TB 1.3.7

8 पञ्चाशत्

1.3.7 अनुवाकं 7 - यूपारोहणम्

1.3.7.1
ता॒र्प्यं ॅयज॑मानं॒ परि॑धापयति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैनꣳ॒॒ सम॑र्द्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ ॅवै द॒र्भाः । पु॒नात्ये॒वैन᳚म् । वाजं॒ ॅवा ए॒षोऽव॑रुरुथ्सते । यो वा॑ज॒पेये॑न॒ यज॑ते । ओष॑धयः॒ खलु॒ वै वाजः॑ । यद्-द॑र्भ॒मयं॑ परिधा॒पय॑ति
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च
1.3.7.2
वाज॒स्याव॑-रुद्ध्यै ॥ जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्नि॑या ए॒वैष य॒ज्ञ्स्या᳚न्-वार॒म्भोऽन॑वच्छित्यै ॥ स॒प्तद॑शा-रत्नि॒र्यूपो॑ भवति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ तू॒प॒र-श्चतु॑रश्रिर्-भवति ॥ गौ॒धू॒मं च॒षाल᳚म् । न वा ए॒ते व्री॒हयो॒ न यवाः᳚ । यद्-गो॒धूमाः᳚
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च
1.3.7.3
ए॒वमि॑व॒ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तं करोति ॥ वासो॑भिर्-वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॒दे॒व॒त्यं॑ ॅवासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्द्धयति । अथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ ॅयज॑मानः कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ द्वाद॑श वाजप्रस॒वीया॑नि जुहोति
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च
1.3.7.4
द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः । सं॒ॅव॒थ्स॒रमे॒व प्री॑णाति । अथो॑ संॅवथ्स॒रमे॒वास्मा॒ उप॑ दधाति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ द॒शभिः॒ कल्पै॑ रोहति । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा । सु॒व॒र्गं ॅलो॒कमे॑ति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम्
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च
1.3.7.5
याव॑त्-प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं ॅलो॒कमे॑ति ॥ सुव॑र्दे॒वाꣳ अ॑ग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमे॑ति । अ॒मृता॑ अभू॒मेत्या॑ह । अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑तेः प्र॒जा अ॑भू॒मेत्या॑ह । प्रा॒जा॒प॒त्यो वा अ॒यं ॅलो॒कः । अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ।
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च
1.3.7.6
सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जेत्या॑ह । आ॒शिष॑मे॒वैता-माशा᳚स्ते ॥ आ॒स॒पु॒टैर् घ्न॑न्ति । अन्नं॒ ॅवा इ॒यम् । अ॒न्नाद्ये॑नै॒वैनꣳ॒॒ सम॑र्द्धयन्ति । ऊषै᳚र् घ्नन्ति । ए॒ते हि सा॒क्षादन्न᳚म् । यदूषाः᳚ । सा॒क्षादे॒वैन॑-म॒न्नाद्ये॑न॒ सम॑र्द्धयन्ति ॥ पु॒रस्ता᳚त्-प्र॒त्यञ्चं᳚ घ्नन्ति
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च
1.3.7.7
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒-मन्न॑म॒द्यते᳚ ॥ शी॒र्॒.ष॒तो घ्न॑न्ति । शी॒र्॒.ष॒तो ह्यन्न॑म॒द्यते᳚ ॥ दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒-मव॑रुन्धते ॥ ई॒श्व॒रो वा ए॒ष परा᳚ङ्-प्र॒दघः॑ । यो यूपꣳ॒॒ रोह॑ति ॥ हिर॑ण्यम॒द्ध्य-व॑रोहति । अ॒मृतं॒ ॅवै हिर॑ण्यम् । अ॒मृतꣳ॑ सुव॒र्गो लो॒कः ( )
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च
1.3.7.8
अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठति ॥ श॒तमा॑नं भवति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ॥ पुष्ट्यै॒ वा ए॒तद्-रू॒पम् । यद॒जा । त्रिः सं॑ॅवथ्स॒रस्या॒न्यान्-प॒शून् परि॒ प्रजा॑यते ॥ ब॒स्ता॒जि॒न-म॒द्ध्यव॑ रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ।
कोर्वै (Index)
(प॒रि॒धा॒पय॑ति - गो॒धूमा॑ - जुहोति॒ - स्वं - नैति॑ - प्र॒त्यञ्जं॑ घ्नन्ति - लो॒को - +नव॑ च