TB 1.3.9

3 पञ्चाशत्

1.3.9 अनुवाकं 9 - अतिग्राह्याः, पञ्चैन्द्राः

1.3.9.1
नृ॒षदं॒ त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते । द्रु॒षद॒मित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वै तेन॑ सूयते । भु॒व॒न॒सद॒-मित्या॑ह । य॒दा वै वसी॑या॒न् भव॑ति । भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुव॑नमे॒वैतेन॑ गच्छति ।
कोर्वै (Index)
(ग॒च्छ॒ति॒ - सू॒यते॒ - +नव॑ च)
1.3.9.2
अ॒फ्सु॒षदं॑ त्वा घृत॒सद॒-मित्या॑ह । अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते । व्यो॒म॒सद॒-मित्या॑ह । य॒दा वै वसी॑या॒न् भव॑ति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैतेन॑ गच्छति ॥ पृ॒थि॒वि॒षदं॑ त्वाऽन्तरिक्ष॒सद॒-मित्या॑ह । ए॒षामे॒वैतेन॑ लो॒कानाꣳ॑ सूयते । तस्मा᳚द् वाजपे-यया॒जी न कं च॒न प्र॒त्यव॑रोहति । अपी॑व॒ हि दे॒वता॑नाꣳ सू॒यते᳚ ( )
कोर्वै (Index)
(ग॒च्छ॒ति॒ - सू॒यते॒ - +नव॑ च)
1.3.9.3
ना॒क॒सद॒-मित्या॑ह । य॒दावै वसी॑या॒न् भव॑ति । नाक॑मग॒न्निति॒ वै तमा॑हुः । नाक॑मे॒वैतेन॑ गच्छति ॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ इत्या॑ह । प॒ञ्च॒ज॒नाना॑-मे॒वैतेन॑ सूयते ॥ अ॒पाꣳ रस॒मुद्व॑यस॒-मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य सूयते । सूर्य॑रश्मिꣳ स॒माभृ॑त॒-मित्या॑ह सशुक्र॒त्वाय॑ ।
कोर्वै (Index)
(ग॒च्छ॒ति॒ - सू॒यते॒ - +नव॑ च)