दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेष॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति ॥ दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्.षि॑ष्ठं॒ नाकꣳ॑ रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्.षि॑ष्ठं॒ नाकꣳ॑ रोहति ॥ चात्वा॑ले रथच॒क्रं निमि॑तꣳ रोहति । अतो॒ वा अङ्गि॑रस उत्त॒माः सु॑व॒र्गं ॅलो॒कमा॑यन्न् । सा॒क्षादे॒व यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति ॥ आवे᳚ष्टयति । वज्रो॒ वै रथः॑ । वज्रे॑णै॒व दिशो॒ऽभिज॑यति ।
कोर्वै (Index)
(अ॒भिज॑यति॒ - वा ए॒षा वाग् - दी॑यन्ते - ऽस्मै युनक्ति - गमयति॒ - य आ॒जिं धाव॑न्ति - भवति - दे॒वत॑या॒ - +ऽष्टौ च॑)