TB 1.3.5

4 पञ्चाशत्

1.3.5 अनुवाकं 5 - रथयाजनम्

1.3.5.1
सा॒वि॒त्रं जु॑होति॒ कर्म॑णः कर्मणः पु॒रस्ता᳚त् ॥ कस्तद्-वे॒देत्या॑हुः । यद्-वा॑ज॒पेय॑स्य॒ पूर्वं॒ ॅयदप॑र॒मिति॑ । स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वं कर्मा॑णि करोति ॥ सव॑ने सवने जुहोति । आ॒क्रम॑णमे॒व तथ् सेतुं॒ ॅयज॑मानः कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ वा॒चस्पति॒र्-वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह । वाग्वै दे॒वानां᳚ पु॒राऽन्न॑मासीत् । वाच॑मे॒वास्मा॒ अन्नꣳ॑ स्वदयति ।
कोर्वै (Index)
(स्व॒द॒य॒ति॒ - प॒ल्पू॒लय॑ति॒ - व्यावृ॑त्त्या॒ - अना᳚र्त्यै॒ द्वे च॑)
1.3.5.2
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै ॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह । यच्चै॒वेयम् । यच्चा॒स्यामधि॑ । तदे॒वा-व॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते ॥ अ॒फ्स्व॑न्तर॒-मृत॑म॒फ्सु भे॑ष॒जमित्यश्वा᳚न् पल्पूलयति । अ॒फ्सु वा अश्व॑स्य॒ तृती॑यं॒ प्रवि॑ष्टम् । तद॑नु॒वेन॒न्वव॑प्लवते । यद॒फ्सु प॑ल्पू॒लय॑ति
कोर्वै (Index)
(स्व॒द॒य॒ति॒ - प॒ल्पू॒लय॑ति॒ - व्यावृ॑त्त्या॒ - अना᳚र्त्यै॒ द्वे च॑)
1.3.5.3
यदे॒वास्या॒फ्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे ॥ ब॒हु वा अश्वो॑-ऽमे॒द्ध्य-मुप॑गच्छति । यद॒फ्सु प॑ल्पू॒लय॑ति । मेद्ध्या॑ने॒वैना᳚न् करोति ॥ वा॒युर्वा᳚ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन्न् । ताभि॑रे॒वैनान्॑. युनक्ति । स॒वस्योज्जि॑त्यै ॥ यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ।
कोर्वै (Index)
(स्व॒द॒य॒ति॒ - प॒ल्पू॒लय॑ति॒ - व्यावृ॑त्त्या॒ - अना᳚र्त्यै॒ द्वे च॑)
1.3.5.4
अपां᳚ न पादाशुहेम॒न्निति॒ संमा᳚र्ष्टि । मेद्ध्या॑ने॒वैना᳚न् करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जिꣳ स॑रिष्य॒तः ॥ वि॒ष्णु॒ क्र॒मान् क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाॅल्लो॒का-न॒भिज॑यति ॥ वै॒श्व॒दे॒वो वै रथः॑ । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ ॅयावित्या॑ह । या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ ए॒व नम॑स्करोति । आ॒त्मनोऽना᳚र्त्यै ( ) ॥ अश॑मरथं भावुकोऽस्य॒ रथो॑ भवति । य ए॒वं ॅवेद॑ ।
कोर्वै (Index)
(स्व॒द॒य॒ति॒ - प॒ल्पू॒लय॑ति॒ - व्यावृ॑त्त्या॒ - अना᳚र्त्यै॒ द्वे च॑)