TB 1.6.2

7 पञ्चाशत्

1.6.2 अनुवाकं 2 - चातुर्मास्ये वैश्वदेवहवींषि

1.6.2.1
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ताः सृ॒ष्टा न प्राजा॑यन्त । सो᳚ऽग्निर॑कामयत । अ॒हमि॒माः प्रज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् । सो॑ऽशोचत्-प्र॒जामि॒च्छमा॑नः । तस्मा॒द्यं च॑ प्र॒जा भु॒नक्ति॒ यं च॒ न । तावु॒भौ शो॑चतः प्र॒जामि॒च्छमा॑नौ । तास्व॒ग्निमप्य॑ सृजत् । ता अ॒ग्निरद्ध्यै᳚त्
कोर्वै (Index)
(ऐ॒द् - इत्य॑ - शोचद् - व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तर.हि॑ प॒शवः॑)
1.6.2.2
सोमो॒ रेतो॑ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् । पू॒षा ऽपो॑षयत् । ते वा ए॒ते त्रिः स॑म्ॅवथ्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वाः पुष्टि॑पतयः । स॒म्ॅव॒थ्स॒रो वै प्र॒जाप॑तिः । स॒म्ॅव॒थ्स॒रेणै॒वास्मै᳚ प्र॒जाः प्राज॑नयत् । ताः प्र॒जा जा॒ता म॒रुतो᳚ घ्नन्न् । अ॒स्मानपि॒ न प्रायु॑क्ष॒तेति॑
कोर्वै (Index)
(ऐ॒द् - इत्य॑ - शोचद् - व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तर.हि॑ प॒शवः॑)
1.6.2.3
स ए॒तं प्र॒जाप॑तिर्मारु॒तꣳ स॒प्तक॑पाल-मपश्यत् । तं निर॑वपत् । ततो॒ वै प्र॒जाभ्यो॑कल्पत । यन्मा॑रु॒तो नि॑रु॒प्यते᳚ । य॒ज्ञ्स्य॒ क्लृप्त्यै᳚ । प्र॒जाना॒-मघा॑ताय । स॒प्तक॑पालो भवति । स॒प्तग॑णा॒ वै म॒रुतः॑ । ग॒ण॒श ए॒वास्मै॒ विशं॑ कल्पयति । स प्र॒जाप॑ति-रशोचत्
कोर्वै (Index)
(ऐ॒द् - इत्य॑ - शोचद् - व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तर.हि॑ प॒शवः॑)
1.6.2.4
याः पूर्वाः᳚ प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अ॑वधिषुः । क॒थमप॑राः सृजे॒येति॑ । तस्य॒ शुष्म॑ आ॒ण्डं भू॒तं निर॑वर्तत । तद्व्युद॑हरत् । तद॑पोषयत् । तत् प्राजा॑यत । आ॒ण्डस्य॒ वा ए॒तद् रू॒पम् । यदा॒मिक्षा᳚ । यद्व्यु॒द्धर॑ति
कोर्वै (Index)
(ऐ॒द् - इत्य॑ - शोचद् - व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तर.हि॑ प॒शवः॑)
1.6.2.5
प्र॒जा ए॒व तद्-यज॑मानः पोषयति । वै॒श्व॒दे॒व्या॑मिक्षा॑ भवति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । वाजि॑न॒मान॑यति । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति । प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑-मुभ॒यतः॒ परि॑ गृह्णाति । दे॒वा॒सु॒राः सम्ॅय॑त्ता आसन्न् । सा᳚ऽग्निर॑ब्रवीत्
कोर्वै (Index)
(ऐ॒द् - इत्य॑ - शोचद् - व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तर.हि॑ प॒शवः॑)
1.6.2.6
मामग्रे॑ यजत । मया॒ मुखे॒नासु॑रां जेष्य॒थेति॑ । मां द्वि॒तीय॒मिति॒ सोमो᳚ऽब्रवीत् । मया॒ राज्ञा॑ जेष्य॒थेति॑ । मां तृ॒तीय॒मिति॑ सवि॒ता । मया॒ प्रसू॑ता जेष्य॒थेति॑ । मां च॑तु॒र्थीमिति॒ सर॑स्वती । इ॒न्द्रि॒यं ॅवो॒ऽहं धा᳚स्या॒मीति॑ । मां प॑ञ्च॒ममिति॑ पू॒षा । मया᳚ प्रति॒ष्ठया॑ जेष्य॒थेति॑
कोर्वै (Index)
(ऐ॒द् - इत्य॑ - शोचद् - व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तर.हि॑ प॒शवः॑)
1.6.2.7
ते᳚ऽग्निना॒ मुखे॒नासु॑रानजयन्न् । सोमे॑न॒ राज्ञा᳚ । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒य-म॑दधात् । पू॒षा प्र॑ति॒ष्ठा ऽऽसी᳚त् । ततो॒ वै दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीꣳषि॑ निरु॒प्यन्ते॒ विजि॑त्यै । नोत्त॑रवे॒दिमुप॑- वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । अजा॑ता इव॒ ह्ये॑तर्.हि॑ प॒शवः॑ ( ) ।
कोर्वै (Index)
(ऐ॒द् - इत्य॑ - शोचद् - व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तर.हि॑ प॒शवः॑)