । शर्म॑ । च॒ । मे॒ । वर्म॑ । च॒ । मे॒ । अङ्गा॑नि । च॒ । मे॒ । अ॒स्थानि॑ । च॒ । मे॒ । परूꣳ॑षि । च॒ । मे॒ । शरी॑राणि । च॒ । मे॒ ॥
पदसंख्या: 68

अनुवाकः 2 (2 पञ्चाशत्)

TS 4.7.2.1 TS 4.7.2.1
ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मे ऽभं॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च - [ ]
▶ पदपाठः (Word-by-word)
ज्यैष्ठ्य᳚म् । च॒ । मे॒ । आधि॑पत्य॒मित्याधि॑-प॒त्य॒म् । च॒ । मे॒ । म॒न्युः । च॒ । मे॒ । भामः॑ । च॒ । मे॒ । अमः॑ । च॒ । मे॒ । अभंः॑ । च॒ । मे॒ । जे॒मा । च॒ । मे॒ । म॒हि॒मा । च॒ । मे॒ । व॒रि॒मा । च॒ । मे॒ । प्र॒थि॒मा । च॒ । मे॒ । व॒र्ष्मा । च॒ । मे॒ । द्रा॒घु॒या । च॒ । मे॒ । वृ॒द्धम् । च॒ । मे॒ । वृद्धिः॑ । च॒ । मे॒ । स॒त्यम् । च॒ । मे॒ । श्र॒द्धेति॑ श्रत् - धा । च॒ । मे॒ । जग॑त् । च॒ ।
पदसंख्या: 50
TS 4.7.2.2 TS 4.7.2.2
-मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तंच॑ मे भवि॒ष्यच्च॑ मेसु॒गं च॑ मे सु॒पथं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑ ( ) श्च मे क्लृ॒प्तं च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥
▶ पदपाठः (Word-by-word)
मे॒ । धन᳚म् । च॒ । मे॒ । वशः॑ । च॒ । मे॒ । त्विषिः॑ । च॒ । मे॒ । क्री॒डा । च॒ । मे॒ । मोदः॑ । च॒ । मे॒ । जा॒तम् । च॒ । मे॒ । ज॒नि॒ष्यमा॑णम् । च॒ । मे॒ । सू॒क्तमिति॑ सु - उ॒क्तम् । च॒ । मे॒ । सु॒कृ॒तमिति॑ सु - कृ॒तम् । च॒ । मे॒ । वि॒त्तम् । च॒ । मे॒ । वेद्य᳚म् । च॒ । मे॒ । भू॒तम् । च॒ । मे॒ । भ॒वि॒ष्यत् । च॒ । मे॒ । सु॒गमिति॑ सु - गम् । च॒ । मे॒ । सु॒पथ॒मिति॑ सु - पथ᳚म् । च॒ । मे॒ । ऋ॒द्धम् । च॒ । मे॒ । ऋद्धिः॑ ( ) । च॒ । मे॒ । क्लृ॒प्तम् । च॒ । मे॒ । क्लृप्तिः॑ । च॒ । मे॒ । म॒तिः । च॒ । मे॒ । सु॒म॒तिरिति॑ सु - म॒तिः । च॒ । मे॒ ॥
पदसंख्या: 64

अनुवाकः 3 (2 पञ्चाशत्)

TS 4.7.3.1 TS 4.7.3.1
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे ऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च - [ ]
▶ पदपाठः (Word-by-word)
शम् । च॒ । मे॒ । मयः॑ । च॒ । मे॒ । प्रि॒यम् । च॒ । मे॒ । अ॒नु॒का॒म इत्य॑नु - का॒मः । च॒ । मे॒ । कामः॑ । च॒ । मे॒ । सौ॒म॒न॒सः । च॒ । मे॒ । भ॒द्रम् । च॒ । मे॒ । श्रेयः॑ । च॒ । मे॒ । वस्यः॑ । च॒ । मे॒ । यशः॑ । च॒ । मे॒ । भगः॑ । च॒ । मे॒ । द्रवि॑णम् । च॒ । मे॒ । य॒न्ता । च॒ । मे॒ । ध॒र्ता । च॒ । मे॒ । क्षेमः॑ । च॒ । मे॒ । धृतिः॑ । च॒ । मे॒ । विश्व᳚म् । च॒ ।
पदसंख्या: 50
TS 4.7.3.2 TS 4.7.3.2
मे॒ मह॑श्च मे सं॒ॅविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे ऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं ( ) च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥
▶ पदपाठः (Word-by-word)
मे॒ । महः॑ । च॒ । मे॒ । सं॒ॅविदिति॑ सम्-वित् । च॒ । मे॒ । ज्ञात्र᳚म् । च॒ । मे॒ । सूः । च॒ । मे॒ । प्र॒सूरिति॑ प्र - सूः । च॒ । मे॒ । सीरं᳚ । च॒ । मे॒ । ल॒यः । च॒ । मे॒ । ऋ॒तम् । च॒ । मे॒ । अ॒मृत᳚म् । च॒ । मे॒ । अ॒य॒क्ष्मम् । च॒ । मे॒ । अना॑मयत् । च॒ । मे॒ । जी॒वातुः॑ । च॒ । मे॒ । दी॒र्घा॒यु॒त्वमिति॑ दीर्घायु - त्वम् । च॒ । मे॒ । अ॒न॒मि॒त्रम् । च॒ । मे॒ । अभ॑यम् । च॒ । मे॒ । सु॒गमिति॑ सु-गम् । च॒ । मे॒ । शय॑नम् ( ) । च॒ । मे॒ । सू॒षेति॑ सु - उ॒षा । च॒ । मे॒ । सु॒दिन॒मिति॑ सु - दिन᳚म् । च॒ । मे॒ ॥
पदसंख्या: 58

अनुवाकः 4 (2 पञ्चाशत्)

TS 4.7.4.1 TS 4.7.4.1
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ - [ ]
▶ पदपाठः (Word-by-word)
ऊर्क् । च॒ । मे॒ । सू॒नृता᳚ । च॒ । मे॒ । पयः॑ । च॒ । मे॒ । रसः॑ । च॒ । मे॒ । घृ॒तम् । च॒ । मे॒ । मधु॑ । च॒ । मे॒ । सग्धिः॑ । च॒ । मे॒ । सपी॑ति॒रिति॒ स - पी॒तिः॒ । च॒ । मे॒ । कृ॒षिः । च॒ । मे॒ । वृष्टिः॑ । च॒ । मे॒ । जैत्र᳚म् । च॒ । मे॒ । औद्भि॑द्य॒मित्यौत्-भि॒द्य॒म् । च॒ । मे॒ । र॒यिः । च॒ । मे॒ । रायः॑ । च॒ । मे॒ । पु॒ष्टम् । च॒ । मे॒ । पुष्टिः॑ । च॒ । मे॒ । वि॒भ्विति॑ वि - भु । च॒ ।
पदसंख्या: 50
TS 4.7.4.2 TS 4.7.4.2
मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मे ऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मे ऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे गो॒धूमा᳚श्च मे म॒सुरा᳚- ( ) -श्च मे प्रि॒यंग॑वश्च॒ मे ऽण॑वश्च मेश्या॒माका᳚श्च मे नी॒वारा᳚श्च मे ॥
▶ पदपाठः (Word-by-word)
मे॒ । प्र॒भ्विति॑ प्र - भु । च॒ । मे॒ । ब॒हु । च॒ । मे॒ । भूयः॑ । च॒ । मे॒ । पू॒र्णम् । च॒ । मे॒ । पू॒र्णत॑र॒मिति॑ पू॒र्ण - त॒र॒म् । च॒ । मे॒ । अक्षि॑तिः । च॒ । मे॒ । कूय॑वाः । च॒ । मे॒ । अन्न᳚म् । च॒ । मे॒ । अक्षु॑त् । च॒ । मे॒ । व्री॒हयः॑ । च॒ । मे॒ । यवाः᳚ । च॒ । मे॒ । माषाः᳚ । च॒ । मे॒ । तिलाः᳚ । च॒ । मे॒ । मु॒द्गाः । च॒ । मे॒ । ख॒ल्वाः᳚ । च॒ । मे॒ । गो॒धूमाः᳚ । च॒ । मे॒ । म॒सुराः᳚ ( ) । च॒ । मे॒ । प्रि॒यंग॑वः । च॒ । मे॒ । अण॑वः । च॒ । मे॒ । श्या॒माकाः᳚ । च॒ । मे॒ । नी॒वाराः᳚ । च॒ । मे॒ ॥
पदसंख्या: 64

अनुवाकः 5 (2 पञ्चाशत्)

TS 4.7.5.1 TS 4.7.5.1
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मेवी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ - [ ]
▶ पदपाठः (Word-by-word)
अश्मा᳚ । च॒ । मे॒ । मृत्ति॑का । च॒ । मे॒ । गि॒रयः॑ । च॒ । मे॒ । पर्व॑ताः । च॒ । मे॒ । सिक॑ताः । च॒ । मे॒ । वन॒स्पत॑यः । च॒ । मे॒ । हिर॑ण्यम् । च॒ । मे॒ । अयः॑ । च॒ । मे॒ । सीस᳚म् । च॒ । मे॒ । त्रपु॑ । च॒ । मे॒ । श्या॒मम् । च॒ । मे॒ । लो॒हम् । च॒ । मे॒ । अ॒ग्निः । च॒ । मे॒ । आपः॑ । च॒ । मे॒ । वी॒रुधः॑ । च॒ । मे॒ । ओष॑धयः । च॒ । मे॒ । कृ॒ष्ट॒प॒च्यमिति॑ कृष्ट - प॒च्यम् । च॒ ।
पदसंख्या: 50
TS 4.7.5.2 TS 4.7.5.2
मे ऽकृष्टप॒च्यं च॑ मे ग्रा॒यांश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां ॅवि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥
▶ पदपाठः (Word-by-word)
मे॒ । अ॒कृ॒ष्ट॒प॒च्यमित्य॑कृष्ट - प॒च्यम् । च॒ । मे॒ । ग्रा॒म्याः । च॒ । मे॒ । प॒शवः॑ । आ॒र॒ण्याः । च॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् । वि॒त्तम् । च॒ । मे॒ । वित्तिः॑ । च॒ । मे॒ । भू॒तम् । च॒ । मे॒ । भूतिः॑ । च॒ । मे॒ । वसु॑ । च॒ । मे॒ । व॒स॒तिः । च॒ । मे॒ । कर्म॑ । च॒ । मे॒ । शक्तिः॑ । च॒ । मे॒ । अर्थः॑ । च॒ । मे॒ । एमः॑ । च॒ । मे॒ । इतिः॑ । च॒ । मे॒ । गतिः॑ । च॒ । मे॒ ॥
पदसंख्या: 48

अनुवाकः 6 (2 पञ्चाशत्)

TS 4.7.6.1 TS 4.7.6.1
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च - [ ]
▶ पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । सोमः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । स॒वि॒ता । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । सर॑स्वती । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । पू॒षा । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । बृह॒स्पतिः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । मि॒त्रः । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । वरु॑णः । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । त्वष्टा᳚ । च॒ ।
पदसंख्या: 50
TS 4.7.6.2 TS 4.7.6.2
म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ ( ) इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्द्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥
▶ पदपाठः (Word-by-word)
मे॒ । इन्द्रः॑ । च॒ । मे॒ । धा॒ता । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । विष्णुः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । अ॒श्विनौ᳚ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । म॒रुतः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । विश्वे᳚ । च॒ । मे॒ । दे॒वाः । इन्द्रः॑ । च॒ । मे॒ । पृ॒थि॒वी । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । अ॒न्तरि॑क्षम् । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । द्यौः । च॒ । मे॒ ( ) । इन्द्रः॑ । च॒ । मे॒ । दिशः॑ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । मू॒र्द्धा । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । च॒ । मे॒ । इन्द्रः॑ । च॒ । मे॒ ॥
पदसंख्या: 71

अनुवाकः 7 (2 पञ्चाशत्)

TS 4.7.7.1 TS 4.7.7.1
अꣳ॒॒शुश्च॑ मे र॒श्मिश्च॒ मे ऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च मउपाꣳ॒॒शुश्च॑ मे ऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑- [ ]
▶ पदपाठः (Word-by-word)
अꣳ॒॒शुः । च॒ । मे॒ । र॒श्मिः । च॒ । मे॒ । अदा᳚भ्यः । च॒ । मे॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । च॒ । मे॒ । उ॒पाꣳ॒॒शुरित्यु॑प-अꣳ॒॒शुः । च॒ । मे॒ । अ॒न्त॒र्या॒म इत्य॑न्तः-या॒मः । च॒ । मे॒ । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र-वा॒य॒वः । च॒ । मे॒ । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । च॒ । मे॒ । आ॒श्वि॒नः । च॒ । मे॒ । प्र॒ति॒प्र॒स्थान॒ इति॑ प्रति - प्र॒स्थानः॑ । च॒ । मे॒ । शु॒क्रः । च॒ । मे॒ । म॒न्थी । च॒ । मे॒ । आ॒ग्र॒य॒णः । च॒ । मे॒ । वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । च॒ । मे॒ । ध्रु॒वः । च॒ । मे॒ । वै॒श्वा॒न॒रः । च॒ । मे॒ । ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः । च॒ ।
पदसंख्या: 50
TS 4.7.7.2 TS 4.7.7.2
मे ऽतिग्रा॒ह्या᳚श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मेमरुत्व॒तीया᳚श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मेसारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥
▶ पदपाठः (Word-by-word)
मे॒ । अ॒ति॒ग्रा॒ह्या᳚ इत्य॑ति-ग्रा॒ह्याः᳚ । च॒ । मे॒ । ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र-अ॒ग्नः । च॒ । मे॒ । वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । च॒ । मे॒ । म॒रु॒त्व॒तीयाः᳚ । च॒ । मे॒ । मा॒हे॒न्द्र इति॑ माहा - इ॒न्द्रः । च॒ । मे॒ । आ॒दि॒त्यः । च॒ । मे॒ । सा॒वि॒त्रः । च॒ । मे॒ । सा॒र॒स्व॒तः । च॒ । मे॒ । पौ॒ष्णः । च॒ । मे॒ । पा॒त्नी॒व॒त इति॑ पात्नी-व॒तः । च॒ । मे॒ । हा॒रि॒यो॒ज॒न इति॑ हारि-यो॒ज॒नः । च॒ । मे॒ ॥
पदसंख्या: 34

अनुवाकः 8 (1 पञ्चाशत्)

TS 4.7.8.1 TS 4.7.8.1
इ॒द्ध्मश्च॑ मे ब॒र्॒.हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च मउपर॒वाश्च॑ मे ऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी᳚द्ध्रं च मे हवि॒र्द्धानं॑ च मे गृ॒हाश्च॑ ( ) मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥
▶ पदपाठः (Word-by-word)
इ॒द्ध्मः । च॒ । मे॒ । ब॒र्॒.हिः । च॒ । मे॒ । वेदिः॑ । च॒ । मे॒ । धिष्णि॑याः । च॒ । मे॒ । स्रुचः॑ । च॒ । मे॒ । च॒म॒साः । च॒ । मे॒ । ग्रावा॑णः । च॒ । मे॒ । स्वर॑वः । च॒ । मे॒ । उ॒प॒र॒वा इत्यु॑प - र॒वाः । च॒ । मे॒ । अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । च॒ । मे॒ । द्रो॒ण॒क॒ल॒श इति॑ द्रोण-क॒ल॒शः । च॒ । मे॒ । वा॒य॒व्या॑नि । च॒ । मे॒ । पू॒त॒भृदिति॑ पूत - भृत् । च॒ । मे॒ । आ॒ध॒व॒नीय॒ इत्या᳚ - ध॒व॒नीयः॑ । च॒ । मे॒ । आग्नी᳚द्ध्र॒मित्याग्नि॑-इ॒द्ध्र॒म् । च॒ । मे॒ । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । च॒ । मे॒ । गृ॒हाः । च॒ ( ) । मे॒ । सदः॑ । च॒ । मे॒ । पु॒रो॒डाशाः᳚ । च॒ । मे॒ । प॒च॒ताः । च॒ । मे॒ । अ॒व॒भृ॒थ इत्य॑व - भृ॒थः । च॒ । मे॒ । स्व॒गा॒का॒र इति॑ स्वगा - का॒रः । च॒ । मे॒ ॥
पदसंख्या: 66

अनुवाकः 9 (1 पञ्चाशत्)

TS 4.7.9.1 TS 4.7.9.1
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒- मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा ( ) च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मे ऽहोरा॒त्रयो᳚ र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेतां ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । मे॒ । घ॒र्मः । च॒ । मे॒ । अ॒र्कः । च॒ । मे॒ । सूर्यः॑ । च॒ । मे॒ । प्रा॒ण इति॑ प्र - अ॒नः । च॒ । मे॒ । अ॒श्व॒मे॒ध इत्य॑श्व-मे॒धः । च॒ । मे॒ । पृ॒थि॒वी । च॒ । मे॒ । अदि॑तिः । च॒ । मे॒ । दितिः॑ । च॒ । मे॒ । द्यौः । च॒ । मे॒ । शक्व॑रीः । अ॒ङ्गुल॑यः । दिशः॑ । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् । ऋक् । च॒ । मे॒ । साम॑ । च॒ । मे॒ । स्तोमः॑ । च॒ । मे॒ । यजुः॑ । च॒ । मे॒ । दी॒क्षा ( ) । च॒ । मे॒ । तपः॑ । च॒ । मे॒ । ऋ॒तुः । च॒ । मे॒ । व्र॒तम् । च॒ । मे॒ । अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । वृ॒ष्ट्या । बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्पे॒ता॒म् ॥
पदसंख्या: 68

अनुवाकः 10 (2 पञ्चाशत्)

TS 4.7.10.1 TS 4.7.10.1
गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च ॑- [ ]
▶ पदपाठः (Word-by-word)
गर्भाः᳚ । च॒ । मे॒ । व॒थ्साः । च॒ । मे॒ । त्र्यवि॒रिति॑ त्रि - अविः॑ । च॒ । मे॒ । त्र्य॒वीति॑ त्रि - अ॒वी । च॒ । मे॒ । दि॒त्य॒वाडिति॑ दित्य - वाट् । च॒ । मे॒ । दि॒त्यौ॒ही । च॒ । मे॒ । पञ्चा॑वि॒रिति॒ पञ्च॑ - अ॒विः॒ । च॒ । मे॒ । प॒ञ्चा॒वीति॑ पञ्च-अ॒वी । च॒ । मे॒ । त्रि॒व॒थ्स इति॑ त्रि-व॒थ्सः । च॒ । मे॒ । त्रि॒व॒थ्सेति॑ त्रि - व॒थ्सा । च॒ । मे॒ । तु॒र्य॒वाडिति॑ तुर्य - वाट् । च॒ । मे॒ । तु॒र्यौ॒ही । च॒ । मे॒ । प॒ष्ठ॒वादिति॑ पष्ठ - वात् । च॒ । मे॒ । प॒ष्ठौ॒ही । च॒ । मे॒ । उ॒क्षा । च॒ । मे॒ । व॒शा । च॒ । मे॒ । ऋ॒ष॒भः । च॒ ।
पदसंख्या: 50
TS 4.7.10.2 TS 4.7.10.2
मे वे॒हच्च॑ मे ऽन॒ड्वान् च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पता-मपा॒नो य॒ज्ञेन॑ कल्पतां ॅव्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑-र्य॒ज्ञेन॑ कल्पताꣳ॒॒ श्रोत्रं॑ ॅय॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ ॅवाग् य॒ज्ञेन॑ कल्पता-मा॒त्मा य॒ज्ञेन॑ कल्पतां ॅय॒ज्ञो य॒ज्ञेन॑ कल्पतां ॥
▶ पदपाठः (Word-by-word)
म॒ । वे॒हत् । च॒ । मे॒ । अ॒न॒ड्वान् । च॒ । मे॒ । धे॒नुः । च॒ । मे॒ । आयुः॑ । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । प्रा॒ण इति॑ प्र - अ॒नः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । अ॒पा॒न इत्य॑प - अ॒नः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । व्या॒न इति॑ वि - अ॒नः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । चक्षुः॑ । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । श्रोत्र᳚म् । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । मनः॑ । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । वाक् । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । आ॒त्मा । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् । य॒ज्ञ्ः । य॒ज्ञेन॑ । क॒ल्प॒ता॒म् ॥
पदसंख्या: 40

अनुवाकः 11 (2 पञ्चाशत्)

TS 4.7.11.1 TS 4.7.11.1
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च मे स॒प्तविꣳ॑शतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च मे॒ त्रय॑स्त्रिꣳशच्च- [ ]
▶ पदपाठः (Word-by-word)
एका᳚ । च॒ । मे॒ । ति॒स्रः । च॒ । मे॒ । पञ्च॑ । च॒ । मे॒ । स॒प्त । च॒ । मे॒ । नव॑ । च॒ । मे॒ । एका॑दश । च॒ । मे॒ । त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ । च॒ । मे॒ । पञ्च॑द॒शेति॒ पञ्च॑-द॒श॒ । च॒ । मे॒ । स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । च॒ । मे॒ । नव॑द॒शेति॒ नव॑ - द॒श॒ । च॒ । मे॒ । एक॑विꣳशति॒रित्येक॑ - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । त्रयो॑विꣳशति॒रिति॒ त्रयः॑-विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । पञ्च॑विꣳशति॒रिति॒ पञ्च॑-विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । स॒प्तविꣳ॑शति॒रिति॑ स॒प्त -विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । नव॑विꣳशति॒रिति॒ नव॑ - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । एक॑त्रिꣳश॒दित्येक॑ - त्रिꣳ॒॒श॒त् । च॒ । मे॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । च॒ ।
पदसंख्या: 50
TS 4.7.11.2 TS 4.7.11.2
मे॒ चत॑स्रश्च मे॒ ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विꣳश॒तिश्च॑ मे॒ चतु॑र्विꣳशतिश्च मे॒ ऽष्टाविꣳ॑शतिश्च मे॒ द्वात्रिꣳ॑शच्च मे॒ षट्-त्रिꣳ॑शच्च मे चत्वारिꣳ॒॒शच्च॑ मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ ऽष्टाच॑त्वारिꣳशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑-पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्द्धा च॒ व्यश्ञि॑यश्चा- ( ) -न्त्याय॒नश्चा- न्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चा-धि॑पतिश्च ॥
▶ पदपाठः (Word-by-word)
मे॒ । चत॑स्रः । च॒ । मे॒ । अ॒ष्टौ । च॒ । मे॒ । द्वाद॑श । च॒ । मे॒ । षोड॑श । च॒ । मे॒ । विꣳ॒श॒तिः । च॒ । मे॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । अ॒ष्टाविꣳ॑शति॒रित्य॒ष्टा - विꣳ॒॒श॒तिः॒ । च॒ । मे॒ । द्वात्रिꣳ॑शत् । च॒ । मे॒ । षट्त्रिꣳ॑श॒दिति॒ षट् - त्रिꣳ॒॒श॒त् । च॒ । मे॒ । च॒त्वा॒रिꣳ॒॒शत् । च॒ । मे॒ । चतु॑श्चत्वारिꣳश॒दिति॒ चतुः॑ - च॒त्वा॒रिꣳ॒॒श॒त् । च॒ । मे॒ । अ॒ष्टाच॑त्वारिꣳश॒दित्य॒ष्टा - च॒त्वा॒रिꣳ॒॒श॒त् । च॒ । मे॒ । वाजः॑ । च॒ । प्र॒स॒व इति॑ प्र - स॒वः । च॒ । अ॒पि॒ज इत्य॑पि-जः । च॒ । क्रतुः॑ । च॒ । सुवः॑ । च॒ । मू॒द्‌र्धा । च॒ । व्यश्नि॑य॒ इति॑ वि - अश्नि॑यः ( ) । च॒ । अ॒न्त्या॒य॒नः । च॒ । अन्त्यः॑ । च॒ । भौ॒व॒नः । च॒ । भुव॑नः । च॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । च॒ ॥
पदसंख्या: 61

अनुवाकः 12 (3 पञ्चाशत्)

TS 4.7.12.1 TS 4.7.12.1
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒ विश्वै᳚र्दे॒वै-र्धन॑सातावि॒हाव॑तु ॥ विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साऽऽ ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ ॅवाजो॑ अ॒स्मे ॥ वाज॑स्य प्रस॒वं दे॑वा॒ रथै᳚र्याता हिर॒ण्ययैः᳚ । अ॒ग्निरिन्द्रो॒ बृह॒स्पति॑र्म॒रुतः॒ सोम॑पीतये ॥ वाजे॑वाजे ऽवत वाजिनो नो॒ धने॑षु - [ ]
▶ पदपाठः (Word-by-word)
वाजः॑ । नः॒ । स॒प्त । प्र॒दिश॒ इति॑ प्र - दिशः॑ । चत॑स्रः । वा॒ । प॒रा॒वत॒ इति॑ परा - वतः॑ ॥ वाजः॑ । नः॒ । विश्वैः᳚ । दे॒वैः । धन॑साता॒विति॒ धन॑ - सा॒तौ॒ । इ॒ह । अ॒व॒तु॒ ॥ विश्वे᳚ । अ॒द्य । म॒रुतः॑ । विश्वे᳚ । ऊ॒ती । विश्वे᳚ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । समि॑द्धा॒ इति॒ सं - इ॒द्धाः॒ ॥ विश्वे᳚ । नः॒ । दे॒वाः । अव॑सा । एति॑ । ग॒म॒न्तु॒ । विश्व᳚म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥ वाज॑स्य । प्र॒स॒वमिति॑ प्र - स॒वम् । दे॒वाः॒ । रथैः᳚ । या॒त॒ । हि॒र॒ण्ययैः᳚ ॥ अ॒ग्निः । इन्द्रः॑ । बृह॒स्पतिः॑ । म॒रुतः॑ । सोम॑पीतय॒ इति॒ सोम॑ - पी॒त॒ये॒ ॥ वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु ।
पदसंख्या: 50
TS 4.7.12.2 TS 4.7.12.2
विप्रा अमृता ऋतज्ञाः । अ॒स्य मद्ध्वः॑ पिबत मा॒दय॑द्ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः᳚ ॥ वाजः॑ पु॒रस्ता॑दु॒त म॑द्ध्य॒तो नो॒ वाजो॑ दे॒वाꣳ ऋ॒तुभिः॑ कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नन्न॑मीति॒ विश्वा॒ आशा॒ वाज॑पतिर्भवेयं ॥ पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॑न्तरि॑क्षे॒ पयो॑ धां । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्यं᳚ ॥ सं मा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सं मा॑ सृजाम्य॒प - [ ]
▶ पदपाठः (Word-by-word)
वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ज्ञा॒ इत्यृ॑त - ज्ञाः॒ ॥ अ॒स्य । मद्ध्वः॑ । पि॒ब॒त॒ । मा॒दय॑द्ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिभि॒रिति॑ प॒थि - भिः॒ । दे॒व॒यानै॒रिति॑ देव - यानैः᳚ ॥ वाजः॑ । पु॒रस्ता᳚त् । उ॒त । म॒द्ध्य॒तः । नः॒ । वाजः॑ । दे॒वान् । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । क॒ल्प॒या॒ति॒ ॥ वाज॑स्य । हि । प्र॒स॒व इति॑ प्र - स॒वः । नन्न॑मीति । विश्वाः᳚ । आशाः᳚ । वाज॑पति॒रिति॒ वाज॑ - प॒तिः॒ । भ॒वे॒य॒म् ॥ पयः॑ । पृ॒थि॒व्याम् । पयः॑ । ओष॑धीषु । पयः॑ । दि॒वि । अ॒न्तरि॑क्षे । पयः॑ । धा॒म् ॥ पय॑स्वतीः । प्र॒दिश॒ इति॑ प्र - दिशः॑ । स॒न्तु॒ । मह्य᳚म् ॥ समिति॑ । मा॒ । सृ॒जा॒मि॒ । पय॑सा । घृ॒तेन॑ । समिति॑ । मा॒ । सृ॒जा॒मि॒ । अ॒पः ।
पदसंख्या: 50
TS 4.7.12.3 TS 4.7.12.3
ओष॑धीभिः । सो॑ऽहं ॅवाजꣳ॑ सनेयमग्ने ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥ स॒मु॒द्रो॑ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒भूंर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑ऽसि म॒रुतां᳚ ग॒णः श॒भूंर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्युर॑सि॒ दुव॑स्वाञ्छ॒भूंर्म॑यो॒भूरभि मा॑ ( ) वाहि॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
ओष॑धीभि॒रित्योष॑धि - भिः॒ ॥ सः । अ॒हम् । वाज᳚म् । स॒ने॒य॒म् । अ॒ग्ने॒ ॥ नक्तो॒षासा᳚ । सम॑न॒सेति॒ स-म॒न॒सा॒ । विरू॑पे॒ इति॒ वि-रू॒पे॒ । धा॒पये॑ते॒ इति॑ । शिशु᳚म् । एक᳚म् । स॒मी॒ची इति॑ ॥ द्यावा᳚ । क्षाम॑ । रु॒क्मः । अ॒न्तः । वीति॑ । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न्न् । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ॥ स॒मु॒द्रः । अ॒सि॒ । नभ॑स्वान् । आ॒र्द्रदा॑नु॒रित्या॒र्द्र-दा॒नुः॒ । श॒भूंरिति॑ शं-भूः । म॒यो॒भूरिति॑ मयः-भूः । अ॒भीति॑ । मा॒ । वा॒हि॒ । स्वाहा᳚ । मा॒रु॒तः । अ॒सि॒ । म॒रुता᳚म् । ग॒णः । श॒भूंरिति॑ शं - भूः । म॒यो॒भूरिति॑ मयः - भूः । अ॒भीति॑ । मा॒ । वा॒हि॒ । स्वाहा᳚ । अ॒व॒स्युः । अ॒सि॒ । दुव॑स्वान् । श॒भूंरिति॑ शं - भूः । म॒यो॒भूरिति॑ मयः - भूः । अ॒भीति॑ । मा॒ ( ) । वा॒हि॒ । स्वाहा᳚ ॥
पदसंख्या: 52

अनुवाकः 13 (5 पञ्चाशत्)

TS 4.7.13.1 TS 4.7.13.1
अ॒ग्निं ॅयु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यꣳ सु॑प॒र्णं ॅवय॑सा बृ॒हन्तं᳚ । तेन॑ व॒यं प॑तेम ब्र॒द्ध्नस्य॑ वि॒ष्टपꣳ॒॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥ इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणो॒ याभ्याꣳ॒॒ रक्षाꣳ॑-स्यप॒हꣳ-स्य॑ग्ने । ताभ्यां᳚ पतेम सु॒कृता॑मु लो॒कं ॅयत्रर्.ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥ चिद॑सि समु॒द्रयो॑नि॒रिन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्यु-र्म॒हान्थ् स॒धस्थे᳚ ध्रु॒व - [ ]
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । यु॒न॒ज्मि॒ । शव॑सा । घृ॒तेन॑ । दि॒व्यम् । सु॒प॒र्णमिति॑ सु - प॒र्णम् । वय॑सा । बृ॒हन्त᳚म् ॥ तेन॑ । व॒यम् । प॒ते॒म॒ । ब्र॒द्ध्नस्य॑ । वि॒ष्टप᳚म् । सुवः॑ । रुहा॑णाः । अधीति॑ । नाके᳚ । उ॒त्त॒म इत्यु॑त् - त॒मे ॥ इ॒मौ । ते॒ । प॒क्षौ । अ॒जरौ᳚ । प॒त॒त्रिणः॑ । याभ्या᳚म् । रक्षाꣳ॑सि । अ॒प॒हꣳसीत्य॑प - हꣳसि॑ । अ॒ग्ने॒ ॥ ताभ्या᳚म् । प॒ते॒म॒ । सु॒कृता॒मिति॑ सु - कृता᳚म् । उ॒ । लो॒कम् । यत्र॑ । ऋष॑यः । प्र॒थ॒म॒जा इति॑ प्रथम - जाः । ये । पु॒रा॒णाः ॥ चित् । अ॒सि॒ । स॒मु॒द्रयो॑नि॒रिति॑ समु॒द्र - यो॒निः॒ । इन्दुः॑ । दक्षः॑ । श्ये॒नः । ऋ॒तावेत्यृ॒त - वा॒ ॥ हिर॑ण्यपक्ष॒ इति॒ हिर॑ण्य - प॒क्षः॒ । श॒कु॒नः । भु॒र॒ण्युः । म॒हान् । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । ध्रु॒वः ।
पदसंख्या: 50
TS 4.7.13.2 TS 4.7.13.2
आ निष॑त्तः ॥ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒र्विश्व॑स्य मू॒र्द्धन्नधि॑ तिष्ठसि श्रि॒तः । स॒मु॒द्रे ते॒ हृद॑य-म॒न्तरायु॒-र्द्यावा॑पृथि॒वी भुव॑ने॒ष्वर्पि॑ते ॥ उ॒द्नो द॑त्तोद॒धिं भि॑न्त्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत । दि॒वो मू॒र्द्धाऽसि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनां । वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ॥ येनर्.ष॑य॒स्तप॑सा स॒त्र - [ ]
▶ पदपाठः (Word-by-word)
एति॑ । निष॑त्त॒ इति॒ नि - स॒त्तः॒ ॥ नमः॑ । ते॒ । अ॒स्तु॒ । मा । मा॒ । हिꣳ॒॒सीः॒ । विश्व॑स्य । मू॒द्‌र्धन्न् । अधीति॑ । ति॒ष्ठ॒सि॒ । श्रि॒तः ॥ स॒मु॒द्रे । ते॒ । हृद॑यम् । अ॒न्तः । आयुः॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । भुव॑नेषु । अर्पि॑ते॒ इति॑ ॥ उ॒द्नः । द॒त्त॒ । उ॒द॒धिमित्यु॑द - धिम् । भि॒न्त॒ । दि॒वः । प॒र्जन्या᳚त् । अ॒न्तरि॑क्षात् । पृ॒थि॒व्याः । ततः॑ । नः॒ । वृष्ट्या᳚ । अ॒व॒त॒ ॥ दि॒वः । मू॒द्‌र्धा । अ॒सि॒ । पृ॒थि॒व्याः । नाभिः॑ । ऊर्क् । अ॒पाम् । ओष॑धीनाम् ॥ वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । शर्म॑ । स॒प्रथा॒ इति॑ स - प्रथाः᳚ । नमः॑ । प॒थे ॥ येन॑ । ऋष॑यः । तप॑सा । स॒त्रम् ।
पदसंख्या: 50
TS 4.7.13.3 TS 4.7.13.3
मास॒तेन्धा॑ना अ॒ग्निꣳ सुव॑रा॒भर॑न्तः । तस्मि॑न्न॒हं नि द॑धे॒ नाके॑ अ॒ग्निमे॒तं ॅयमा॒हुर्मन॑व स्ती॒र्णब॑र्.हिषं ॥ तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ आ वा॒चो मद्ध्य॑-मरुहद्-भुर॒ण्युर॒य-म॒ग्निः सत्प॑ति॒श्चेकि॑तानः ।पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुते॒ - [ ]
▶ पदपाठः (Word-by-word)
आस॑त । इन्धा॑नाः । अ॒ग्निम् । सुवः॑ । आ॒भर॑न्त॒ इत्या᳚ - भर॑न्तः ॥ तस्मिन्न्॑ । अ॒हम् । नीति॑ । द॒धे॒ । नाके᳚ । अ॒ग्निम् । ए॒तम् । यम् । आ॒हुः । मन॑वः । स्ती॒र्णब॑र्.हिष॒मिति॑ स्ती॒र्ण - ब॒र्॒.हि॒ष॒म् ॥ तम् । पत्नी॑भिः । अन्विति॑ । ग॒च्छे॒म॒ । दे॒वाः॒ । पु॒त्रैः । भ्रातृ॑भि॒रिति॒ भ्रातृ॑ - भिः॒ । उ॒त । वा॒ । हिर॑ण्यैः ॥ नाक᳚म् । गृ॒ह्णा॒नाः । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒के । तृ॒तीये᳚ । पृ॒ष्ठे । अधीति॑ । रो॒च॒ने । दि॒वः ॥ एति॑ । व॒चः । मद्ध्य᳚म् । अ॒रु॒ह॒त् । भु॒र॒ण्युः । अ॒यम् । अ॒ग्निः । सत्प॑ति॒रिति॒ सत् - प॒तिः॒ । चेकि॑तानः ॥ पृ॒ष्ठे । पृ॒थि॒व्याः । निहि॑त॒ इति॒ नि - हि॒तः॒ । दवि॑द्युतत् । अ॒ध॒स्प॒दमित्य॑धः - प॒दम् । कृ॒णु॒ते॒ ।
पदसंख्या: 50
TS 4.7.13.4 TS 4.7.13.4
ये पृ॑त॒न्यवः॑ ॥ अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन्न् । वि॒भ्राज॑मानः सरि॒रस्य॒ मद्ध्य॒ उप॒ प्र या॑त दि॒व्यानि॒ धाम॑ ॥ सं प्र च्य॑वद्ध्व॒मनु॒ सं प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुद्ध्वं । अ॒स्मिन्थ् स॒धस्थे॒ अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥ येना॑ स॒हस्रं॒ ॅवह॑सि॒ येना᳚ग्ने सर्ववेद॒सं । तेने॒मं ॅय॒ज्ञ्ं नो॑ वह देव॒यानो॒ य - [ ]
▶ पदपाठः (Word-by-word)
ये । पृ॒त॒न्यवः॑ ॥ अ॒यम् । अ॒ग्निः । वी॒रत॑म॒ इति॑ वी॒र - त॒मः॒ । व॒यो॒धा इति॑ वयः - धाः । स॒ह॒स्रियः॑ । दी॒प्य॒ता॒म् । अप्र॑युच्छ॒न्नित्यप्र॑ - यु॒च्छ॒न्न् ॥ वि॒भ्राज॑मान॒ इति॑ वि - भ्राज॑मानः । स॒रि॒रस्य॑ । मद्ध्ये᳚ । उप॑ । प्रेति॑ । या॒त॒ । दि॒व्यानि॑ । धाम॑ ॥ सम् । प्रेति॑ । च्य॒व॒द्ध्व॒म् । अन्विति॑ । सम् । प्रेति॑ । या॒त॒ । अग्ने᳚ । प॒थः । दे॒व॒याना॒निति॑ दे॒व - यानान्॑ । कृ॒णु॒द्ध्व॒म् ॥ अ॒स्मिन्न् । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । अधीति॑ । उत्त॑रस्मि॒न्नित्युत्-त॒र॒स्मि॒न्न् । विश्वे᳚ । दे॒वाः॒ । यज॑मानः । च॒ । सी॒द॒त॒ ॥ येन॑ । स॒हस्र᳚म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒वे॒द॒समिति॑ सर्व - वे॒द॒सम् ॥ तेन॑ । इ॒मम् । य॒ज्ञ्म् । नः॒ । व॒ह॒ । दे॒व॒यान॒ इति॑ देव - यानः॑ । यः ।
पदसंख्या: 50
TS 4.7.13.5 TS 4.7.13.5
उ॑त्त॒मः ॥ उद्-बु॑द्ध्यस्वाग्ने॒ प्रति॑ जागृह्येन मिष्टापू॒र्ते सꣳ सृ॑जेथाम॒यं च॑ । पुनः॑ कृ॒ण्वꣳस्त्वा॑ पि॒तरं॒ ॅयुवा॑न-म॒न्वाताꣳ॑सी॒त् त्वयि॒ तन्तु॑मे॒तं ॥ अ॒यं ते॒ योनि॑र्.ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्द्धया र॒यिं ॥
▶ पदपाठः (Word-by-word)
उ॒त्त॒म इत्यु॑त्-त॒मः ॥ उदिति॑ । बु॒द्ध्य॒स्व॒ । अ॒ग्ने॒ । प्रतीति॑ । जा॒गृ॒हि॒ । ए॒न॒म् । इ॒ष्टा॒पू॒र्ते इती᳚ष्टा - पू॒र्ते । समिति॑ । सृ॒जे॒था॒म् । अ॒यम् । च॒ ॥ पुनः॑ । कृ॒ण्वन्न् । त्वा॒ । पि॒तर᳚म् । युवा॑नम् । अ॒न्वाताꣳ॑सी॒दित्य॑नु-आताꣳ॑सीत् । त्वयि॑ । तन्तु᳚म् । ए॒तम् ॥ अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः ॥ तम् । जा॒नन्न् । अ॒ग्ने॒ । एति॑ । रो॒ह॒ । अथ॑ । नः॒ । व॒द्‌र्ध॒य॒ । र॒यिम् ॥
पदसंख्या: 37

अनुवाकः 14 (4 पञ्चाशत्)

TS 4.7.14.1 TS 4.7.14.1
ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑ना स्त॒नुवं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒ स्त्वया-ऽद्ध्य॑क्षेण॒ पृत॑ना जयेम ॥ मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्ष मु॒रु गो॒पम॑स्तु॒ मह्यं॒ ॅवातः॑ पवतां॒ कामे॑ अ॒स्मिन्न् ॥मयि॑ दे॒वा द्रवि॑ण॒ माय॑जन्तां॒ मय्या॒ शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त॒ - [ ]
▶ पदपाठः (Word-by-word)
मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ह॒वेष्विति॑ वि - ह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒नुव᳚म् । पु॒षे॒म॒ ॥ मह्य᳚म् । न॒म॒न्ता॒म् । प्र॒दिश॒ इति॑ प्र - दिशः॑ । चत॑स्रः । त्वया᳚ । अद्ध्य॑क्षे॒णेत्यधि॑ - अ॒क्षे॒ण॒ । पृत॑नाः । ज॒ये॒म॒ ॥ मम॑ । दे॒वाः । वि॒ह॒व इति॑ वि - ह॒वे । स॒न्तु॒ । सर्वे᳚ । इन्द्रा॑वन्त॒ इतीन्द्र॑ - व॒न्तः॒ । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः ॥ मम॑ । अ॒न्तरि॑क्षम् । उ॒रु । गो॒पम् । अ॒स्तु॒ । मह्य᳚म् । वातः॑ । प॒व॒ता॒म् । कामे᳚ । अ॒स्मिन्न् ॥ मयि॑ । दे॒वाः । द्रवि॑णम् । एति॑ । य॒ज॒न्ता॒म् । मयि॑ । आ॒शीरित्या᳚ - शीः । अ॒स्तु॒ । मयि॑ । दे॒वहू॑ति॒रिति॑ दे॒व - हू॒तिः॒ ॥ दैव्या᳚ । होता॑रा । व॒नि॒ष॒न्त॒ ।
पदसंख्या: 50
TS 4.7.14.2 TS 4.7.14.2
पूर्वे ऽरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥मह्यं॑ ॅयजन्तु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑तिः स॒त्या मन॑सो मे अस्तु ।एनो॒ मानिगां᳚ कत॒मच्च॒नाहं ॅविश्वे॑ देवासो॒ अधि॑वोच ता मे ॥देवीः᳚ षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवा स इ॒ह वी॑रयद्ध्वं ।माहा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न् ॥अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒- [ ]
▶ पदपाठः (Word-by-word)
पूर्वे᳚ । अरि॑ष्टाः । स्या॒म॒ । त॒नुवा᳚ । सु॒वीरा॒ इति॑ सु - वीराः᳚ ॥ मह्य᳚म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आकू॑ति॒रित्या - कू॒तिः॒ । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ ॥ एनः॑ । मा । नीति॑ । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे᳚ । दे॒वा॒सः॒ । अधीति॑ । वो॒च॒त॒ । मे॒ ॥ देवीः᳚ । ष॒डु॒र्वी॒रिति॑ षट् - उ॒र्वीः॒ । उ॒रु । नः॒ । कृ॒णो॒त॒ । विश्वे᳚ । दे॒वा॒सः॒ । इ॒ह । वी॒र॒य॒द्ध्व॒म् ॥ मा । हा॒स्म॒हि॒ । प्र॒जयेति॑ प्र - जया᳚ । मा । त॒नूभिः॑ । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न्न् ॥ अ॒ग्निः । म॒न्युम् । प्र॒ति॒नु॒दन्निति॑ प्रति - नु॒दन्न् । पु॒रस्ता᳚त् ।
पदसंख्या: 50
TS 4.7.14.3 TS 4.7.14.3
दद॑ब्धो गो॒पाः परि॑पाहि न॒स्त्वं । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ विने॑शत् ॥ धा॒ता धा॑तृ॒णां भुव॑नस्य॒ यस्पति॑ र्दे॒वꣳ स॑वि॒तार॑मभि माति॒षाहं᳚ । इ॒मं ॅय॒ज्ञ् म॒श्विनो॒भा बृह॒स्पति॑ र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्त्थात् ॥ उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यꣳ सद॒स्मिन्. हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा - [ ]
▶ पदपाठः (Word-by-word)
अद॑ब्धः । गो॒पा इति॑ गो - पाः । परीति॑ । पा॒हि॒ । नः॒ । त्वम् ॥ प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒गुत॒ इति॑ नि - गुतः॑ । पुनः॑ । ते । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒बुधेति॑ प्र - बुधा᳚ । वीति॑ । ने॒श॒त् ॥ धा॒ता । धा॒तृ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । स॒वि॒तार᳚म् । अ॒भि॒मा॒ति॒षाह॒मित्य॑भिमाति - साह᳚म् ॥ इ॒मम् । य॒ज्ञ्म् । अ॒श्विना᳚ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । न्य॒र्थादिति॑ नि- अ॒र्थात् ॥ उ॒रु॒व्यचा॒ इत्यु॑रु-व्यचाः᳚ । नः॒ । म॒हि॒षः । शर्म॑ । यꣳ॒॒स॒त् । अ॒स्मिन्न् । हवे᳚ । पु॒रु॒हू॒त इति॑ पुरु - हू॒तः । पु॒रु॒क्षु ॥ सः । नः॒ । प्र॒जाय॒ इति॑ प्र - जायै᳚ । ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ । मृ॒ड॒य॒ । इन्द्र॑ । मा ।
पदसंख्या: 50
TS 4.7.14.4 TS 4.7.14.4
नो॑ रीरिषो॒ मा परा॑ दाः ॥ ये नः॑ स॒पत्ना॒ अप॒ते भ॑वन्त्विन्द्रा॒-ग्निभ्या॒मव॑ बाधामहे॒ तान् ।वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒ स्पृशं॑ मो॒ग्रं चेत्ता॑रमधि रा॒जम॑क्रन्न् ॥ अ॒र्वाञ्च॒ मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्-ध॑न॒-जिद॑श्व॒-जिद्यः । इ॒मन्नो॑ य॒ज्ञ्ं ॅवि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा ॥
▶ पदपाठः (Word-by-word)
नः॒ । री॒रि॒षः॒ । मा । परेति॑ । दाः॒ ॥ ये । नः॒ । स॒पत्नाः᳚ । अपेति॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि-भ्या॒म् । अवेति॑ । बा॒धा॒म॒हे॒ । तान् ॥ वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒स्पृश॒मित्यु॑परि - स्पृश᳚म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒रा॒जमित्य॑धि - रा॒जम् । अ॒क्र॒न्न् ॥ अ॒र्वाञ्च᳚म् । इन्द्र᳚म् । अ॒मुतः॑ । ह॒वा॒म॒हे॒ । यः । गो॒जिदिति॑ गो - जित् । ध॒न॒जिदिति॑ धन - जित् । अ॒श्व॒जिदित्य॑श्व - जित् । यः ॥ इ॒मम् । नः॒ । य॒ज्ञ्म् । वि॒ह॒व इति॑ वि - ह॒वे । जु॒ष॒स्व॒ । अ॒स्य । कु॒र्मः॒ । ह॒रि॒व॒ इति॑ हरि - वः॒ । मे॒दिन᳚म् । त्वा॒ ॥
पदसंख्या: 43

अनुवाकः 15 (7 पञ्चाशत्)

TS 4.7.15.1 TS 4.7.15.1
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हवः॑ समि॒न्धते᳚ । विश्व॑स्यां ॅवि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ यस्ये॒दं प्रा॒णन्नि॑मि॒षद् यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लं । स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ - [ ]
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । म॒न्वे॒ । प्र॒थ॒मस्य॑ । प्रचे॑तस॒ इति॒ प्र - चे॒त॒सः॒ । यम् । पाञ्च॑जन्य॒मिति॒ पाञ्च॑ - ज॒न्य॒म् । ब॒हवः॑ । स॒मि॒न्धत॒ इति॑ सम् - इ॒न्धते᳚ ॥ विश्व॑स्याम् । वि॒शि । प्र॒वि॒वि॒शि॒वाꣳस॒मिति॑ प्र - वि॒वि॒शि॒वाꣳस᳚म् । ई॒म॒हे॒ । सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ यस्य॑ । इ॒दम् । प्रा॒णदिति॑ प्र - अ॒नत् । नि॒मि॒षदिति॑ नि - मि॒षत् । यत् । एज॑ति । यस्य॑ । जा॒तम् । जन॑मानम् । च॒ । केव॑लम् ॥ स्तौमि॑ । अ॒ग्निम् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ इन्द्र॑स्य । म॒न्ये॒ । प्र॒थ॒मस्य॑ । प्रचे॑तस॒ इति॒ प्र - चे॒त॒सः॒ । वृ॒त्र॒घ्न इति॑ वृत्र-घ्नः । स्तोमाः᳚ । उपेति॑ । माम् । उ॒पागु॒रित्यु॑प - आगुः॑ ॥ यः । दा॒शुषः॑ । सु॒कृत॒ इति॑ सु - कृतः॑ । हव᳚म् । उपेति॑ । गन्ता᳚ ।
पदसंख्या: 50
TS 4.7.15.2 TS 4.7.15.2
स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ यः सं॑ग्रा॒मं नय॑ति॒ संॅ ॅव॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥म॒न्वे वां᳚ मित्रा वरुणा॒ तस्य॑ वित्तꣳ॒॒ सत्यौ॑जसा दृꣳहणा॒ यं नु॒देथे᳚ । या राजा॑नꣳ स॒रथं॑ ॅया॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ॥ यो वाꣳ॒॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒ श्चर॑न्त-मुप॒याति॑ दू॒षयन्न्॑ । स्तौमि॑ - [ ]
▶ पदपाठः (Word-by-word)
सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ यः । स॒ग्रां॒ममिति॑ सम् - ग्रा॒मम् । नय॑ति । समिति॑ । व॒शी । यु॒धे । यः । पु॒ष्टानि॑ । सꣳ॒॒सृ॒जतीति॑ सं-सृ॒जति॑ । त्र॒याणि॑ ॥ स्तौमि॑ । इन्द्र᳚म् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । सः । नः॒ । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ म॒न्वे । वा॒म् । मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । तस्य॑ । वि॒त्त॒म् । सत्यौ॑ज॒सेति॒ सत्य॑ - ओ॒ज॒सा॒ । दृꣳ॒॒ह॒णा॒ । यम् । नु॒देथे॒ इति॑ ॥ या । राजा॑नम् । स॒रथ॒मिति॑ स-रथ᳚म् । या॒थः । उ॒ग्रा॒ । ता । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ यः । वा॒म् । रथः॑ । ऋ॒जुर॑श्मि॒रित्यृ॒जु - र॒श्मिः॒ । स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । मिथु॑ । चर॑न्तम् । उ॒प॒यातीत्यु॑प - याति॑ । दू॒षयन्न्॑ ॥ स्तौमि॑ ।
पदसंख्या: 50
TS 4.7.15.3 TS 4.7.15.3
मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥वा॒योः स॑वि॒तु र्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्-बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥उप॒ श्रेष्ठा॑न आ॒शिषो॑ दे॒वयो॒र्द्धर्मे॑ अस्थिरन्न् ।स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । ययो᳚ -[ ]
▶ पदपाठः (Word-by-word)
मि॒त्रावरु॒णेति॑ मि॒त्रा - वरु॑णा । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ वा॒योः । स॒वि॒तुः । वि॒दथा॑नि । म॒न्म॒हे॒ । यौ । आ॒त्म॒न्वदित्या᳚त्मन्न् - वत् । बि॒भृ॒तः । यौ । च॒ । रक्ष॑तः ॥ यौ । विश्व॑स्य । प॒रि॒भू इति॑ परि - भूः । ब॒भू॒वतुः॑ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ उपेति॑ । श्रेष्ठाः᳚ । नः॒ । आ॒शिष॒ इत्या᳚ - शिषः॑ । दे॒वयोः᳚ । धर्मे᳚ । अ॒स्थि॒र॒न्न् ॥ स्तौमि॑ । वा॒युम् । स॒वि॒तार᳚म् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ र॒थीत॑मा॒विति॑ र॒थि - त॒मौ॒ । र॒थी॒नाम् । अ॒ह्वे॒ । ऊ॒तये᳚ । शुभं᳚ । गमि॑ष्ठौ । सु॒यमे॑भि॒रिति॑ सु - यमे॑भिः । अश्वैः᳚ ॥ ययोः᳚ ।
पदसंख्या: 50
TS 4.7.15.4 TS 4.7.15.4
-र्वां देवौ दे॒वेष्व-नि॑शित॒-मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥यदया॑तं ॅवॅह॒तुꣳ सू॒र्याया᳚-स्त्रिच॒क्रेण॑ सꣳ॒॒ सद॑मि॒च्छमा॑नौ ।स्तौमि॑ दे॒वा व॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥म॒रुतां᳚ मन्वे॒ अधि॑नो ब्रुवन्तु॒ प्रेमां ॅवाचं॒ ॅविश्वा॑ मवन्तु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ति॒ग्ममायु॑धं ॅवीडि॒तꣳ सह॑स्वद् दि॒व्यꣳ शर्द्धः॒ - [ ]
▶ पदपाठः (Word-by-word)
वा॒म् । दे॒वौ॒ । दे॒वेषु॑ । अनि॑शित॒मित्यनि॑-शि॒त॒म् । ओजः॑ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ यत् । अया॑तम् । व॒ह॒तुम् । सू॒र्यायाः᳚ । त्रि॒च॒क्रेणेति॑ त्रि - च॒क्रेण॑ । सꣳ॒॒सद॒मिति॑ सम् - सद᳚म् । इ॒च्छमा॑नौ ॥ स्तौमि॑ । दे॒वौ । अ॒श्विनौ᳚ । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । तौ । नः॒ । मु॒ञ्च॒त॒म् । आग॑सः ॥ म॒रुता᳚म् । म॒न्वे॒ । अधीति॑ । नः॒ । ब्रु॒व॒न्तु॒ । प्रेति॑ । इ॒माम् । वाच᳚म् । विश्वा᳚म् । अ॒व॒न्तु॒ । विश्वे᳚ ॥ आ॒शून् । हु॒वे॒ । सु॒यमा॒निति॑ सु - यमान्॑ । ऊ॒तये᳚ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ ति॒ग्मम् । आयु॑धम् । वी॒डि॒तम् । सह॑स्वत् । दि॒व्यम् । शर्द्धः॑ ।
पदसंख्या: 50
TS 4.7.15.5 TS 4.7.15.5
पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां ॅवाचं॒ ॅविश्वा॑मवन्तु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न ।स्तौमि॒ विश्वा᳚न् दे॒वान् ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥अनु॑नो॒ऽद्यानु॑मति॒ रन्वि - [ ]
▶ पदपाठः (Word-by-word)
पृत॑नासु । जि॒ष्णु ॥ स्तौमि॑ । दे॒वान् । म॒रुतः॑ । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ दे॒वाना᳚म् । म॒न्वे॒ । अधीति॑ । नः॒ । ब्रु॒व॒न्तु॒ । प्रेति॑ । इ॒माम् । वाच᳚म् । विश्वा᳚म् । अ॒व॒न्तु॒ । विश्वे᳚ ॥ आ॒शून् । हु॒वे॒ । सु॒यमा॒निति॑ सु - यमान्॑ । ऊ॒तये᳚ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ यत् । इ॒दम् । मा॒ । अ॒भि॒शोच॒तीत्य॑भि-शोच॑ति । पौरु॑षेयेण । दैव्ये॑न ॥ स्तौमि॑ । विश्वान्॑ । दे॒वान् । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । एन॑सः ॥ अन्विति॑ । नः॒ । अ॒द्य । अनु॑मति॒रियनु॑ - म॒तिः॒ । अन्विति॑ ।
पदसंख्या: 50
TS 4.7.15.6 TS 4.7.15.6
द॑नुमते॒ त्वं ॅवै᳚श्वान॒रो न॑ ऊ॒त्यापृ॒ष्टो दि॒वि>ये अप्र॑थेता॒-ममि॑तेभि॒ रोजो॑भि॒ र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ ॅवसू॑नां ।स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ ह॑सः ॥उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातं ।स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ ह॑सः ॥यत् ते॑ व॒यं पु॑रुष॒त्रा य॑वि॒ष्ठा वि॑द्वाꣳसश्चकृ॒मा कच्च॒ ना - [ ]
▶ पदपाठः (Word-by-word)
इत् । अ॒नु॒म॒त॒ इत्य॑नु - म॒ते॒ । त्वम् । वै॒श्वा॒न॒रः । नः॒ । ऊ॒त्या । पृ॒ष्टः । दि॒वि ॥ ये इति॑ । अप्र॑थेताम् । अमि॑तेभिः । ओजो॑भि॒रित्योजः॑ - भिः॒ । ये इति॑ । प्र॒ति॒ष्ठे इति॑ प्रति - स्थे । अभ॑वताम् । वसू॑नाम् ॥ स्तौमि॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते इति॑ । नः॒ । मु॒ञ्च॒त॒म् । अꣳह॑सः ॥ उर्वी॒ इति॑ । रो॒द॒सी॒ इति॑ । वरि॑वः । कृ॒णो॒त॒म् । क्षेत्र॑स्य । प॒त्नी॒ इति॑ । अधीति॑ । नः॒ । ब्रू॒या॒त॒म् ॥ स्तौमि॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते इति॑ । नः॒ । मु॒ञ्च॒त॒म् । अꣳह॑सः ॥ यत् । ते॒ । व॒यम् । पु॒रु॒ष॒त्रेति॑ पुरुष-त्रा । य॒वि॒ष्ठ॒ । अवि॑द्वाꣳसः । च॒कृ॒म । कत् । च॒न ।
पदसंख्या: 50
TS 4.7.15.7 TS 4.7.15.7
ऽऽ*गः॑ । कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने ॥यथा॑ ह॒ तद् व॑सवो गौ॒र्यं॑ चित् प॒दिषि॒ता ममु॑ञ्चता यजत्राः ।ए॒वा त्वम॒स्मत् प्रमु॑ञ्चा॒ व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥
▶ पदपाठः (Word-by-word)
आगः॑ ॥ कृ॒धि । स्विति॑ । अ॒स्मान् । अदि॑तेः । अना॑गाः । वीति॑ । एनाꣳ॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥ यथा᳚ । ह॒ । तत् । व॒स॒वः॒ । गौ॒र्य᳚म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ॥ ए॒वा । त्वम् । अ॒स्मत् । प्रेति॑ । मु॒ञ्च॒ । वीति॑ । अꣳहः॑ । प्रेति॑ । अ॒ता॒रि॒ । अ॒ग्ने॒ । प्र॒त॒रामिति॑ प्र - त॒राम् । नः॒ । आयुः॑ ॥(अ॒ग्नेर्म॑न्वे॒ - यस्ये॒द- मिन्द्र॑स्य॒ - यः सं॑ ग्रा॒ममिन्द्रꣳ॒॒ - स नो॑ मुञ्च॒त्वꣳ ह॑सः । म॒न्वे वा॒न्ता नो॑ मुञ्चत॒माग॑सः । यो वां᳚ - वा॒यो- रुप॑ - र॒थीत॑मौ॒ - यदया॑त-म॒श्विनौ॒ - तौ नो॑ मुञ्चत॒माग॑सः । म॒रुता᳚न्- ति॒ग्मं - म॒रुतो॑ - दे॒वानां॒ - ॅयदि॒दं ॅविश्वा॒न् - ते नो॑ मुञ्च॒न्त्वेन॑सः । अनु॑ न॒ - उर्वी॒ - द्यावा॑पृथि॒वी - ते नो॑ मुञ्चत॒मꣳह॑सो॒ यत्तै᳚ । च॒तुरꣳ ह॑सः॒ षाडाग॑सश्च॒तुरेन॑सो॒ द्विरꣳह॑सः ।
पदसंख्या: 34