दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑ति-मब्रुवन्न् । प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ । तं ॅय॑ज्ञ्क्र॒तुभि॒-रन्वै᳚च्छत् । तं ॅय॑ज्ञ्क्र॒तुभि॒-र्नान्व॑विन्दत् ।तमिष्टि॑भि॒-रन्वै᳚च्छत् । तमिष्टि॑भि॒-रन्व॑विन्दत् ।तदिष्टी॑ना-मिष्टि॒त्वं । एष्ट॑यो ह॒वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑ प्रिया इव॒ हि दे॒वाः ।
TB 3.12.2
9 पञ्चाशत्
॥
3.12.2 अनुवाकं 2 -तासां ब्राह्मणम्
तमाशा᳚-ऽब्रवीत् । प्रजा॑पत आ॒शया॒ वै श्रा᳚म्यसि ।अ॒हमु॒ वा आशा᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्याऽऽशा॑ भविष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर॑वपत् ।आ॒शायै॑ च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्या-ऽऽशा॑ ऽभवत् । अनु॑ स्व॒र्गं ॅलो॒क-म॑विन्दत् । स॒त्या ह॒ वा अ॒स्याशा॑ भवति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ ॥ सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒-ऽऽशायै॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तं कामो᳚ऽब्रवीत् । प्रजा॑पते॒ कामे॑न॒ वै श्रा᳚म्यसि । अ॒हमु॒वै कामो᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यः कामो॑ भविष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर॑वपत् । कामा॑य च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्यः कामो॑ऽभवत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य॒ कामो॑ भवति ।अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तं ब्रह्मा᳚ऽब्रवीत् । प्रजा॑पते॒ ब्रह्म॑णा॒ वैश्रा᳚म्यसि । अ॒हमु॒ वै ब्रह्मा᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते ब्रह्म॒ण्वान्. य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर॑वपत् । ब्रह्म॑णे च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ ब्रह्म॒ण्वान्. य॒ज्ञो॑ऽभवत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । ब्र॒ह्म॒ण्वान्. ह॒ वा अ॑स्य य॒ज्ञो भ॑वति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तं ॅय॒ज्ञो᳚ऽब्रवीत् । प्रजा॑पते य॒ज्ञेन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै य॒ज्ञो᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यो य॒ज्ञो भ॑वष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर॑वपत् । य॒ज्ञाय॑ च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्यो य॒ज्ञो॑ऽभवत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य य॒ज्ञो भ॑वति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तमापो᳚-ऽब्रुवन्न् । प्रजा॑पते॒ऽफ्सु वै सर्वे॒ कामाः᳚ श्रि॒ताः । व॒यमु॒ वा आप॑स्स्मः । अ॒स्मान्नु य॑जस्व । अथ॒ त्वयि॒ सर्वे॒ कामाः᳚ श्रयिष्यन्ते । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒द्भ्यश्च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्मि॒न्थ्-सर्वे॒ कामा॑ अश्रयन्त । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । सर्वे॑ ह॒ वा अ॑स्मि॒न् कामाः᳚ श्रयन्ते । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ऽद्भ्यः स्वाहा᳚ ।अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तम॒ग्नि र्ब॑लि॒मान॑ब्रवीत् । प्रजा॑पते॒ ऽग्नये॒ वै ब॑लि॒मते॒ सर्वा॑णि भू॒तानि॑ ब॒लिꣳ ह॑रन्ति । अ॒हमु॒ वा अ॒ग्नि र्ब॑लि॒मान॑स्मि । मां नु य॑जस्व । अथ॑ ते॒ सर्वा॑णि भू॒तानि॑ ब॒लिꣳ ह॑रिष्यन्ति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् । अ॒ग्नये॑ बलि॒मते॑ च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्मै॒ सर्वा॑णि भू॒तानि॑ ब॒लि-म॑हरन्न् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । सर्वा॑णि ह॒ वा अ॑स्मै भू॒तानि॑ ब॒लिꣳ ह॑रन्ति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति ।अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ऽग्नये॑ बलि॒मते॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तमनु॑वित्तिर-ब्रवीत् । प्रजा॑पते स्व॒र्गं ॅवै लो॒कमनु॑-विविथ्ससि । अ॒हमु॒ वा अनु॑वित्तिरस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्या ऽनु॑वित्ति-र्भविष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर॑वपत् । अनु॑वित्त्यै च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्या ऽनु॑वित्तिरभवत् । अनु॑ स्व॒र्गं ॅलो॒क-म॑विन्दत् । स॒त्या ह॒ वा अ॒स्यानु॑वित्ति-र्भवति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा-ऽनु॑वित्त्यै॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
ता वा ए॒ताः स॒प्त स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । दि॒वः श्ये॑न॒यो ऽनु॑वित्तयो॒ नाम॑ । आशा᳚ प्रथ॒माꣳ र॑क्षति । कामो᳚ द्वि॒तीयां᳚ । ब्रह्म॑ तृ॒तीयां᳚ । य॒ज्ञ्श्च॑तु॒र्थीं । आपः॑ पञ्च॒मीं । अ॒ग्नि र्ब॑लि॒मान्-थ्ष॒ष्ठीं । अनु॑वित्तिः सप्त॒मीं । अनु॑ ह॒ वै स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । का॒म॒चारो᳚ऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒-रिष्टि॑भि॒-र्यज॑ते । य उ॑चैना ए॒वं ॅवेद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒ व॒रां द॑द्यात् कꣳ॒॒ सञ्च॑ । स्त्रियै॑ चाभा॒रꣳ समृ॑द्ध्यै ।