TB 1.6.3

10 पञ्चाशत्

1.6.3 अनुवाकं 3 - वैश्वदेवपर्गतानि विश्वेषाङ्गानि

1.6.3.1
त्रि॒वृद्-ब॒र्॒.हिर्-भ॑वति । मा॒ता पि॒ता पु॒त्रः । तदे॒व तन्-मि॑थु॒नम् । उल्बं॒ गर्भो॑ ज॒रायु॑ । तदे॒व तन् मि॑थु॒नम् । त्रे॒धा ब॒र्॒.हिः संन॑द्धं भवति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति । ए॒क॒धा पुनः॒ संन॑द्धं भवति । एक॑ इव॒ ह्य॑यं ॅलो॒कः ।
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.2
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठति । प्र॒सुवो॑ भवन्ति । प्र॒थ॒म॒जामे॒व पुष्टि॒मव॑ रुन्धे । प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । पृ॒ष॒दा॒ज्यं गृ॑ह्णाति । प॒शवो॒ वै पृ॑षदा॒ज्यम् । प॒शूने॒वाव॑ रुन्धे । प॒ञ्च॒गृ॒ही॒तं भ॑वति । पाङ्क्ता॒ हि प॒शवः॑ । ब॒हु॒रू॒पं भ॑वति
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.3
ब॒हु॒रू॒पा हि प॒शवः॒ समृ॑द्ध्यै । अ॒ग्निं म॑न्थन्ति । अ॒ग्निमु॑खा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यद॒ग्निं मन्थ॑न्ति । अ॒ग्निमु॑खा ए॒व तत् प्र॒जा यज॑मानः सृजते । नव॑ प्रया॒जा इ॑ज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ ह॒वीꣳषि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.4
त्रिꣳ॒॒शथ् संप॑द्यन्ते । त्रिꣳ॒॒शद॑क्षरा वि॒राट् । अन्नं॑ ॅवि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्य᳚म् । यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व तेज॑सा॒ सम॑र्द्धयति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्य᳚म्
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.5
यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व प॒शुभिः॒ सम॑र्द्धयति । यदल्प॑मा॒नये᳚त् । अल्पा॑ एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन्न् । यद्-ब॒ह्वा॑नये᳚त् । ब॒हव॑ एनं प॒शवो भु॑ञ्जन्त॒ उप॑तिष्ठेरन्न् । ब॒ह्वा॑नीया॒विः पृ॑ष्ठं कुर्यात् । ब॒हव॑ ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा एक॑कपालः । यदेक॑कपालस्याव॒द्येत्
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.6
यज॑मान॒स्याव॑द्येत् । उद्वा॒ माद्ये॒द्-यज॑मानः । प्र वा॑ मीयेत । स॒कृदे॒व हो॑त॒व्यः॑ । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः । हु॒त्वाऽभि जु॑होति । यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं ग॑मयि॒त्वा । तेज॑सा॒ सम॑र्द्धयति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.7
यदेक॑कपाल-माहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं ग॑मयति । यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गा-ल्लो॒काद्-यज॑मान॒-मव॑विद्ध्येत् । स्रु॒चा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । यत् प्राङ्पद्ये॑त । दे॒व॒लो॒कम॒भि ज॑येत् । यद्-द॑क्षि॒णा पि॑तृलो॒कम् । यत् प्र॒त्यक्
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.8
रक्षाꣳ॑सि य॒ज्ञ्ꣳ ह॑न्युः । यदुदङ्ङ्॑ । म॒नु॒ष्य॒लो॒क-म॒भिज॑येत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपालं॒ ॅवै प्र॑ति॒तिष्ठ॑न्तं॒ द्यावा॑पृथि॒वी अनु॒ प्रति॑तिष्ठतः । द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून्. य॒ज्ञ्ः । य॒ज्ञ्ं ॅयज॑मानः । यज॑मानं प्र॒जाः । तस्मा॒त्-प्रति॑ष्ठितो होत॒व्यः॑
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.9
वा॒जिनो॑ यजति । अ॒ग्निर्वा॒युः सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व तद्-य॑जति । अथो॒ खल्वा॑हुः । छन्दाꣳ॑सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व तद्-य॑जति । ऋ॒ख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ᳚ । तयोः᳚ परि॒धय॑ आ॒धान᳚म् । वाजि॑नं भाग॒धेय᳚म्
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)
1.6.3.10
यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् । अ॒न्तरा॑धानाभ्यां घा॒सं प्रय॑च्छेत् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व घा॒सं प्रय॑च्छति । ब॒र्॒.हिषि॑ विषि॒ञ्चन्वाजि॑न॒-मान॑यति । प्र॒जा वै ब॒र॒.हिः । रेतो॒ वाजि॑नम् । प्र॒जास्वे॒व रेतो॑ दधाति । स॒मु॒प॒हूय॑ भक्षयन्ति । ए॒तथ् सो॑मपीथा॒ ह्ये॑ते ( ) । अथो॑ आ॒त्मन्ने॒व रेतो॑ दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वाजि॑नम् । यज॑मान ए॒व प॒शून् प्रति॑ष्ठापयन्ति ।
कोर्वै (Index)
(लो॒को - ब॑हुरू॒पं भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒त् प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च)