प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्रं नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये᳚त् । अ॒न्त॒र॒व॒चा॒रिणꣳ॑ रु॒द्रं कु॑र्यात् । ए॒को॒ल्मु॒केन॑ यन्ति
कोर्वै (Index)
(य॒न्ति॒ - ब्रू॒या॒न् - नि॒रव॑दयते - शास्ते - सिञ्चति॒ षट्च॑)