दे॒वा वै यथा॒दर्.शं॑ ॅय॒ज्ञानाह॑रन्त । यो᳚ऽग्निष्टो॒मम् । य उ॒क्थ्य᳚म् । यो॑ऽतिरा॒त्रम् । ते स॒हैव सर्वे॑ वाज॒पेय॑-मपश्यन्न् । ते । अ॒न्यो᳚न्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ । ते᳚ऽब्रुवन्न् । आ॒जिम॒स्य धा॑वा॒मेति॑
कोर्वै (Index)
(धा॒वा॒मेति॒ - ज्यैष्ठ्या॑य॒ - वेद॑ - ब्र॒ह्मा जा॑यते-वाज॒पेयः॒-सुरा-ऽऽर्त्वि॑जीन॒ एकं॑ च )