वि॒प॒श्चिते॒ पव॑मानाय गायत । म॒ही न धारा ऽत्यन्धो॑ अर्.षति । अहि॑र्.ह जी॒र्णामति॑सर्पति॒ त्वचं᳚ । अत्यो॒ न क्रीड॑न्न सर॒द्वृषा॒ हरिः॑ । उ॒प॒या॒मगृ॑हीतोऽसि मृ॒त्यवे᳚ त्वा॒ जुष्टं॑ गृह्णामि । ए॒ष ते॒ योनि॑र्मृ॒त्यवे᳚ त्वा ॥ अप॑ मृ॒त्यु-मप॒क्षुधं᳚ । अपे॒तः श॒पथं॑ जहि । अधा॑ नो अग्न॒ आव॑ह । रा॒यस्पोषꣳ॑ सह॒स्रिणं᳚
कोर्वै (Index)
(स॒ह॒स्रिण॑ - मिहि॒ - श्रोत्रासा॒वेहि॑ - प्रा॒णे श्रि॒तो - मन॑सि श्रि॒तो - रेत॑सि श्रि॒ता - लोम॑सु श्रि॒ता - मू॒र्द्ध्नि श्रि॒त - आ॒त्मनि॑ श्रि॒तो᳚ - +ऽष्टौ च॑)