TB 1.6.9

11 पञ्चाशत्

1.6.9 अनुवाकं 9 - तच्छेषः

1.6.9.1
अ॒ग्नये॑ दे॒वेभ्यः॑ पि॒तृभ्यः॑ समि॒द्ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते᳚ । एका॒मन्वा॑ह । एका॒ हि पि॑तृ॒णाम् । त्रिरन्वा॑ह । त्रिर्.हि दे॒वाना᳚म् । आ॒घा॒रावाघा॑रयति । य॒ज्ञ्॒ प॒रुषो॒रन॑न्तरित्यै । नार्.षे॒यं ॅवृ॑णीते । न होता॑रम्
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.2
यदा॑र्.षे॒यं ॅवृ॑णी॒त । यद्धोता॑रम् । प्र॒मायु॑को॒ यज॑मानः स्यात् । प्र॒मायु॑को॒ होता᳚ । तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतु॑र्-गोपी॒थाय॑ । अप॑बर्.हिषः प्रया॒जान्.-य॑जति । प्र॒जा वै ब॒र्॒.हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । आज्य॑भागौ यजति
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.3
य॒ज्ञ्स्यै॒व चक्षु॑षी॒ नान्तरे॑ति । प्रा॒ची॒ना॒वी॒ती सोमं॑ ॅयजति । पि॒तृ॒दे॒व॒त्या॑ हि । ए॒षा ऽऽहु॑तिः । पञ्च॒ कृत्वोऽव॑द्यति । पञ्च॒ ह्ये॑ता दे॒वताः᳚ । द्वे पु॑रोऽनुवा॒क्ये᳚ । या॒ज्या॑ दे॒वता॑ वषट्का॒रः । ता ए॒व प्री॑णाति । सन्त॑त॒मव॑ द्यति
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.4
ऋ॒तू॒नाꣳ संत॑त्यै । प्रैवैभ्यः॒ पूर्व॑या पुरोऽनुवा॒क्य॑या ऽऽह । प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । अह्न॑ ए॒वैना॒न् पूर्व॑या पुरोऽनुवा॒क्य॑या॒ ऽत्यान॑यति । रात्रि॑यै द्वि॒तीय॑या । ऐवैनान्॑. या॒ज्य॑या गमयति । द॒क्षि॒ण॒तो॑ऽव॒दाय॑ । उद॒ङ्ङति॑ क्रामति॒ व्यावृ॑त्त्यै
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.5
आ स्व॒धेत्या-श्रा॑वयति । अस्तु॑ स्व॒धेति॑ प्र॒त्याश्रा॑वयति । स्व॒धा नम॒ इति॒ वष॑ट्करोति । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । सोम॒मग्रे॑ यजति । सोम॑ प्रयाजा॒ हि पि॒तरः॑ । सोमं॑ पितृ॒मन्तं॑ ॅयजति । स॒म्ॅव॒थ्स॒रो वै सोमः॑ पितृ॒मान् । स॒म्ॅव॒थ्स॒रमे॒व तद्-य॑जति । पि॒तॄन्-ब॑र्.हि॒षदो॑ यजति
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.6
ये वै यज्वा॑नः । ते पि॒तरो॑ बर्.हि॒षदः॑ । ताने॒व तद्-य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान्. य॑जति । ये वा अय॑ज्वानो गृहमे॒धिनः॑ । ते पि॒तरो᳚ऽग्निष्वा॒त्ताः । ताने॒व तद्-य॑जति । अ॒ग्निं क॑व्य॒वाह॑नं ॅयजति । य ए॒व पि॑तृ॒णाम॒ग्निः । तमे॒व तद्-य॑जति
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.7
अथो॒ यथा॒ऽग्निꣳ स्वि॑ष्ट॒कृतं॒ ॅयज॑ति । ता॒दृगे॒व तत् । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्विति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति । तस्मा॒दा तृ॒तीया॒त् पुरु॑षा॒न्नाम॒ न गृ॑ह्णन्ति । ए॒ताव॑न्तो॒ हीज्यन्ते᳚ । अत्र॑ पितरो यथाभा॒गं म॑न्दद्ध्व॒मित्या॑ह । ह्लीका॒ हि पि॒तरः॑ । उद॑ञ्चो॒ निष्क्रा॑मन्ति । ए॒षा वै म॑नु॒ष्या॑णां॒ दिक् । स्वामे॒व तद्-दिश॒मनु॒ निष्क्रा॑मन्ति
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.8
आ॒ह॒व॒नीय॒-मुप॑तिष्ठन्ते । न्ये॑वास्मै॒ तद्ध्नु॑वते । यथ्स॒त्या॑हव॒नीये᳚ । अथा॒न्यत्र॒ चर॑न्ति । आतमि॑तो॒रुप॑तिष्ठन्ते । अ॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वा । पि॒तॄन्-नि॒रव॑दयन्ते । अन्तं॒ ॅवा ए॒ते प्रा॒णानां᳚ गच्छन्ति । य आतमि॑तोरुप॒तिष्ठ॑न्ते । सु॒स॒न्दृशं॑ त्वा व॒यमित्या॑ह
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.9
प्रा॒णो वै सु॑स॒न्दृक् । प्रा॒णमे॒वात्मन्-द॑धते । योजा॒ न्वि॑न्द्र ते॒ हरी॒ इत्या॑ह । प्रा॒णमे॒व पुन॑रयुक्त । अक्ष॒न्नमी॑मदन्त॒ हीति॒ गार्.ह॑पत्य॒-मुप॑तिष्ठन्ते । अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒ इति॒ वावैतदा॑ह । अमी॑मदन्त पि॒तरः॑ सो॒म्या इत्य॒भि प्रप॑द्यन्ते । अमी॑मदन्त पि॒तरोऽथ॑ त्वा॒ऽभि प्रप॑द्यामह॒ इति॒ वावैतदा॑ह । अ॒पः परि॑षिञ्चति । मा॒र्जय॑त्ये॒वैनान्॑
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.10
अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । य ए॒वं ॅवेद॑ । अप॑ बर्.हिषावनूया॒जौ य॑जति । प्र॒जा वै ब॒र्॒.हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । च॒तुरः॑ प्रया॒जान्. य॑जति । द्वाव॑नूया॒जौ । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ ( )
कोर्वै (Index)
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्.हि॒षदो॑ यजति॒ - तमे॒व तद् य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च)
1.6.9.11
ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वा᳚स्ते । न सम्ॅया॑जयन्ति । यत्पत्न्य॒न्वासी॑त । यथ्स॑म्ॅया॒जये॑युः । प्र॒मायु॑का स्यात् । तस्मा॒न्नान्वा᳚स्ते । न सम्ॅया॑जयन्ति । पत्नि॑यै गोपी॒थाय॑ ।