भूर्भुवः॒ स्वः॑ । ओजो॒ बलं᳚ । ब्रह्म॑ क्ष॒त्रं । यशो॑ म॒हत् । स॒त्यं तपो॒ नाम॑ । रू॒प-म॒मृतं᳚ । चक्षुः॒ श्रोत्रं᳚ । मन॒ आयुः॑ ।विश्वं॒ ॅयशो॑ म॒हः । स॒मं तपो॒ हरो॒ भाः ( ) । जा॒तवे॑दा॒ यदि॑ वा पाव॒कोऽसि॑ । वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तोऽसि॑ । शं प्र॒जाभ्यो॒ यज॑मानाय लो॒कं । ऊर्जं॒ पुष्टिं॒ दद॑-द॒भ्याव॑वृथ्स्व ।
कोर्वै (Index)
(भाश्च॒त्वारि॑ च)