कश्चि॑द्ध॒वा अ॒स्मा-ल्लो॒कात् प्रेत्य॑ । आ॒त्मानं॑ ॅवेद । अ॒य-म॒ह-म॒स्मीति॑ । कश्चि॒थ्स्वं ॅलो॒कं न प्रति॒ प्रजा॑नाति ॥ अ॒ग्निमु॑ग्धो है॒व धु॒मता᳚न्तः । स्वं ॅलो॒कं न प्रति॒ प्रजा॑नाति ।अथ॒ यो है॒वैत-म॒ग्निꣳ सा॑वि॒त्रं ॅवेद॑ । स ए॒वास्मा ल्लो॒कात् प्रेत्य॑ । आ॒त्मानं॑ ॅवेद । अ॒य-म॒ह-म॒स्मीति॑
कोर्वै (Index)
(अ॒यम॒हम॒स्मीति॒ - वेद॑ - होवाच - सर्ववि॒द्येति॑ - वि॒द्ये - न्द्र॑स्य॒ वा ए॒तानि॑ नाम॒धेया॑नि॒ - ब्रह्म॑ण ए॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति स॒प्त च॑) ।