प्र॒जाप॑ति र्दे॒वान॑सृजत । ते पा॒प्मना॒ संदि॑ता अजायन्त । तान् व्य॑द्यत् । यद् व्य॒द्यत् । तस्मा᳚द् वि॒द्युत् । तम॑वृश्चत् । यदवृ॑श्चत् । तस्मा॒द् वृष्टिः॑ । तस्मा॒द् यत्रै॒ते दे॒वते॑ अभि॒प्राप्नु॑तः । विच॑ है॒वास्य॒ तत्र॑ पा॒प्मान॒न्द्यतः॑
कोर्वै (Index)
(द्यतो॒ - द्यतो॒ - वेदेति॒ - तप॒ इति॑ - स॒मवा॑दि॒ष्टेति॒ - तद् - रात्रेर्॑. - ऋ॒तवः॑ - एति - चकारो - वाच॒ - नम॒ इत्या॑ - दि॒त्य इति॒ त्रीणि॑ - सावि॒त्रं ॅवेद॑ - विद्धि॒ पञ्च॑ च)