वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता व॑रुण-प्रघा॒सैर्-व॑रुणपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैः प्रत्य॑स्थापयत् । त्र्य॑म्बकै रु॒द्रं नि॒रवा॑दयत । पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गं ॅलो॒कम॑गमयत् । यद्-वै᳚श्वदे॒वेन॒ यज॑ते । प्र॒जा ए॒व तद्-यज॑मानः सृजते । ता व॑रुण-प्रघा॒सैर्-व॑रुणपा॒शान्-मु॑ञ्चति । सा॒क॒मे॒धैः प्रति॑ष्ठापयति । त्र्य॑म्बकैरु॒द्रं नि॒रव॑दयते
कोर्वै (Index)
(नि॒रव॑दयते - पितृ॒मा - न॑ग्निष्वा॒त्ता - एक॒योप॑ मन्थ॒ - त्यखा॑ता भवति-मनु॒ष्या॑णां - पद्यन्ते - परिद॒द्ध्यान् - मी॑यते॒ पञ्च॑ च)