TB 3.10.2

1 पञ्चाशत्

3.10.2 अनुवाकं 2 - अनुवाकेषु नवसु लेखासु नाभ्यां चेष्टकोपधानं स्वयमातृण्णोपधानं चोच्यते

3.10.2.1
भूर॒ग्निं च॑ पृथि॒वीं च॒ मां च॑ । त्रीꣳश्च॑ लो॒कान् थ्स॑म्ॅवथ्स॒रं च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिर॒स्वद्-ध्रु॒वा सी॑द ॥ भुवो॑ वा॒युं चा॒न्तरि॑क्षं च॒ मां च॑ । त्रीꣳश्च॑ लो॒कान् थ्स॑म्ॅवथ्स॒रं च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽ ङ्गिंर॒स्वद् ध्रु॒वा सी॑द । स्व॑रादि॒त्यं च॒ दिवं॑ च॒ मां च॑ । त्रीꣳश्च॑ लो॒कान् थ्स॑म्ॅवथ्स॒रं च॑ ( ) । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिंर॒स्वद् ध्रु॒वा सी॑द । भूर्भुवः॒ स्व॑-श्च॒न्द्रम॑सं च॒ दिश॑श्च॒ मां च॑ । त्रीꣳश्च॑ लो॒कान् थ्स॑वंथ्स॒रं च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
कोर्वै (Index)
(स॒म्ॅव॒थ्स॒रं॒ च॒ षट् च॑)