TB 1.3.10

10 पञ्चाशत्

1.3.10 अनुवाकं 10 - पिण्डपितृयज्ञ्ः दर्शपूर्णमासब्राह्मणशेषः

1.3.10.1
इन्द्रो वृ॒त्रꣳ ह॒त्वा । असु॑रान् परा॒भाव्य॑ । सो॑ऽमावा॒स्यां᳚ प्रत्याग॑च्छत् । ते पि॒तरः॑ पूर्वे॒द्यु-राग॑च्छन्न् । पि॒तॄन्. य॒ज्ञो॑ऽगच्छत् । तं दे॒वाः पुन॑रयाचन्त । तमे᳚भ्यो॒ न पुन॑रददुः । ते᳚ऽब्रुव॒न् वरं॑ ॅवृणामहै । अथ॑ वः॒ पुन॑र्दास्यामः । अ॒स्मभ्य॑मे॒व पू᳚र्वे॒द्युः क्रि॑याता॒ इति॑
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.2
तमे᳚भ्यः॒ पुन॑रददुः । तस्मा᳚त्-पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते । यत् पि॒तृभ्यः॑ पूर्वे॒द्युः क॒रोति॑ । पि॒तृभ्य॑ ए॒व तद्-य॒ज्ञ्ं नि॒ष्क्रीय॒ यज॑मानः॒ प्रत॑नुते ॥ सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह । पि॒तुरे॒वाधि॑ सोमपी॒थमव॑ रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑ । इ॒न्द्रि॒यं ॅवै सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑-रुन्धे । तेन᳚न्द्रि॒येण॑ द्वि॒तीयां᳚ जा॒याम॒भ्य॑श्ञुते ।
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.3
ए॒तद् वै ब्राह्म॑णं पु॒रा वा॑जश्रव॒सा वि॒दाम॑क्रन्न् । तस्मा॒त् ते द्वेद्वे॑ जा॒ये अ॒भ्या᳚क्षत । य ए॒वं ॅवेद॑ । अ॒भि द्वि॒तीयां᳚ जा॒याम॑श्ञुते ॥ अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह । य ए॒व पि॑तृ॒णाम॒ग्निः । तं प्री॑णाति ॥ ति॒स्र आहु॑तीर् जुहोति ॥ त्रिर्निद॑धाति ॥ षट्थ् संप॑द्यन्ते
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.4
षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ॥ तू॒ष्णीं मेक्ष॑ण॒-माद॑धाति । अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा᳚ ॥ दे॒वान्. वै पि॒तॄन् प्री॒तान् । म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते । ति॒स्र आहु॑तीर् जुहोति । त्रिर्निद॑धाति । षट्थ् संप॑द्यन्ते । षड्वा ऋ॒तवः॑
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.5
ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तरः॑ । ऋ॒तूने॒व दे॒वान् पि॒तॄन् प्री॑णाति । तान्प्री॒तान् । म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते ॥ स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒.हिर् भ॑वति । स॒कृदि॑व॒ हि पि॒तरः॑ ॥ त्रिर्निद॑धाति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति ॥ परा॒ङाव॑र्तते
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.6
ह्लीका॒ हि पि॒तरः॑ ॥ ऒष्मणो᳚ व्या॒वृत॒ उपा᳚स्ते । ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्यां(3)न प्राश्या(3)मिति॑ । यत् प्रा᳚श्ञी॒यात् । जन्य॒मन्न॑मद्यात् । प्र॒मायु॑कः स्यात् । यन्न प्रा᳚श्ञी॒यात् । अह॑विः स्यात्
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.7
पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑मे॒व । तन्नेव॒ प्राशि॑तं॒ नेवाप्रा॑शितम् ॥ वी॒रं ॅवा॒ वै पि॒तरः॑ प्र॒यन्तो॒ हर॑न्ति । वी॒रं ॅवा॑ ददति । द॒शां छि॑नत्ति । हर॑णभागा॒ हि पि॒तरः॑ । पि॒तॄने॒व नि॒रव॑दयते ॥ उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत । पि॒तृ॒णाꣳ ह्ये॑तर्.हि॒ नेदी॑यः ।
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.8
नम॑स्करोति । न॒म॒स्का॒रो हि पि॑तृ॒णाम् ॥ नमो॑ वः पितरो॒ रसा॑य । नमो॑ वः पितरः॒ शुष्मा॑य । नमो॑ वः पितरो जी॒वाय॑ । नमो॑ वः पितरः स्व॒धायै᳚ । नमो॑ वः पितरो म॒न्यवे᳚ । नमो॑ वः पितरो घो॒राय॑ । पित॑रो॒ नमो॑ वः । य ए॒तस्मि॑न् ॅलो॒के स्थ
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.9
यु॒ष्माꣳस्तेऽनु॑ । ये᳚ऽस्मिॅल्लो॒के । मां ते नु॑ । य ए॒तस्मि॑ॅल्लो॒के स्थ । यू॒यं तेषां॒ ॅवसि॑ष्ठा भूयास्त । ये᳚ऽस्मिॅल्लो॒के । अ॒हं तेषां॒ ॅवसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठः समा॒नानां᳚ भवति । य ए॒वं ॅवि॒द्वान्-पि॒तृभ्यः॑ क॒रोति॑ ॥ ए॒ष वै म॑नु॒ष्या॑णां ॅय॒ज्ञ्ः
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)
1.3.10.10
दे॒वानां॒ ॅवा इत॑रे य॒ज्ञाः । तेन॒ वा ए॒तत् पि॑तृलो॒के च॑रति ॥ यत् पि॒तृभ्यः॑ क॒रोति॑ । स ई᳚श्व॒रः प्रमे॑तोः । प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ । न प्र॒मायु॑को भवति ॥ पि॒तृ॒लो॒के वा ए॒तद्-यज॑मानश्चरति । यत् पि॒तृभ्यः॑ क॒रोति॑ ( ) । स ई᳚श्व॒र आर्ति॒मार्तोः᳚ । प्र॒जाप॑ति॒-स्त्वावैनं॒ तत॒ उन्ने॑तुमर्.ह॒तीत्या॑हुः । यत् प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैनं॒ तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।
कोर्वै (Index)
(इत्य॑ - श्ञुते - पद्यन्ते - पद्यन्ते॒ षड्वा ऋ॒तवो॑ - वर्त॒तेऽ - ह॑विः स्या॒न् - नेदी॑यः॒ - स्थ - य॒ज्ञो - यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च)