TB 3.10.1

4 पञ्चाशत्

3.10.1 अनुवाकं 1 -अनुवाकेषु नवसु लेखासु नाभ्यां चेष्टकोपधानं स्वयमातृण्णोपधानं चोच्यते

3.10.1.1
सं॒ज्ञानं॑ ॅवि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भिजा॒नत् । स॒कंल्प॑मानं प्र॒कल्प॑मान-मुप॒कल्प॑मान॒-मुप॑क्लृप्तं क्लृ॒प्तं ।श्रेयो॒ वसी॑य आ॒यथ्संभू॑तं भू॒तं ॥ चि॒त्रः के॒तुः प्र॒भाना॒भान्थ् स॒भांन् । ज्योति॑ष्माꣳ॒॒-स्तेज॑स्वाना॒तपꣳ॒॒-स्तप॑न्नभि॒तपन्न्॑ । रो॒च॒नो रोच॑मानः-शोभ॒नः-शोभ॑मानः क॒ल्याणः॑ ॥ दर्.शा॑ दृ॒ष्टा द॑र्.श॒ता वि॒श्वरू॑पा सुदर्.श॒ना । आ॒प्याय॑माना॒ प्याय॑माना॒-प्याया॑ सू॒नृतेरा᳚ । आ॒पूर्य॑माणा॒ पूर्य॑माणा पू॒रय॑न्ती पू॒र्णा पौ᳚र्णमा॒सी ॥ दा॒ता प्र॑दा॒ताऽऽन॒न्दो मोदः॑ प्रमो॒दः
कोर्वै (Index)
(प्र॒मो॒द - स्त॒र्पय॑न्ती - प्रमो॒दो - ज॒वस्त्रीणि॑ च)
3.10.1.2
आ॒वे॒शय॑-न्निवे॒शयन्᳚थ्स॒म्ॅवेश॑नः॒ सꣳशा᳚न्तः शा॒न्तः । आ॒भव॑न् प्र॒भवन्᳚-थ्स॒भंव॒न्-थ्संभू॑तो भू॒तः ॥प्रस्तु॑तं॒ ॅविष्टु॑तꣳ॒॒ सꣳस्तु॑तं क॒ल्याणं॑ ॅवि॒श्वरू॑पं । शु॒क्रम॒मृतं॑ तेज॒स्वि तेजः॒ समि॑द्धं । अ॒रु॒णं भा॑नु॒मन् मरी॑चिमदभि॒तप॒त् तप॑स्वत् ॥ स॒वि॒ता प्र॑सवि॒ता दी॒प्तो दी॒पय॒न् दीप्य॑मानः । ज्वलं॑ ज्वलि॒ता तप॑न् वि॒तपन्᳚-थ्स॒न्तपन्न्॑ । रो॒च॒नो रोच॑मानः शु॒भूंः शुंभ॑मानो वा॒मः ॥ सु॒ता सु॑न्व॒ती प्रसु॑ता सू॒यमा॑ना ऽभिषू॒यमा॑णा । पीती᳚ प्र॒पा स॒पां तृप्ति॑-स्त॒र्पय॑न्ती
कोर्वै (Index)
(प्र॒मो॒द - स्त॒र्पय॑न्ती - प्रमो॒दो - ज॒वस्त्रीणि॑ च)
3.10.1.3
का॒न्ता का॒म्या का॒मजा॒ता ऽऽयु॑ष्मती काम॒दुघा᳚ ॥ अ॒भि॒शा॒स्ता ऽनु॑म॒न्ता-ऽऽन॒न्दो मोदः॑ प्रमो॒दः । आ॒सा॒दय॑न् निषा॒दयन्᳚-थ्सꣳ॒॒साद॑नः॒ सꣳस॑न्नः स॒न्नः । आ॒भू र्वि॒भूः प्र॒भूः श॒भूं र्भुवः॑ ॥ प॒वित्रं॑ पवयि॒ष्यन् पू॒तो मेद्ध्यः॑ । यशो॒ यश॑स्वा-ना॒युर॒मृतः॑ । जी॒वो जी॑वि॒ष्यन् थ्स्व॒र्गो लो॒कः ॥ सह॑स्वा॒न् थ्सही॑या॒-नोज॑स्वा॒न् थ्सह॑मानः । जय॑न्न-भि॒जयन्᳚-थ्सु॒द्रवि॑णो द्रविणो॒दाः । आ॒र्द्रप॑वित्रो॒ हरि॑केशो॒ मोदः॑ प्रमो॒दः ।
कोर्वै (Index)
(प्र॒मो॒द - स्त॒र्पय॑न्ती - प्रमो॒दो - ज॒वस्त्रीणि॑ च)
3.10.1.4
अ॒रु॒णो॑ ऽरु॒णर॑जाः पु॒ण्डरी॑को विश्व॒जिद॑-भि॒जित् । आ॒र्द्रः पिन्व॑मा॒नो ऽन्न॑वा॒न्-रस॑वा॒-निरा॑वान् । स॒र्वौ॒ष॒धः स॑भं॒रो मह॑स्वान् ॥ ए॒ज॒त्का जो॑व॒त्काः । क्षु॒ल्ल॒काः शि॑पिविष्ट॒काः । स॒रि॒स्त्र॒राः सु॒शेर॑वः । अ॒जि॒रासो॑ गमि॒ष्णवः॑ ॥ इ॒दानीं᳚ त॒दानी॑-मे॒तर्.हि॑ क्षि॒प्रम॑जि॒रं । आ॒शु र्नि॑मे॒षः फ॒णो द्रव॑न्नति॒-द्रवन्न्॑ । त्वरꣳ॒॒ स्त्वर॑माण आ॒शुराशी॑याञ्ज॒वः {आ॒शुराशी॑यान् ज॒वः} ( ) ॥ अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो॑ ऽतिरा॒त्रो द्वि॑रा॒त्र-स्त्रि॑रा॒त्र-श्च॑तूरा॒त्रः । अ॒ग्निर्. ऋ॒तुः सूर्य॑ ऋ॒तुश्च॒न्द्रमा॑ ऋ॒तुः ॥ प्र॒जाप॑तिः सम्ॅवथ्स॒रो म॒हान्कः ।
कोर्वै (Index)
(प्र॒मो॒द - स्त॒र्पय॑न्ती - प्रमो॒दो - ज॒वस्त्रीणि॑ च)