उत्त॑रस्यां॒ ॅवेद्या॑म॒न्यानि॑ ह॒वीꣳषि॑ सादयति । दक्षि॑णायां मारु॒तीम् । अ॒प॒धु॒रमे॒वैना॑ युनक्ति । अथो॒ ओज॑ ए॒वासा॒मव॑हरति । तस्मा॒द्-ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशो᳚ऽन्यतोऽपक्र॒मिणीः᳚ । मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति । अनृ॑तमे॒वाव॑ यजते । वा॒रु॒ण्योत्त॑रया । अ॒न्त॒त ए॒व वरु॑ण॒मव॑-यजते । यदे॒वाद्ध्व॒र्युः क॒रोति॑
कोर्वै (Index)
(क॒रोति॑ - ग्राहय - त्याहव॒नीय॒ - स्तिष्ठ॑ञ्जुहो - त्य॒पो॑ऽवभृ॒थमवै॑ति - धत्ते)