TB 3.10.4

3 पञ्चाशत्

3.10.4 अनुवाकं 4 -अनुवाकेषु नवसु लेखासु नाभ्यां चेष्टकोपधानं स्वयमातृण्णोपधानं चोच्यते

3.10.4.1
स॒म्ॅव॒थ्स॒रो॑ऽसि परिवथ्स॒रो॑ऽसि । इ॒दा॒व॒थ्स॒रो॑ऽसी-दुवथ्स॒रो॑ऽसि । इ॒द्व॒थ्स॒रो॑ऽसि वथ्स॒रो॑ऽसि । तस्य॑ ते वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र॒.षाः पुच्छं᳚ । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मद्ध्यं᳚ । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षं
कोर्वै (Index)
(पुरी॑षꣳ - समु॒द्रयो॑निः - पृथि॒वीं मे॑ यच्छा॒न्तरि॑क्षं मे यच्छ स॒प्त च॑)
3.10.4.2
अ॒हो॒रा॒त्रा-णीष्ट॑काः । ऋ॒ष॒भो॑ऽसि स्व॒र्गो लो॒कः । यस्यां᳚ दि॒शि म॒हीय॑से । ततो॑ नो॒ मह॒ आव॑ह । वा॒यु र्भू॒त्वा सर्वा॒ दिश॒ आवा॑हि । सर्वा॒ दिशोऽनु॒ विवा॑हि । सर्वा॒ दिशोऽनु॒ सम्ॅवा॑हि । चित्त्या॒ चिति॒-मापृ॑ण । अचि॑त्त्या॒ चिति॒-मापृ॑ण । चिद॑सि समु॒द्रयो॑निः
कोर्वै (Index)
(पुरी॑षꣳ - समु॒द्रयो॑निः - पृथि॒वीं मे॑ यच्छा॒न्तरि॑क्षं मे यच्छ स॒प्त च॑)
3.10.4.3
इन्दु॒ र्दक्षः॑ श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान् थ्स॒धस्थे᳚ ध्रु॒व आनिष॑त्तः । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । दिवं॑ मे यच्छ । अ॒न्तरि॑क्षं मे यच्छ । पृ॒थि॒वीं मे॑ यच्छ । पृ॒थि॒वीं मे॑ यच्छ । अ॒न्तरि॑क्षं मे यच्छ ( ) । दिवं॑ मे यच्छ । अह्ना॒ प्रसा॑रय । रात्र्या॒ सम॑च । रात्र्या॒ प्रसा॑रय । अह्ना॒ सम॑च । कामं॒ प्रसा॑रय । कामꣳ॒॒ सम॑च ।
कोर्वै (Index)
(पुरी॑षꣳ - समु॒द्रयो॑निः - पृथि॒वीं मे॑ यच्छा॒न्तरि॑क्षं मे यच्छ स॒प्त च॑)