यत्पत्नी॑ गृहमे॒धीय॑-स्याश्ञी॒यात् । गृ॒ह॒मे॒द्ध्ये॑व स्या᳚त् । वि त्व॑स्य य॒ज्ञ् ऋ॑ध्येत । यन्नाश्ञी॒यात् । अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत । प्रति॑वेशं पचेयुः । तस्या᳚श्ञीयात् । गृ॒ह॒मे॒द्ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते
कोर्वै (Index)
(ऋ॒द्ध्य॒ते॒ऽ-भ्य॑ञ्जते-जुहोति-वृणामहै-भवत्य॒- +ष्टौ च॑)