TB 1.3.8

5 पञ्चाशत्

1.3.8 अनुवाकं 8 - अन्नहोमाः, अभिषेकश्च

1.3.8.1
स॒प्तान्न॑-हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्तार॒ण्याः । उ॒भयी॑षा॒-मव॑रुद्ध्यै ॥ अन्न॑स्या-न्नस्य जुहोति । अन्न॑स्यान्न॒स्या-व॑रुद्ध्यै ॥ यद्-वा॑जपेयया॒ज्य-न॑वरुद्धस्याश्ञी॒यात्
कोर्वै (Index)
(अ॒श्ञी॒या - दन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ - इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒ मीत्या॑ह-वाज॒सृतः॒ - शिपि॒ स्त्रीणि॑ च)
1.3.8.2
अव॑रुद्धेन॒ व्यृ॑द्ध्येत । सर्व॑स्य समव॒दाय॑ जुहोति । अन॑वरुद्ध॒-स्याव॑रुद्ध्यै ॥ औदु॑म्बरेण स्रु॒वेण॑ जुहोति । ऊर्ग्वा अन्न॑-मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृ प्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भि-र॒भिषि॑ञ्चति ॥ अन्न॑स्यान्नस्या॒भिषि॑ञ्चति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।
कोर्वै (Index)
(अ॒श्ञी॒या - दन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ - इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒ मीत्या॑ह-वाज॒सृतः॒ - शिपि॒ स्त्रीणि॑ च)
1.3.8.3
पु॒रस्ता᳚त्-प्र॒त्यञ्च॑-म॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि-प्र॑ती॒चीन॒-मन्न॑म॒द्यते᳚ । शी॒र्॒.ष॒तो॑ऽभिषि॑ञ्चति । शी॒र्॒.ष॒तो ह्यन्न॑म॒द्यते᳚ ॥ आमुखा॑द॒न्वव॑ स्रावयति । मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधाति ॥ अ॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ए॒ष वा अ॒ग्नेः स॒वः । तेनै॒वैन॑-म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह
कोर्वै (Index)
(अ॒श्ञी॒या - दन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ - इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒ मीत्या॑ह-वाज॒सृतः॒ - शिपि॒ स्त्रीणि॑ च)
1.3.8.4
इ॒न्द्रि॒य-मे॒वास्मि॑-न्ने॒तेन॑ दधाति । बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒-मीत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैन॑-म॒भिषि॑ञ्चति ॥ सो॒म॒ग्र॒हाꣳश्चा॑-वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑ हरन्ति । अ॒मुमे॒व तैर् लो॒क-मन्न॑वन्तं करोति । सु॒रा॒ग्र॒हाꣳश्चा॑-नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ । इ॒ममे॒व तैर् लो॒क-मन्न॑वन्तं करोति । अथो॑ उ॒भयी᳚ष्वे॒वाभिषि॑च्यते ॥ वि॒मा॒थं कु॑र्वते वाज॒सृतः॑
कोर्वै (Index)
(अ॒श्ञी॒या - दन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ - इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒ मीत्या॑ह-वाज॒सृतः॒ - शिपि॒ स्त्रीणि॑ च)
1.3.8.5
इ॒न्द्रि॒यस्याव॑रुद्ध्यै ॥ अनि॑रुक्ताभिः प्रातस्सव॒ने स्तु॑वते । अनि॑रुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । वाज॑वतीभि॒र्-माद्ध्य॑न्दिने । अन्नं॒ ॅवै वाजः॑ । अन्न॑मे॒वा-व॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभि-स्तृतीयसव॒ने । य॒ज्ञो वै विष्णुः॑ । प॒शवः॒ शिपिः॑ ( ) । य॒ज्ञ् ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ॥ बृ॒हदन्त्यं॑ भवति । अन्त॑मे॒वैनꣳ॑ श्रि॒यै ग॑मयति ।
कोर्वै (Index)
(अ॒श्ञी॒या - दन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ - इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒ मीत्या॑ह-वाज॒सृतः॒ - शिपि॒ स्त्रीणि॑ च)